________________ प्रवचनप्र० का 0 76 ] अदृष्टस्य प्रकृतिविवर्तत्वनिरासः 813 साक्षित्वादिकमेव हि स्वरूपमात्मनो न कर्तृत्वादि / तदुक्तम् "तेस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य / कैवल्यं माध्यस्थ्यं द्रष्टुत्वमकैर्तृभावश्च // " [सांख्यका० 19 ] तस्माच्च तस्मादेव त्रिगुणविपर्यासात् सिद्धमात्मनः साक्षित्वादिस्वरूपम्; तथाहिसाक्षित्वं तावदात्मनः गुणप्रवृत्तेरधिष्ठातृत्वम् स्वयमस्यं नैर्गुण्यात्, सुखादिभ्यो हि / यतोऽयमर्थान्तरभूतः तस्मात् तत्प्रवृत्तौ साक्षी। तथा कैवल्यमप्यस्य सिद्धम् ततो विविक्तत्वात् / यतः खल्वयं गुणेभ्यः पृथग्भूतः तस्मादेव केवलः, न तैः सह संसर्गेण वर्त्तते / तथा माध्यस्थ्यमप्यस्य विषयित्वात् सिद्धम् / विषयाणां हि तुल्यबलत्वात न्यूनाधिकतोपपत्तेश्च अन्योन्यं बाधानुग्रही उपपन्नौ, विषयी चायम्, तस्मान्नास्य न्यूनतादि, अत एव ईतरयोरनुपपत्तिः / तथा द्रष्टत्वमप्यस्य चैतन्यस्वरूपत्वात्सिद्धम् / 10 स्यान्मुमुक्षोर्योगिनो यतेः / कृष्णं शुक्लं तथा मिश्रं कर्मान्येषां त्रिधा भवेत् ॥"-योगका० 4 / 12 / उद्धृतमिदम्-"प्रधानविवर्तः शुक्लं कृष्णञ्च कर्म ।"-आप्तप० पृ०६१। "प्रधानपरिणामः शुक्लं कृष्णञ्च कर्म ।"-प्रमेयक० पृ० 244, 285 / (10) "प्रकृतेः क्रियमाणानि गुणः कर्माणि सर्वशः / अहङ्कारविमुढात्मा कर्ताहमिति मन्यते ॥"-भगवद्गी० 3 / 27 / (1) “साक्षी चेता केवलो निर्गुणश्च"-श्वेताश्व० 6 / 11 / "पुरि शयनात् प्रमाणात् पूरणात् पुरुवृत्तिता। स चानादिः सर्वगतश्चेतनो निर्गुणोऽपरः / / द्रष्टा भोक्ता क्षेत्रविदमलोऽप्रसवधर्मकः / सूक्ष्मो नित्यो ह्यनादिस्त्वमध्यनिधनोऽपि सः ॥"-सांख्यतत्त्ववि० पृ०१०। (2) "तस्माच्च यथोक्तत्रगुण्यविपर्यासाद् विपर्ययात् / निर्गुणः पुरुषो विवेकी भोक्तेत्यादिगुणानां पुरुषस्य यो विपर्यास उक्तः तस्मात् सत्त्वरजस्तमःसु कर्तभूतेषु साक्षित्वं सिद्धं पुरुषस्येति / योऽयमधिकृतो बहुत्वं प्रति, गुणा एव कर्तारः प्रवर्तन्ते साक्षी न प्रवर्तते नापि निवर्तत एव / किञ्चान्यत्, कैवल्यम्-केवलभावः कैवल्यमन्यत्वमित्यर्थः त्रिगुणेभ्यः केवलोऽन्यः / माध्यस्थ्यभावः, परिव्राजकवन्मध्यस्थः पुरुषः / यथा कश्चित् परिव्राजको ग्रामीणेषु कर्षणार्थेषु प्रवृत्तेषु केवलो मध्यस्थः, पुरुषोऽप्येवं गुणेषु प्रवर्तमानेषु न प्रवर्तते तस्मात् द्रष्टुत्वमकतभावश्च / यस्मान्मध्यस्थः तस्माद् द्रष्टा तस्मादकर्ता पुरुषः तेषां कर्मणामिति / सत्त्वरजस्तमांसि त्रयो गुणाः कर्मकर्तृभावेन प्रवर्तन्ते न पुरुषः। एवं पुरुषस्यास्तित्वञ्च सिद्धम् ।"-गौडपा० भा०, माठरवृ०, साख्यतत्त्वको०, जयमंग, का० 19 / उद्धृतोऽयम्-न्यायवि० वि० पृ० 546 A. / विश्वतत्त्वप्र० पृ० 140 A. / (3) “अकर्तृभावश्चेत्यनेन सप्तविधमकर्तृभावमाश्रयति-न ह्ययं विषयेषु स्वस्यान्तःकरणसान्निध्येऽध्यवसायं कुरुते। न च सत्त्वादीनां प्रकाशप्रवृत्तिनियमलक्षणैर्धमः इतरेतरोपकारेणाप्रवर्तमानानां स्वेन चैतन्यलक्षणेन धर्मण अङ्गभावं प्रतिपद्यते नाङ्गिभावम् / एवं सह गुणः कार्य न कुरुते स्त्रीकुमारवत् / स्थितप्रयोगं न कुरुते रथशकटयन्त्रप्रेरकवत्, न स्वात्मनो मृत्पिण्डवत्, न परतः कुम्भकारवत्, नाप्यादेशात् मायाकारवत्, नोभयतो मातृपितृवत् ।"-युक्तिदी० 10 100 / (4) "तत्र साक्षित्वमित्यनेन गुणानां प्रवृत्तौ अस्वातन्त्र्यं ख्यापयति प्रधानस्य तदर्थनिबन्धनत्वात् प्रवृत्तेः।"-युक्तिवी० पृ० 100 / (५)गुणानां सत्त्वरजस्तमसां प्रवृत्तेः, गुणस्य वा प्रधानस्य प्रवृत्तेः / (६)पुरुषस्य / (7) गणात / "कैवल्यमित्यनेन संसारिधर्मत्वमात्मनो निवर्तयति / न यथा सत्त्वादीनां परस्परेण प्रकाशादिधमर्मापेक्षाणां संसर्गः एवं पुरुषस्य तैर्भवति ।"-युक्तिदी० पृ० 100 / (8) “माध्यस्थ्यमित्यनेन अतिशयनिह्रासानुपपत्तेः, पुरुषस्य गुणैः सह बाधानग्रहानुपपत्तिः स्वकार्यप्रवृत्तौ चापक्षपातं दर्शयति ।"-युक्तिदी। (9) बाधानुग्रहयोः। 1-विरूपं श्र०। 2 पृथग्गतः ब०। उपपत्तौ ब०। 4-न्यरूप-श्र०, ब० /