________________ प्रवचनप्र० का 0 7 ] अदृष्टस्य प्रकृतिविवर्तत्वनिरासः 815 गन्तव्या / न च प्रधानस्य कर्तृत्वादिधर्मसद्भावाभ्युपगमे पुरुषकल्पनानर्थक्यमित्यभिधातव्यम् ; द्रष्टुत्वात्तस्य / न च द्रष्टारमन्तरेण दृश्यमुपपद्यते पंग्वन्धयोरिवानयो: अन्योन्यापेक्षत्वात् / यथैव हि अन्धो दर्शनशक्तिविकलः तच्छक्तियुक्तपङ्गपदेशमन्तरेण नेष्टप्रदेशमुपसर्पति, पङ्गुरपि क्रियाशक्तिशून्यः तच्छक्तियुक्ताऽन्धसंसर्गाद्विना इति, तथा प्रधानं नान्तरेण पुरुषं कृतमपि कार्य द्रष्टुं क्षमम्, पुरुषोऽपि सत्यपि चैतन्ये प्रधानं / विनो दृश्याभावान्न द्रष्टा स्यात् / / ननु चिद्रूपत्वात् पुरुषः कथं संसारप्रबन्धप्रवृत्तिहेतौ प्रधाने स्थितं फलमुपभुङ्क्ते ? इत्यप्यचोद्यम्; चिद्रूप॑स्याप्यस्य अज्ञानतमश्छन्नतया प्रकृतिस्थमपि सुखादिफलम् आत्मस्थं मन्यमानस्य तदुपभोक्तृत्वोपपत्तेः, यदा तु ज्ञानमस्य आविर्भवति 'दुःखहेतु बुद्धिवच्चितिशक्तिर्विषयाकारतामापद्येत, किन्तु बुद्धिरेव विषयाकारेण परिणता सती, अतदाकारायै चितिशक्त्यै विषयमादर्शयति, ततः पुरुषश्चेतयत इत्युच्यते / ननु विषयाकारां बुद्धिमनारूढायाश्चितिशक्तेः कथं विषयवेदनम् ? विषयारोहे वा कथन्न तदाकारापत्तिरित्यत उक्तम्-अप्रतिसङक्रमेति / प्रतिसङक्रमः सञ्चारः, स विते स्ति इत्यर्थः। स एव कुतोऽस्या नास्तीत्यत उक्तम्-अपरिणामिनी इति / न चितेस्त्रिविधोऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति येन क्रियारूपेण परिणता सती बुद्धिसंयोगेन परिणमेत चितिशक्तिः ।"-योगभा०, तत्व, भास्व०१२। “यतोऽपरिणामिनी अत एव चितिशक्तिरप्रतिसङक्रमा असञ्चारा / यथा बुद्धिविषयं गच्छति तद्ग्रहणार्थं नैवं चितिरक्रियत्वात् / अथवा नास्ति प्रतिसङ क्रमः सङ्गो विषयेषु यस्याः इत्यप्रतिसङक्रमा निर्लेपेति यावत् / ननु अपरिणामित्वे चात्मनो विषयाकारत्वाभावात् कथं विषयस्फुरणम्? तत्राह-दर्शितविषया, दर्शितो बुद्धया निवेदितो विषयो यस्याः इति विग्रहः, विषयः सह बुद्धिवृत्तिश्चितौ प्रतिबिम्बिता सती भासत इति भाव."यतोऽ परिणामिनी अत एव शुद्धा अनन्ता च।"-योगवा०, पातञ्जलरह० 112 / तुलना-"तथा चोक्तं (पञ्चशिखेन-तत्त्ववै०) अपरिणामिनी हि भोक्तशक्तिरप्रतिसङक्रमा च परिणामिन्यर्थे प्रतिसङ कान्तेव तवृत्तिमनुपतति"-"-योगभा० 220 / ___ (1) "द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ।"-योगसू० 2 / 20 / (2) "पुरुषस्य दर्शनार्थ कैवल्यार्थं तथा प्रधानस्य / पङ ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः। तद्वत् पङ ग्वन्धवत् प्रधानपुरुषौ द्रष्टव्यौ / पङ गुवत् पुरुषो द्रष्टव्यः अन्धवत् प्रधानम् / पुरुषस्य दृक्शक्तिः, प्रधानस्य क्रियासामर्थ्यम् ।"-सांख्यका० माठर० 21 / “पङ् ग्वन्धदृष्टान्तस्तु नान्तरीयकप्रदर्शनार्थम् / यथा पङ गुर्नान्तरेणान्धं दृकशक्त्या विशिष्टेनार्थेन अर्थवान् भवति, अन्धश्च नान्तरेण पङ गुं विशिष्टेनार्थेन / एवं प्रधानं नान्तरेण पुरुषं कृतमपि कार्य द्रष्टुं शक्तमनवधिकञ्च प्रवर्तमानं विशेषाभावान्नैव निवर्तते / तथा पुरुषः सत्यपि चेतनत्वे नान्तरेण प्रधानम् उपलभ्याभावाद् उपलब्धा भवेदिति प्रधानमपेक्षते।"-युक्तिवी० पृ० 107 / (3) द्रष्टदृश्यभूतयोः पुरुषप्रधानयोः। (4) "पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गणान / कारणं गणसङ्गोऽस्य तदसद्योनिजन्मसु ॥"-भगवद्गी० 13 / 21 / “यस्तु प्रत्यकचेतनस्य स्वबुद्धिसंयोगः, तस्य हेतुरविद्या"-योगद० 2 / 24 / "तथा चैतदत्रोक्तम् (पञ्चशिखेन) व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य सम्पदमनुनन्दति आत्मसम्पदं मन्वानः तस्य व्यापदमनुशोचत्यात्मव्यापदं मन्यमानः स सर्वोऽप्रतिबुद्धः ।"-योगभा० 2 / 5 / . | 1-ना कृत्याभा-श्र०।2-भोक्तृतोप-श्र०।