________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० रियम् न मम अनया सह संसर्गो युक्तः' इति, तदा विवेकख्यातेर्न तत्सम्पादितं कर्मफलमुपभुङ्क्ते, सौपि च 'विज्ञातविरूपाऽहं न मदीयं कर्मफलमनेन भोक्तव्यम्' इति मत्त्वा न तत्सम्पादनाय तं प्रति प्रवर्तते कुष्टिनीस्त्रीवद् दूरादपसर्पति / अतो गुण पुरुषान्तरदर्शनाद् अपवर्गप्राप्तिः / अन्ये गुणाः सत्त्वादयोऽचेतनाः परार्थाः प्रकृति। विकारभूताः, अन्योऽहम् “ने प्रकृतिर्न विकृतिः पुरुषः" [सांख्यका० 3] इति भेदप्रत्ययः गुणपुरुषान्तरदर्शनम् , तस्मात् तत्प्राप्तिरिति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'प्रकृतिपरिणाम' इत्यादि; तदसमीक्षितातत्प्रतिविधानपरस्सरं भिधानम् ; यतः सिद्धे धर्मिणि धर्मचिन्ता उपपद्यते / नच प्रकृतिः कर्मणः पौगलिकत्व- धर्मिणी कुतश्चित्प्रमाणात् सिद्धा, तत्प्रसाधकप्रमाणानां प्रकृतिपरीक्षा10 प्रसाधनम्- प्रघट्टके प्रपञ्चतः प्रतिक्षिप्तत्वात् / अतः कथं तत्परिणामतया कर्मणां व्यावर्णनमुपपन्नम् ? अस्तु वाऽसौं; तथापि-पुरुषस्थं निमित्तमपेक्ष्य तथा परिणमेत्, अनपेक्ष्य वा ? न तावदनपेक्ष्य; मुक्तात्मन्यपि शरीरादिसम्पादनाय तस्याः तथा . (1) प्रकृतिः। (2) "विवेकख्यातिरविप्लवा हानोपायः विवेकख्यातिः ।"-योगद०, व्यासभा० 2 / 26 / “एवं तत्त्वाभ्यासानास्मिन् मे नाहमित्यपरिशेषम् // अभ्यासेनैव तत्त्वदर्शनं तस्मादभ्यासात् पुरुषस्य बुद्धिरुत्पद्यते-नास्मि तत्त्वानि, न मे तत्त्वानि, नाहं तत्त्वानाम् किन्तु प्रधानकान्येतानि / तस्माज्ज्ञानमत्पद्यते एवमादि / अपरिशेषं निरवशेषमित्यर्थः। किं ज्ञानम् ? गुणपूरुषान्तरोपलब्धिरूपमित्यर्थः / अत्राह तेन ज्ञानेन पुरुषः किं करोति ? अत्रोच्यते-तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् / प्रकृति पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थ: ॥"-सांख्यका० माठर० 63-64 / (3) प्रकृतिरपि / “प्रकृते: सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति। या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य // यथा काचित् कुलस्त्री साध्वी स्वगृहद्वारि स्थिता पुरुषेण सहसैवागतेन दृष्टा सहसैवं ब्रीडमाना त्वरितं गृहं प्रविष्टा। सा एवं मत्वा ‘दृष्टाऽहमनेन' इति न पुनदर्शनमुपैति पुरुषस्य / तस्याञ्च विनिवृत्तायां पुरुषो मोक्षं गच्छति ।"-सांख्यका० माठर० 61 / तत्त्वमी० पृ० 194 / सांस्यतत्त्वप्र० पृ० 177 / सांख्यप्र० 3 / 69,70 / “दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरताऽन्या। सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य // यथेमा रङ्गगतां नर्तकी सर्वास्ववस्थासु वर्तमानां दृष्ट्वा विग्मति रङ्गात प्रेक्षकः दृष्टा मयेत्युपेक्षक एकः केवल: शुद्धः पुरुषः तथा प्रकृतिरपि अनेन अहं दृष्टेति निवृत्ता / एका त्रैलोक्यस्यापि प्रधानकारणभूता न द्वितीया प्रकृतिरस्ति। नर्तक्यपि अहमनेन दृष्टेत्युपरमते नृत्यात् एवं पुरुषोऽपि दृष्टा मयेयं ज्ञानचक्षुषा प्रकृतिः इति प्रेक्षकवदपरमते मोक्षं गच्छतीत्यर्थः ।"-सांख्यका० माठर०६६। तदुक्तं नारदीये-सविकारापि मौढयेन चिरं भक्ता गुणात्मना। प्रकृतितिदोषेयं लज्जयव निवर्तते।"-सांत्यप्र.श.१० 111 / (4) भोगसम्पादनाय / (5) "पुरुषस्तु पुनर्न प्रकृतिरनुत्पादकत्वात् न च विकृतिरनुत्पन्नत्वात् / नवासी कारणं न च कार्यमित्यर्थः ।"-माठर०७०। (6) पृ० 812 पं० 11 / (7) प० 354 / (8) प्रकृतिः / (9) कर्मरूपतया / (10) तुलना-"यदि प्रधानं पुरुषम्थं निमित्तमनपेक्ष्य प्रवर्तते, मक्तात्मन्यपि शरीरादिसम्पादनाय प्रवर्तेत अविशेषात् ।"-प्रश० व्यो० पू० 20 घ० / प्रमेयक० पृ० 316 / प्रमेयर० 4 / 1 / (11) प्रकृतेः / / 1 विज्ञानवि-ब० / कुष्टिनी-आ०, ब०। 8-स्मात्प्राप्ति-आ०। 4-णामेत् अं० /