________________ प्रवचनप्र० का० 76] अदृष्टस्य प्रकृतिविवर्तत्वनिरासः 821 ध्यवसायस्वभावो येन यो यत्र यदा यथाऽवस्थितोऽर्थः तं तत्र तदा तथा अध्यवस्यतीति। तथा इन्द्रियमनोऽहङ्कारादीनामपि विषयाऽऽलोचनसङ्कल्पनाऽभिमननाघेकस्वभावत्वप्रसङ्गात् न कचित् स्वभावभेदः सिद्ध्येत् / __ यदपि-चिच्छक्तेरप्रतिसक्रमसिद्धौ शुद्धत्वादिति साधनमुच्यते; तदप्यसाधु; यतः शुद्धात्मनोऽशुद्धपरिणामसङ्क्रम एव विरुध्यते न पुनः शुद्धपरिणामसक्रमः / ननु / शुद्धपरिणामेनापि चिच्छक्तिरप्रतिसङ्क्रमा अनन्तत्वात; इत्यप्यचारु; प्रकृत्या अनेकान्तात्, अनन्तत्वेऽपि हि तस्याः महदादिपरिणामसङ्क्रमः सांख्यैरभ्युपगम्यते / यदप्युक्तमै-'पग्वन्धयोरिव' इत्यादि; तदतीवाऽसङ्गतम् ; दृष्टान्त-दार्टान्तिकयोवैषम्यात्, पङ्ग्वन्धयोर्हि चेतनत्वात् ईदमित्थमेव अस्मदिष्टं कार्य सेत्स्यतीति सम्प्रधार्य अन्योन्यापेक्षयोः प्रवृत्तियुक्ता, नतु प्रकृतिपुरुषयोः विपर्ययात् / 10 यत्पुनरुक्तम्-चिद्रूपस्यापि अस्य अज्ञानतमश्छन्नतया' इत्यादितत्रं किम् अज्ञानमेव तमः, उत अज्ञानश्च तमश्च इति ? प्रथमपक्षे मुक्तात्मापि प्रकृतिस्थमपि सुखादिफलं किन आत्मस्थं मन्येत, तदुपभोक्ता च किन स्यात् , तस्यापि ज्ञानाभावतोऽज्ञानतमश्छन्नत्वाऽविशेषात् ? द्वितीयपक्षे तु किमिदम् अज्ञानादन्यत् तमो नाम ? रागादिकमिति चेत् ; न ; तस्य आत्मनोऽत्यन्तार्थान्तरभूतप्रकृतिधर्मतया आत्माच्छाद- 15 कत्वानुपपत्तेः / तथाभूतेनापि तेन तदाच्छादने मुक्तात्मनोऽप्याच्छादनं स्यादविशेषात् / अथ अधिकारिण एव तद् आच्छादकम् नै मुक्तात्मा(त्म)नः; ननु किमिदमधिकारित्वं नाम ? यं प्रति प्रधानं प्रवृत्ताधिकारि सोऽधिकारीति चेत् ; न; प्रधाने प्रवृत्ताधिकारित्वस्य प्रागेव कृतोत्तरत्वात् / यदप्युक्तम्-'विवेकख्यातेः' इत्यादि; तंत्र केयं विवेकख्याति म ? प्रकृतिपुरु- 20 षयोः स्वेन स्वेन रूपेणावस्थितयोः भेदेन प्रतिभासनमिति चेत् ; सा कस्य-प्रकृतेः, (1) "शुद्धात्मनोऽपि स्वशुद्धपरिणामप्रतिसंक्रमाविरोधात् तत्राशुद्धपरिणामसंक्रमस्यैवासंभवात् ।"-युक्त्यनु० टी० पृ० 31 / (2) "प्रकृत्या व्यभिचारात् / सापि ह्यनन्ता। सान्तत्वेऽपि नित्यत्वविरोधात् ।"-युक्त्यनु० टी० पृ० 31 / (3) पृ० 815 पं० 2 / (4) तुलना-"अचेतने हि निरङकुशे प्रधाने बन्धरि सुतरामनिर्मोक्षः स्यात् / तत्त्वविदमपि पुमांसं न बध्नाति प्रकृतिरिति कोऽस्या नियन्ता ? पङ् ग्वन्धन्यायेन संयोगस्य तुल्यत्वात् ।"-न्यायमं० पृ० 491 / (5) पृ० 815 पं० 8 / (6) 'यतः किमज्ञानमेव तमः उत अज्ञानञ्च तमश्चेति ।"-षड्द० बृह० श्लो० 52 / (7) मुक्तात्मनोऽपि / (8) मुक्तिदशायां ज्ञानं विनश्यति अतः तेषामपि ज्ञानप्रध्वंसात्मकमज्ञानमस्त्येव / (9) अत्यन्तभिन्नप्रकृतिधर्मात्मकेनापि रागादिना। (10) रागादिकम्। (11) पृ०८१६६०१। (12) "तत्र केयं ख्यातिर्नाम-प्रकृतिपूरुषयोः स्वेन स्वेन रूपेणावस्थितयोः भेदेन प्रतिभासनमिति चेत् ; सा कस्य-प्रकृतेः, पुरुषस्य वा ?"-षड्द० बृह० श्लो० 52 / 1 इदमिच्छमेव आ०, ब012 विपर्ययःस्यात् ब०। अधिकारि एव ब०। 4'न मुक्तात्मानः' नास्ति आ०,०। 5-धिकारी चेत् आ०, श्र०। 6 केषां वि-ब० /