________________ 814 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे . [7. निक्षेपपरि० 5 प्रकृतिविकारभूता हि सत्त्वादयः, अतस्तेभ्यश्चैतन्यमपोद्धृत्य पुरुष एव स्थाप्यते, तस्मात् पुरुष एव चैतन्यस्वरूपत्वात् द्रष्टा / उक्तञ्च-"चैतन्यं स्वरूपं पुरुषस्य" [योगभा० 119] इति। अत्राऽभेदे षष्ठी। चितिरेव हि पुरुषः, रूपशब्दः स्वभाववचनः / एतदेव हि आत्मनः स्वम् आत्मीयं रूपं स्वभावः यत् चैतन्यं नाम, तस्य व्यक्ताव्यक्तयोरसभंवात् / तथाऽकर्तृभावोऽपि अप्रसवधर्मित्वादस्य सिद्धः, यस्मात् प्रस्पन्दनपरिणामौ प्रसवार्थों नात्मनि विद्येते तस्मादक" इति / ननु सत्त्वादीनां कर्तृत्वे 'पुरुषः पुण्यं करोति' इत्यात्मनि कर्त्तत्वप्रतीतिः कथमुपपन्नेति चेत् ? उपचारात्, यथैव हि स्वयमचेननापि बुद्धिः चेतनासंसर्गात् चेतना उपचर्यते, तथा कर्तृप्रधानसंसर्गात् स्वयमकर्त्ताप्यात्मा कर्त्तव उपचर्यते / तदुक्तम् "तस्मात्तत्संसर्गादचेतनं चेतनावदिह (व) लिङ्गम् / गुणकतत्वेऽपि तथा कर्तव भवत्युदासीनः // " [सांख्यका० 20 ] इति / ततः चिच्छक्तिरपरिणामिन्यप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता चाऽभ्युप (1) "चैतन्यं पुरुषस्य स्वरूपमिति / यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते ? भवति च व्यपदेशे वृत्तिर्यथा चैत्रस्य गौरिति।"-योगभा० 109 / उद्धतमिदम्-सर्वार्थसि० पृ०१। न्यायवि० वि० पृ० 547 A. I (2) "तावेतौ भोगापवौ बुद्धिकृतौ बुद्धावेव वर्तमानौ / कथं पुरुषे व्यपदिश्यते इति ? यथा विजयः पराजयो वा योद्धषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तस्य फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्यते / स हि तत्फलस्य भोक्तेति / बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धः तदर्थावसायो मोक्ष इति / एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा: बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः, स हि तत्फलस्य भोक्तेति ।"-योगभा० 2 / 18 / (3) "तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्" यस्माच्चेतनस्वभावः पुरुषः तस्मात् तत्संयोगादचेतनं महदादिलिङ्गम् अध्यवसायाभिमानसङ्कल्पालोचनादिषु वृत्तिषु चेतनावत् प्रवर्तते / को दृष्टान्तः ? तद्यथा अनुष्णाशीतो घटः शीताभिरद्भिः संस्पृष्ट: शीतो भवति अग्निना संयुक्त उष्णो भवति, एवं महदादि लिङ्गमचेतनमपि भूत्वा चेतनावद् भवति / तस्मात् अध्यवसायं कुर्वन्ति गुणाः कार्यादिषु / ... तद्यथाऽसौ अचौरः तत्संसर्गदोषेण चौरतया प्रतीतस्तैः तथा सत्त्वादयो गुणा: कर्तारः तैः संयुक्तः पुरुषोऽपि अकर्ताऽपि कर्ता भवति, कर्तसंसर्गात कर्तेव, परं परमार्थतया अकर्ता पुरुषः / " -माठरवृ०, गौडपा०, सांख्यतत्त्वको०, जयमङ्ग० का० 20 / "तस्मात् कारणस्य ग्रहणरूपता पुरुषस्य च कर्तृरूपता सम्बन्ध्यन्तरसम्पर्कात् अन्यगताऽन्यत्रोपलभ्यमाना भक्त्याऽध्यवसातव्या न परमार्थतः / उक्तञ्च-चेतनाधिष्ठिता बुद्धिश्चेतनव विभाव्यते / कर्तृष्ववस्थितश्चात्मा भोक्ता कर्तव लक्ष्यते ॥"-युक्तिदी० पृ० 104 / उद्धृतोऽयम्-न्यायमं० पृ०४८९ / 'चेतनावदिह'-अष्टसह० पृ० 67 / न्यायवि०वि०प०५९ A. / स्या० 2050234 / (4) "चितिशक्तिरपरिणामिन्यप्रतिसङक्रमा दर्शितविषया शुद्धा चानन्ता च, सुखदुःखमोहात्मकत्वमशुद्धिः सुखमोहावपि विवेकिनं दुःखाकुरुतोऽतो दुःखवद् हेयौ। तथा चातिसुन्दरमपि अन्तवद् दुनोति तेन तदपि हेयमेव विवेकिनः / सेयमशुद्धिरन्तश्च चितिशक्तौ पुरुषे न स्तः इत्यत उक्तं शुद्धा चानन्ता चेति / ननु सुखदुःखमोहात्मकशब्दादीनियं चेतयमाना तदाकारापन्ना कथं विशुद्धा ? तदाकारपरिग्रह-परिवर्जने च कुर्वती कथमनन्तेत्यत उक्तम्-दर्शितविषया इति / दर्शितो विषयः शब्दादिर्यस्य सा तथोक्ता। भेवदेतदेवं यदि 1-ज्यरूप-श्र०, ब०। 2-न्य रूपं श्र० / तथात्र प्रधा-श्र०। 4-चेतना चेतना-आ० /