________________ - नि / 822 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० पुरुषस्य, तद्व्यतिरिक्तस्य वा कस्यचित् ? न तावत्तद्व्यतिरिक्तस्य; प्रकृति-पुरुषव्यतिरेकेण अन्यस्य कस्यचिदपि सांख्यैरनभ्युपगमात् / नापि प्रकृतेः; तस्याः असंवेद्यपर्वणि स्थितत्वात् , अचिद्रूपत्वात् , अनभ्युपगमाच्च / नापि पुरुषस्य; तस्याप्यसंवेद्यपर्वणि स्थितत्वात् / अतः प्रकृतिपुरुषयोः असंवेद्यपर्वणि स्थितयोः स्वरूपमात्रस्याप्रतिभासे विवेकेन ख्याति अतिदुर्घटा / घटपटादौ हि स्वस्वरूपेण संवेद्यपर्वणि स्थिते कुतश्चिद्विभ्रमनिमित्तात् विवेकेनाऽप्रतीतेः यथावस्थितवस्तुप्रतिभासिप्रमाणवशाद् विवेकेन ख्यातिदृष्टा, न चात्र एतदति / किञ्च, विवेकेन ख्याति: तन्निश्चयः, सा च बुद्धिधर्मत्वाद् भवन्मते पुरुषे न संभवति / संभवे वा सा ततो भिन्ना, अभिन्ना वा स्यात् ? यद्यभिन्ना; तदा आत्मवत्तत्रापि नित्यत्वानुषङ्गात् न कदाचिदमुक्तप्रसङ्गः। भिन्ना चेत् ; अस्तु, तथापि-असौ नित्या, अनित्या वा ? यदि नित्या; किं सम्बद्धा, असम्बद्धा वा ? असम्बद्धा चेत् ; कथं तस्येति व्यपदिश्येत ? असम्बद्धाया अपि तस्याः तेनं व्यपदेशे सर्वेण सह व्यपदेशप्रसङ्गात् न कस्यचिदपि संसारः स्यात् / अथ सम्बद्धा; न; नित्ययोस्तयोः अन्योन्यमनु पकारकयोः कस्यचिदपि सम्बन्धस्यानुपपत्तेः / उपपत्तौ वा तस्यापि नित्यत्वात् सदात्मनो 15 मुक्तिप्रसङ्गः। अथ अनित्या विवेकख्यातिः; नन्वनित्या सती असौ जन्या, अजन्या वा ? तत्र अनित्यायास्तस्याः घटादिवदजन्यत्वानुपपत्तिः / जन्यत्वेऽप्यस्याः किम् आत्मना, प्रकृत्या, तद्व्यतिरिक्तेन वा केनचिदसौ जन्येत ? न तावत् तद्व्यतिरिक्तेन; प्रकृति-पुरुषव्यतिरिक्तस्य कस्यचिदपि तज्जनकस्याऽनभ्युपगमात् / नाप्यात्मना; तस्य जनकत्वानभ्यु पगमात् / अभ्युपगमे वा प्रकृतिवियुक्तेन, तत्सहितेन वा तेनासौ जन्येत ? प्रथमपक्षे 20 चक्रकप्रसङ्गः-सिद्धे "हि विवेकख्यातेर्जन्यत्वे प्रकृतिपुरुषयोर्वियुक्तत्वसिद्धिः, तत्सिद्धौ च तद्वियुक्तेन आत्मना विवेकख्यातेर्जन्यत्वसिद्धिरिति। तत्सहिंतात्मजन्यत्वे तु सर्वत्र सर्वदा सर्वेषां मोक्षः स्यात् , तथा सर्वत्र सर्वदाऽविशेषतः तदुत्पत्तिप्रसङ्गात् / / यदपि-विज्ञातविरूपाहम्' इत्याद्यभिहितम् ; तदप्यचर्चिताभिधानम् ; प्रकृते (1) प्रकृतेः / (2) अज्ञेयकोटौ / "तस्या असंसवेद्यपर्वणि स्थितत्वादचेतनत्वादनभ्युपगमाच्च।"-षड्द० बृह० श्लो० 52 / (3) ज्ञेयकोटौ। (4) विवेकख्यातावपि / (5) विवेकख्यातेः / (6) पुरुषस्येति व्यपदेशे। (7) सम्बन्धस्यापि / (8) आत्मनः / (9) विवेकख्यातिः। (10) पृ० 816 पं० 2 / (11) तुलना-"अचेतनत्वात्, तथाहि-अचेतनतया प्रधानस्य अहमनेन दृष्ट (दुष्ट) तया विज्ञातमिति विज्ञानाभावे पूर्ववत् प्रवृत्तिरविशिष्टेत्यलमतिप्रसङ्गेन ।"-प्रश० व्यो० प्र० 2010 / "दृष्टास्मीति विरमतीति चेत् ; मैवम् ; न ह्यसौ एकपत्नीव्रतदुर्ग्रहगृहीता निःसंख्यपुरुषोपभो 1-तिरितिदुर्घटा आ० / 2-तीतः य-आ० / / विवेकस्य ख्यातिः आ०। 4 तावद्वयतिरिब०। 5-ना जनक-ब०, -नास्याजनक-श्र०। 6 च आ०। 7 'हि' नास्ति आ०। 8. सर्वदा ब०, श्र०। 9 विज्ञानविरू-आ० /