________________ प्रवचनप्र० का 0 76] मुक्तिस्वरूपविचारः 825 अत्रैवार्थे अनुमानम्-पूर्वकर्माणि उपभोगादेव क्षीयन्ते कर्मत्वात् प्रारब्धशरीरादिकर्मवत्। नच उपभोगात् तत्प्रक्षये कर्मान्तरस्यावश्यम्भावात् संसारानुच्छेदः; समाधिबलादुत्पन्नतत्त्वज्ञानस्य अवगतकर्मसामोत्पादितयुगपदशेषशरीरद्वाराऽवाप्ताशेषभोगस्य उपात्तकर्मप्रक्षयात् भाविकर्मोत्पत्तिनिमित्तमिथ्याज्ञानजनिताऽनुसन्धानविकलत्वाच्च संसारोच्छेदोपपत्तेः / अनुसन्धानं हि रागद्वेषौ, 'अनुसन्धीयते गतं चित्तमाभ्याम्' इति व्युत्पत्तेः। 5 ____ अथ मिथ्याज्ञानभावे तत्त्वज्ञानिनः तदुपभोक्तुमभिलाषस्यैवाऽसंभवात् तदुपभोगानुपपत्तिः; तन्न; तदुपभोगं विना कर्मणां प्रक्षयानुपपत्तितः तत्त्वज्ञानिनः तदुपभोक्तुमभिलाषाभावेऽपि कर्मक्षयार्थितया तत्र प्रवृत्त्युपपत्तेः वैद्योपदेशेन आतुरवदौषधाचरणे / यथैव हि आतुरस्य अनभिलषितेऽपि औषधाचरणे व्याधिप्रक्षयार्थ प्रवृत्तिः तद्व्यतिरेकेण तत्प्रक्षयानुपपत्तेः, एवमत्रापि / 'विवादापन्नः शरीरादिनिवृत्तौ आत्मा सर्ववैषयि- 10 कसुखदुःखशून्यः, समस्तधर्माधर्मशून्यत्वात् , यस्तु वैषयिकसुखदुःखवान्नासौ समस्तधर्माधर्मशून्यः यथा संसार्यात्मा, समस्तधर्माधर्मशून्यश्च मुक्तात्मा, तस्मात् सर्ववैषयिकसुखदुःखशून्यः' इत्यनुमानात् , “न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः" [ छान्दो० 8 / 12 / 1] इत्यागमाच्चासौ तदा तच्छून्यः सिद्ध इति ॥छ।। अत्र प्रतिविधीयते / यत्तावदुक्तम्-'सन्तानत्वात्' इत्यादि; तदसमीचीनम् ; 15 तत्प्रतिविधानपरस्सरं यस्माद् आत्मनः सर्वथा भिन्नानां बुद्ध्यादिविशेषगुणानां सन्तानस्य मोक्षस्य ज्ञानाद्यात्म- उच्छेदः प्रसाध्यते, अथ अभिन्नानाम् , कथञ्चिद्भिन्नानां वा ? तत्राकत्वप्रसाधनम्- द्यपक्षे आश्रयासिद्धो हेतुः; आत्मनोऽत्यन्तभिन्नानां तद्विशेषगुणानां (1) "पूर्वकर्माण्युपभोगादेव क्षीयन्ते, कर्मत्वात्, यद्यत्कर्म तत्तदुपभोगादेव क्षीयते यथाऽऽरब्धशरीरं कर्म, तथा चामनि कर्माणि, तस्मादुपभोगादेव क्षीयन्ते ।"-प्रश० व्यो० पृ० 20 ख०। (2) "समाधिबलादुत्पन्नतत्त्वज्ञानो हि कर्मणाञ्च साध्यमर्थं विदित्वा युगपच्छरीराणि निर्मायोपभोग..."प्रश० व्यो० पृ०२० ख० / (3) “जानन्नपि हि तर्थितया प्रवर्तत एव वैद्योपदेशादातुरवदौषधाचरणे" -प्रश० व्यो० पृ० 20 ख० / (4) "तस्य च न ह वै सशरीरस्य सत: प्रियाप्रिययोः बाह्यविषयसंयोगवियोगनिमित्तयोः बाह्यविषयसंयोगवियोगौ ममेति मन्यमानस्य अपहतिविनाश उच्छेदः सन्ततिरूपयोनास्तीति / तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन निवर्तिताऽविवेकज्ञानमशरीरं सन्तं प्रियाप्रिये न स्पृशतः / स्पृशिः प्रत्येकं सम्बध्यत इति प्रियं न स्पृशति अप्रियं न स्पृशतीति वाक्यद्वयं भवति "धर्माधर्मकायें हिते, अशरीरता तु स्वरूपमिति तत्र धर्माधर्मयोरसम्भवात्तत्कार्यभावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशत: ।"-छान्दो० शां० भा०। उद्धृतोऽयम्-न्यायमं० पृ०५०९। ब्रह्म शां० भा० 12114 / यश० उ० पृ० 254 / स्या० र० पृ० 1110 / षड्व० बृह० श्लो० 52 / स्या० मं० पृ० 72 / न्यायसारटी० पृ० 283 / चित्सु० पृ० 353 / (5) अशरीरावस्थायाम् / (6) वैषयिकसुखदुःखप्रयोजकधर्माधर्मशून्यः। (7) पृ० 824 पं० 1 / (8) तुलना-"यत आत्मनः सर्वथा भिन्नानां बद्धयादिगणानां सन्तानस्योच्छेदः साध्यते, अभिन्नानां वा, कथञ्चिद् भिन्नानां वा ?"-षड्द० बह० श्लो० 52 / प्रमेयक० पृ० 317 / 1-वशेषभोगस्योपात्त-श्र०। 2 सर्वदा भि-श्र०। 54