________________ प्रवचनप्र० का० 76] अहष्टस्य प्रकृतिविवर्तत्वनिरासः 816 दर्शनात् न वास्तवं कर्तृत्वं सिद्धयति शब्दज्ञानानुपातिनः कर्तृत्वविकल्पस्य वस्तुशून्यत्वात् ; इत्यप्यसुन्दरम् ; भोक्तृत्वादिधर्माणामप्यात्मनोऽवास्तवत्वोपपत्तेः / तथोपगमे च चेतयते इति चेतनः पुरुषः परमार्थतो न सिद्ध्येत् चेतनशब्दज्ञानानुपातिनोऽपि विकल्पस्य वस्तुशून्यत्वाविशेषात्। अथ एतद्दोषभयाद् भुजौ कर्ता इष्यते; तर्हि अकर्तृत्वविरोधः। क्रियान्तरस्य प्रधानसाध्यस्याऽप्रसाधकत्वादकर्तृत्वे प्रधानस्याप्यकर्तृत्वानुषङ्गः पुरुषसा- 5 ध्यस्य भुजिलक्षणक्रियान्तरस्य तेनाप्यप्रसाधनात् / ततः पुंसोऽकर्तृत्वे भोक्तृत्वाभाव एंव। प्रयोगः-संसार्यात्मा सुखाद्युपभोक्ता न भवति, धर्मादीनामकर्तृत्वात्, मुक्तात्मवत् / ___अकर्तुर्भोक्तृत्वाभ्युपगमे च कृतनाशाऽकृताभ्यागमदोषप्रसङ्गः, प्रकृत्या हि कृतं कर्म न च तस्याः फलेनाभिसम्वन्ध इति कृतनाशः, पुरुषेण च तन्न कृतम् अथ च तत्फलेन तस्याभिसम्बन्ध इति अकृताभ्यागमः / अकर्तुः फलाभिसम्बन्धे च मुक्तात्म- 10 नोऽपि तत्प्रसङ्गः। चेतनत्वादात्मनः अकर्तृत्वेपि तदभिसम्बन्धः ईत्यप्यनेन प्रत्युक्तम् ; मुक्तात्मनोऽपि अत एव तदभिसम्बन्धानुषङ्गात्, संसार्यात्मनोऽपि वा तद्वदसौ न स्यादविशेषात् / प्रयोगः-संसार्यात्मा फलाभिसम्बन्धवान् न भवति, चेतनत्वात्, मुक्तात्मवत्। तथा प्रेधानं कर्मणां तत्फलस्य च कर्तृ न भवति, अभोक्तृत्वात् , मुक्तात्मवत् / ... यञ्चोक्तम्-'यथैव हि स्वयमचेतनापि बुद्धिः चेतनासंसर्गात्' इत्यादि; तदप्यु- 16 क्तिमात्रम् : बुद्धिचेतनयोर्भदाऽसंभवात् , विज्ञानस्यैव हिं 'बुद्धिः, चेतना, अध्यवसायः' इति पर्यायाः। तदसंभवश्च साख्यं प्रति स्वसंवेदनसिद्धौ प्रपञ्चितः। अतः कथं तदृष्टान्तावष्टम्भेन उपचारादात्मनः कर्तृत्वं स्यात् ? ततः पुरुषः 'पुण्यं करोति, ध्यानं करोति' इत्याद्यबाध्यमानप्रतीतिसिद्धं कर्तृत्वमस्य अनुपचरितमेवाभ्युपगन्तव्यम् / (1) "शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ।-शब्दजनितं ज्ञानं शब्दज्ञानं तदनु पतितं शीलं यस्य स शब्दज्ञानानुपाती, वस्तुनस्तथात्वमनपेक्षमाणो योऽध्यवसायः स विकल्प इत्युच्यते ।"योगसू० भोजवृ० 29 / (2) तुलना-"भोक्तृत्वादिधर्माणामपि पुरुषस्याऽवास्तवत्वापत्तेः, तथोपगमे चेतयत इति चेतनः पुरुषो न वस्तुत: सिद्धयेत् चेतनशब्दज्ञानानुपातिनो विकल्पस्य वस्तुशून्यत्वात् कर्तृत्वभोक्तृत्वादिशब्दज्ञानानुपातिविकल्पवत् ।"-आप्तप० का० 81. / (3) प्रधानेनापि। (4) तुलना-"संसार्यात्मा भोक्ता न भवति अकर्तत्वात् मुक्तात्मवत् ।"-षड्व० बृह० श्लो० 48 / (5) तुलना-"प्रधानस्य बन्धमोक्षौ पुरुषस्तत्फलमनुभवतीति कृतनाशाकृताभ्यागमप्रसङ्गात् / प्रधानेन हि कृती बन्धमोक्षौ न च तस्य फलानुभवनमिति कृतनाशः, पुरुषेण तु तौ न कृतौ तत्फलानुभवनञ्च तस्येत्यकृताभ्यागमः कथं परिहर्तुं शक्यः ?"-आप्तप० का० 114 / षड्व० बृह० श्लो० 48,52 / (6) “मुक्तात्मनोऽपि प्रधानकृतकर्मफलानुभवनानुषङ्गात्।"-आप्तप०का०११४ / (7) चेतनत्वादेव। (8) मुक्तवत् कर्मफलाभिसम्बन्धः / (9) तुलना-“कर्तुं नाम विजानन्ति गृहादीन् सर्वथा गुणाः / भोक्तुं च न विजानन्ति किमयुक्तमतः परम् ॥"-चतुःश० 10 / 16 / "कर्तुं नाम प्रजांनाति प्रधान व्यञ्जनादिकम् / भोक्तुञ्च न विजानाति किमयुक्तमतः परम् ॥"-तत्त्वसं० श्लो० 300 / (10) पृ० 814 पं० 8 / (11) द्रष्टव्यम्-पृ०१९३टि० 2 / (12) पृ० 193-1 (13) बुद्धिदृष्टान्तबलेन / 1कर्तवि-आ०, श्र० / 2 'एव' नास्ति श्र। 3 अकर्तभोक्त-आ014 इत्यनेन आ० /