________________ प्रवचनप्र० का० 76 ] अदृष्टस्य प्रकृतिविवर्तत्वनिरास: परिणमनप्रसङ्गात् / अथ अपेक्ष्य; किं तदपेक्ष्यम्-विवेकानुपलम्भः, अदृष्टं वा ? ने तावद् विवेकानुपलम्भः; तस्य विवेकोपलम्भाभावरूपतया मुक्तात्मन्यपि संभवात् / नच तदनुत्पत्ति-प्रध्वंसयोः कश्चिद्विशेषः संभवति; अभावस्वभावत्वाविशेषात् / अदृष्टापेक्षायास्तु तस्याः तथापरिणामे अन्योन्याश्रयः-सिद्धे हि अदृष्टे तदपेक्षायाः प्रकृतेः शुक्लकृष्णकर्मपरिणामसिद्धिः, तत्सिद्धौ च अदृष्टसिद्धिरिति / अनादित्वात् तत्प्रवाहस्य / अयमदोषः-पूर्व हि अदृष्टमपेक्ष्य अपर: तस्यास्तत्परिणामो भवति ततश्च अपर: इति; तदप्यनुपपन्नम् ; मुक्तात्मन्यपि एवमस्याः शरीरादिसम्पादनाय तथा परिणामप्रसक्तेः / तत्रास्याः निवृत्ताधिकारत्वान्न तत्प्रसक्तिः; इत्यापि वार्तम् ; अमुक्तात्मन्यपि अस्याः तत्सम्पादनाय तथापरिणामाऽभावानुषङ्गात् / तत्र प्रवृत्ताधिकारत्वान्न दोषोऽयम् ; इत्यपि श्रद्धामात्रम् ; सर्वथैकस्याऽनंशस्य प्रधानस्य प्रवृत्त-निवृत्ताधिकारत्वधर्मयोर्युगपद्वि- 10 रोधात्, तदविरोधे वा सर्वथास्य एकत्वाऽनंशस्यानुपपत्तिः / - किञ्चदेम् अमुक्तात्मन्यस्य प्रवृत्ताधिकारत्वन्नाम-तत्र सम्बद्धत्वम् , शरीरसुखादिसम्पादकत्वं वा ? न तावत् सम्बद्धत्वम् ; मुक्तात्मन्यस्य गतत्वात्, प्रधानात्मनोः नित्यसर्वगतत्वेन सर्वत्र सर्वदा संभवात् / अथ शरीरसुखादिसम्पादकत्वम् ; तर्हि इतरेतराश्रयः-सिद्धे ह्यमुक्तात्मानं प्रति प्रवृत्ताधिकारत्वे तं प्रत्येव तत्सम्पादकत्वसिद्धिः, // तत्सिद्धौ च तं प्रति प्रवृत्ताधिकारत्वसिद्धिरिति / . किञ्च, शरीरादिना तत्सम्पादितन अस्य कश्चिदुपकारः क्रियते, न वा ? यदि (1) तुलना--"अथादर्शनापेक्षमिति चेत्, यस्य हि गुणपुरुषान्तरविवेकदर्शनानुपपत्तिः तं प्रति प्रधानं प्रवर्त्तते, न चासौ मुक्तात्मनीति; तन्न; मुक्तात्मन्यपि विवेकदर्शनस्य विनाशेन प्रवृत्तिप्रङ्गात / न चानुत्पत्तिविनाशयोः अदर्शनत्वेन विशेषं पश्यामः।"-प्रश० व्यो० 10 2050 / प्रमेयक० पृ० 316 / (२)संसारावस्थायां विवेकस्यानुत्पत्तिः मुक्तदशायां च समुत्पन्नस्यापि विवेकस्य विनाश इति न अभावत्वेन कश्चिद् भेदः / (3) प्रकृतेः / (4) कर्मरूपतया परिणतौ। (5) प्रकृतेः शुक्लकृष्णादिकर्मपरिणामः / (6) तुलना-'अथादृष्टापेक्षं प्रवर्तत इति चेत् तदसत्; तस्यापि प्रधाने शक्तिरूपतया व्यवस्थितस्य उभयत्राविशेषात् ।"-प्रश० व्यो० पृ० 20 घ०। प्रमेयक० पृ० 316 / (7) शक्लकृष्णादिकर्मरूपेण / (8) "कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ।-कृतार्थमेकं पूरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमपि अनष्टं तदन्यपुरुषसाधारणत्वात् / कुशलं पुरुषं प्रति नाशं प्राप्तमपि अकुशलान् पुरुषान् प्रति अकृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभत एव पररूपेण आत्मरूपमिति ।"-योगसू०भा० 2 / 22 / (9) शरीरादिसम्पादनाय कर्मरूपपरिणामप्रसङ्गः। (10) संसार्यात्मनि। (11) तुलना-"न ह्येकमेव निवृत्ताधिकारत्व-प्रवृत्ताधिकारत्वयोर्युगपदधिकरणं युक्तं नष्टत्वानष्टत्वयोरिव विरोधात् ।"-आप्तप० पृ०८३। (12) प्रधानस्य / (13) अमुक्तात्मानं प्रत्येव / (14) प्रधानसम्पादितेन। तुलना- "सहि प्रधानस्य विकारो महदादिः पुरुषार्थो भवतु (वन) पुरुषस्य कञ्चिदुपकारं करोति न वा ? यदि करोति, पुरुषादर्थान्तरमनन्तरं वा ?"-युक्तचनु० टी० पृ० 29 / (15) संसार्यात्मनः / 1 अदृष्टापेक्षयास्तु आ०। 2 तस्य तत्परि-ब०। 3 प्रवृद्धविनिवृत्ता-श्र० 14 सम्बन्धत्वं ब०, श्र० / / नित्यं सर्व-ब०।