________________ 818 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० न क्रियते; कथं तत् 'तस्य' इति व्यपदिश्येत ? मुक्तात्मनोऽपि तद्व्यपदेशप्रसङ्गात् / अथ क्रियते; किं ततो भिन्नः, अभिन्नो वा ? यदि अभिन्नः; तदा तत्करणे पुंसोऽपि कार्यत्वानुषङ्गात् नित्यत्वक्षतिः / अथ भिन्नः; तदा पुंसो न किश्चित्कृतं स्यात् , तस्येतिव्यपदेशश्च न प्राप्नोति तेन तस्याऽसम्बन्धात्, तेनाप्युपकारान्तरकरणे अनवस्था / ततः प्रधानस्य स्वरूपेण असत्त्वात्, सतोऽपि वा कर्मपरिणामानुपपत्तेः, द्रव्यरूपस्य कर्मणः पुद्गलपरिणामत्वं भावरूपस्य तु आत्मपरिणामत्वमभ्युपगन्तव्यम् / पुद्गलात्मनोः सद्भावस्य विचित्रपरिणामाधारत्वस्य च प्राक् प्रसाधितत्वात् / न च कर्मणोऽनित्यत्वादात्मनस्तत्परिणामोपगमे अनित्यत्वापत्तिर्दोषाय; कथञ्चित्तदनित्यत्वस्येष्ठत्वात् / सकलभावानां कथञ्चिन्नित्यानित्यात्मकतया अनेकान्तसिद्धौ प्रसाधितत्वात् / प्रधान10 स्यापि च तत्परिणामोपगमे अनित्यत्वापत्तिः समाना / यदप्युक्तम्-'साक्षित्वं तावत् आत्मनो गुणप्रवृत्तेरधिष्ठातृत्वम्' इत्यादि; तदपि मनोरथमात्रम् ; सत्त्वरजस्तमोलक्षणगुणानां प्रवृत्तेः प्रकृतिपरीक्षायां प्रतिक्षिप्तत्वात् , सर्वथा नित्यव्यापित्वादिस्वभावस्य चात्मनः स्वदेहप्रमितौ प्रतिव्यूढत्वात् , अतः किं कस्य अधिष्ठातृ स्यात् ? यदपि 'अकर्तृभावोऽपि अप्रसवधर्मित्वात्' इत्याद्युक्तम् ; तदप्यविचारितरमणीयम् ; सर्वथाऽकार्यकारणभूतत्वाभ्युपगमे पुंसोऽवस्तुत्वापत्तिप्रसङ्गात् / प्रयोगः-भवत्कल्पितः पुरुषो वस्तु न भवति, सर्वथाऽकार्यकारणभूतत्वात् , गगनेन्दीवरवत् / यदपि 'यस्मात् प्रस्पन्दनपरिणामौ प्रसवार्थौ नात्मनि विद्येते तस्मादकर्ता' इत्यभिहितम् ; तदप्यपेशलम् ; स्वदेहप्रमितौ आत्मनः प्रस्पन्दनपरिणामयोः प्रसाधितत्वात् / 20 अकर्त्तत्वे च आत्मनो भोक्तृत्वविरोधः, यदयं भुजिक्रियां कुर्वन् भोक्ता इत्युच्यते यथा गमिक्रियां कुर्वन् गन्ता इति / नहि तथाऽपरिणतं तद्व्यपदेशमर्हति अतिप्रङ्गात् / तथा च कर्तरि हूँचोऽनुत्पत्तेः 'भोक्ता' इत्यात्मनो व्यपदेशो दुर्लभः / ननु भोक्तेति तृचो (1) संसारिणः / (2) शरीरादिना पुंसोऽभिन्नोपकारकरणे / (3) उपकारेण / (4) पुंसः। (5) शरीरादिकृतोपकारेणापि / (6) तत् कर्म परिणामः यस्य / (7) अनित्यकर्मपर्यायात्मकत्वस्वीकारे। (8) 10 813 पं०५ / (9) पृ० 354- / (10) पृ० 266- / (11) 10 814 पं०६। (12) पृ०८१४ पं०६। (13) तुलना-"अत: पुरुषस्य कर्तुत्वे युक्तं वास्तवं भोक्तृत्वम् / अन्यथा हि भोगक्रियामकुर्वतः कथमुदासीनस्य भोक्तृत्वं स्यात्, भोगस्य सुखदुःखवेदनारूपत्वात् , तदाधारता तु भोक्तृत्वम् ।"-प्रश० व्यो० पृ० 523 / भोक्तात्मा चेत्स एवास्तु कर्ता तदविरोधतः / विरोधे तु तयोर्भोक्तुः स्याद् भुजौ कर्तृता कथम् ॥"-आप्तप० का० 81 / "कर्ता आत्मा स्वकर्मफलभोक्तृत्वात् / सांख्यकल्पितः पुरुषो वस्तु न भवति अकर्तृत्वात् खपुष्पवत् / किंच, आत्मा भोक्ता अङ्गीक्रियते, स च भुजक्रियां करोति न वा ? यदि करोति तदाऽपराभिः क्रियाभिः किमपराद्धम् ? अथ भुजिक्रियामपि न करोति; तर्हि कथं भोक्तेति नित्यम् ।"-षड्द० बृह० श्लो० 49 / (14) तृच्प्रत्ययस्य। 1 यदर्थ भुजि-आ०।