________________ 820 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० एतेन 'चिच्छक्तिरपरिणामिनी' इत्यादि प्रत्याख्यातम् ; अपरिणामिनः कस्यचिद्वस्तुत्वानुपपत्तेः खपुष्पवत् / ननु मुक्तस्यात्मनः शुद्धस्याऽपरिणामित्वेऽपि वस्तुत्वं भवद्भिरिष्टम् ; इत्यप्यनल्पतमोविलसितम् ; तस्यापि प्रतिसमयं परिणामित्वप्रतिज्ञानात् प्रतिसमयं दृश्यस्य परिणामित्वे द्रष्टुरपरिणामित्वानुपपत्तेः / न च दृश्यं वस्तु (वस्त्व) 5 परिणाम्येव इत्यभिधातव्यम् ; सांख्यैस्तस्य परिणामित्वाऽभ्युपगमात् / अथ चिच्छक्तिः अप्रतिसक्रमत्वादपरिणामिनीत्युच्यते; तन्न; अस्याः प्रतिविषयं दर्शितविषयत्वे प्रतिसङ्क्रमोपपत्तेः। बुद्धेरेव तथा प्रतिसक्रमो न चिच्छक्तेः; इत्यप्ययुक्तम् ; बुद्धेरप्येवम् अप्रतिसक्रमप्रसङ्गात्, "विषयस्यैव प्रतिसक्रमप्रसङ्गात् / बुद्ध्याध्यवसीयमानस्य विषयस्य प्रतिसक्रमसंभवे बुद्धेः कथं तदसंभव इति चेत् ? तर्हि बुद्धेः विषयप्रद10 शिकायाः प्रतिसक्रमे तद्विषयं पश्यन्त्याश्चिच्छक्तेरपि कथमप्रतिसक्रमः ? यथैव हि प्रतिनियतं विषयं चिच्छक्तये दर्शयन्ती बुद्धिः सङ्क्रामति तथा क्रमेण चिच्छक्तिरपि *तं पश्यन्ती विशेषाभावात् / कथमन्यथा क्रमेण दर्शितविषयाऽसौ स्यात् ? . ___किश्च, यदा बुद्ध्या विषयः तस्यै प्रदर्श्यते तदा प्राचीनम् अदर्शितस्वरूपमसौ त्यजति न वा ? न त्यजति चेत् ; कथं प्रागवत्तदाप्यसौ दर्शितविषया स्यात् ? अथ 15 त्यजति; कथमपरिणामिनी, अदर्शितविषयत्वत्यागेन दर्शितविषयत्वोपादानस्य परिणा मित्वाविनाभाबित्वात् ? अथ मतम्-चिच्छक्तेः एक एवाऽभिन्नः स्वभावस्तादृशो येन यो यत्र यदा यथा अर्थो बुद्ध्याऽध्यवसीयते तं तत्र तदा तथा पश्यतीत्यतो दर्शितविषयत्वेऽपि अस्याः न प्रतिविषयं स्वभावभेदः यतः परिणामित्वं स्यादिति; तदृप्यसमीचीनम् ; बुद्धेरप्येवमेकस्वभावत्वप्रसङ्गात् / शक्यं हि वक्तुम्-बुद्धेरेक एव क्रमभाव्यनेकविषया (1) पृ० 814 पं० 12 / (2) “अदशितविषयत्वत्यागेन दर्शितविषयत्वोपादानादवस्थितायाः एव तस्याः परिणामित्वसिद्धेः ।"-युक्तधनु० टी० पृ० 30 / (3) मुक्तात्मनोऽपि / “स हि सर्वज्ञः पूर्वोत्तरस्वभावत्यागोपादानाभ्यामवस्थितस्वभावः परिणाम्येव सर्वार्थान् पश्यति नान्यथा, प्रतिसमयं दृश्यस्य परिणामित्वे द्रष्टुरपरिणामानुपपत्तेः / न चायं दृश्यमर्थमपरिणामिनं वक्तुं समर्थः; स्वयं तस्य परिणामित्वोपगमात् सिद्धान्तपरित्यागानुषङ्गात् ।"-युक्तचनु० टी० पृ० 30 / (4) दृश्यस्य / (5) “प्रतिविषयं दर्शितविषयत्वे संक्रमात् / तथा बुद्धेरेव प्रतिसक्रमो न तु चिच्छक्तेरिति चेत्, न; बुद्धेरप्यप्रतिसङ्क्रमप्रसङ्गात् विषयस्यैव प्रतिसक्रमप्रसङ्गात् ।"-युक्तचनु० टी० पृ० 30 / (6) "यथैव हि विषयं प्रतिनियतं दर्शयन्ती बुद्धिश्चितिशक्तये संक्रामति तथा क्रमेण चितिशक्तिरपि पश्यन्ती विशेषाभावात् / कथमन्यथा क्रमेण दर्शितविषया स्यात् ।"-युक्तचनु० टी०पू० 31 / (7) विषयम्। (8) 'संक्रामति' इति वाक्यशेषः। (9) चिच्छक्तिः / (10) चिच्छक्तेः। (11) "तथा बुद्धेरप्यकस्वभावत्वप्रसङ्गात् / शक्यं हि वक्तुं बुद्धेरेक एव क्रमभाव्यनेकविषयव्यवसायस्वभावो येन यथाकालं यथादेशं यथाप्रकारञ्च विषयमध्यवस्यतीति न किञ्चिदनेकस्वभावं सिद्धयेत् ।"-युक्त्यनु० टी० पृ० 32 / 1 तेन श्र० / 2-मित्वंप्रति-आ० / परिणामैव श्र०। 4 इत्येतदप्ययु-ब०। 5 'विषयस्यैव प्रतिसंक्रमप्रसंगात्' इति नास्ति ब०। 6 प्रतिसंक्रमे ब-श्र०। 7 प्रतिनियमविषयं ब० / स्वस्थ ब०। 9 अवशिनस्वरू-ब० /