________________ 824 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० तदुच्छेदे च प्रमाणम्-नवानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते, सन्तानत्वात् , प्रेदीपादिसन्तानवत् / नचायमसिद्धो हेतुः; पक्षे प्रवर्त्तमानत्वात् / नापि विरुद्धः; सपक्षे प्रदीपादौ सत्त्वात् / नाप्यनैकान्तिकः; पक्षसपक्षद् विपक्षे परमाण्वादावप्रवृत्तेः / नापि कालात्ययापदिष्टः; विपरीतार्थोपस्थापकयोः प्रत्यक्षागमयोरत्राऽसंभवात् / नापि 5 सत्प्रतिपक्षः; प्रतिपक्षप्रसाधकानुमानासंभवात् / . ___ ननु सन्तानोच्छेदरूपेऽपि मोक्षे कश्चिद्धेतुर्वक्तव्यः निर्हेतुकविनाशाऽनभ्युपगमात् इति च नै शङ्कनीयम् ; तत्त्वज्ञानस्यैव तद्धेतुत्वात् / तत्खलु विपर्ययज्ञानव्यच्छेदक्रमेण निःश्रेयसहेतुः / दृष्टञ्च सम्यग्ज्ञानस्य मिथ्याज्ञानोच्छेदे शुक्तिकादौ सामर्थ्यम् / निवृत्ते च मिथ्याज्ञाने तन्मूला रागादयो निवर्तन्ते कारणाभावे किार्यानुत्पादात् / रागाद्यभावे 10 च तत्कार्या मनोवाकायप्रवृत्तिः व्यावर्तते / तद्व्यावृत्तौ च धर्माधर्मयोरर्नुत्पत्तिः / आरब्धशरीरेन्द्रियविषय+कार्ययोस्तु सुखादिफलोपभोगात् प्रक्षयः, अनारब्धतत्कार्ययोरप्यवस्थितयोः तत्फलोपभोगादेव प्रक्षयः / तथा चागमः"नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि" [ ..] इति / (1) "नवानामात्मगुणानां सन्तानोऽत्यन्तमुच्छिद्यते, सन्तानत्वात्, यो यः सन्तानः स सोऽत्यन्तमुच्छिद्यमानो दृष्टः यथा प्रदीपसन्तानः, तथा चायं सन्तानः, तस्मात् अत्यन्तमुच्छिद्यते।"-प्रश० व्यो० 1020 क० / “दुःखसन्ततिरत्यन्तमच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवदित्याचार्याः ।"-प्रश० किर० पृ० 9 / (2) "ज्ञानपूर्वकात्तु कृतादसंकल्पितफलाद् विशुद्धे कुले जातस्य दुःखविगमोपायजिज्ञासोराचार्यमुपसङ्गम्य उत्पन्नषट्पदार्थतत्त्वज्ञानस्य अज्ञाननिवृत्तौ विरक्तस्य रागद्वेषाद्यभावात् तज्जयोधर्माधर्मयोरनुत्पत्तौ पूर्वसञ्चितयोश्चोपभोगाग्निरोधे सन्तोषसुखं शरीरपरिच्छेदञ्च उत्पाद्य रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शन सुखं कृत्वा निवर्तते / तदा निरोधानिर्बीजस्य आत्मनः शरीरादिनिवृत्तिः, पुनः शरीराद्यनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति ।"-प्रश० भा० पृ० 644 / "द्रव्यगणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां साधर्म्यवैधाभ्यां तत्त्वज्ञानं निःश्रेयसहेतुः ।"प्रश० भा० पृ० 20 ज०। 'तत्त्वज्ञानान्निश्रेयसाधिगमः"-न्यायसू० 111 / 1 / (3) "दुखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः।"-न्यायसू०१।१।२। “ते इमे मिथ्याज्ञानादयो दुःखान्ता धर्मा अविच्छेदेनैव प्रवर्तमानाः संसार इति / यदा तु तत्त्वज्ञानात् मिथ्याज्ञानमपति तदा मिथ्याज्ञानापाये दोषा अपयान्ति दोषापाये प्रवृत्तिरपति. प्रवृत्त्यपाये जन्मापति, जन्मापाये दुःखमपति, दुःखापाये चात्यन्तिकोऽपवर्गो निश्रेयसमिति / " न्यायभा० 11212 / "तथा युपलब्धं सम्यग्ज्ञानस्य मिथ्याज्ञाननिवृत्तौ सामर्थ्यं शुक्तिकादाविति "-प्रश० व्यो० 1020 क०। (4) "निवृत्ते च मिथ्याज्ञाने तन्मूलत्वाद्रागादयो नश्यन्ति कारणाभावे कार्यस्यानुत्पादादिति / रागाद्यभावे च तत्कार्या प्रवृत्तिावर्तते, तदभावे च धर्माधर्मयोरनुत्पत्तिः / आरब्धकार्ययोश्चोपभोगात् प्रक्षयः ।"-प्रश० व्यो० पृ० 20 क० / (5) उद्धृतोऽयम्-"यथोक्तम्-नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरति / अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् ॥"-प्रश० व्यो० पृ०२० ख० / धर्मसं०५०प० 225 / प्रमेयक० पृ० 308 / सन्मति० टी० पू० 105 / चित्सु०पृ० 351 / "अवश्यमेव भोक्त...."-धर्मवि० टी० पृ० 13 / 1 पटाविस-ब० / 2 ननु तत्सन्ता-ब०, श्र० / निर्हेतुविना-आ। 4 न राकनीयम् तत्र ज्ञान-आ०।एतदन्तर्गतः पाठो नास्ति आ० / 5-नुपपत्तिः श्र०, ब०। 6 'इति' नास्ति श्र०।