________________ 812 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे: [7. निक्षेपपरि० कर्तव्यः-ज्ञानावरणादिहानिः कचित्पुरुषविशेषे परमप्रकर्षमायाति, प्रकृष्यमाणत्वात् , नभसि परिमाणवत् / न चात्राऽसिद्धं साधनम् ; तथाहि-प्रकृष्यमाणा आवरणहानिः, आवरणहानित्वात् , माणिक्याद्यावरणहानिवत् / यद्वा, ज्ञानावरणादिकर्म कचिदामूलं प्रक्षीयते, समग्रक्षयहेतूपेतत्वात्, लोचने तिमिरादिवत् / तत्कर्मप्रक्षयस्य हि हेतू संवरनिर्जरे, तदन्वयव्यतिरेकानुविधायित्वात्, यो यस्यान्वयव्यतिरेकानुविधायी स तद्धेतुः यथा धूमोऽग्नेः, अन्वयव्यतिरेकावनुविधत्ते च तत्प्रक्षयः संवरनिर्जरयोरिति / सति संवरे भाविकर्म नोत्पद्यते "अपूर्वकर्मणामास्रवनिरोधः संवरः” [तत्त्वार्थसू० 9 / 1] इत्यभिधानात् / सश्चितं पुनः तन्निर्जरातः प्रलीयते-"उपात्तकर्मणां निर्हरणं निर्जरी' [ ] इति वचनात् / सा च निर्जरा द्विविधा-औपक्रमिक-इतरभेदात् / तत्र औपक्रमिकी 10 तपसा द्वादशविधेनं साध्या, अनौपक्रमिकी तु यथाकालं संसारिणः स्यादिति / ... अत्र सांख्या ब्रुवते-सत्यम् ; अनात्मगुणोऽदृष्टं प्रकृतिपरिणामत्वात्तस्य “प्रकृतिअदृष्ट-कर्मबन्धादि- परिणामः शुक्लंकृष्णश्च कर्म" [ ] इत्यभिधानात् / प्रकृत्या विषये सांख्यानां पूर्वपक्षः- हि कर्म क्रियते अतस्तत् तत्परिणामो नात्मनः तस्याऽकर्तृत्वात् / (1) "दोषावरणयोनिः निःशेषास्त्यतिशायनात् / क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः // " आप्तमी० का०४ / प्रमेयक० पृ०२४५ / (2) "प्रकृष्यमाणा आवरणहानि: आवरणहानित्वात् माणिक्याद्यावरणहानिवत्।"-प्रमेयक०पू०२४६ / स्या०र०पृ० 359 / (3) "क्षीयते क्वचिदामूलं ज्ञानस्य प्रतिबन्धकम्। समग्रक्षयहेतुत्वाल्लोचने तिमिरादिवत् ॥"-तत्वार्थश्लो०५०१५। (4) "तेषामागमिनां / तावद्विपक्षः संवरो भतः। तपसा सञ्चितानां तु निर्जरा कर्मभूभृताम् ।।"-आप्तप० का० 111 / तत्त्वार्थश्लो० पृ०१६। (5) "आस्रवनिरोधः संवरः"-तत्त्वार्थसू०९।१। उद्धृतमिदम्-प्रमेयक प०२४५। (6) "एकदेशकर्मसंक्षयलणा निर्जरा।"-सर्वार्थसि०१४। "उपात्तस्य कर्मणस्तपोविशेषसन्निधाने सत्येकदेशसंक्षयलक्षणा निर्जरा।"-राजवा०२४। "कर्मणां तु विपाकात्तपसा वा यः शाटः सा निर्जरा"-तत्त्वार्थभा० व्या०. तत्त्वार्थहरि०२४। "पोपार्जितकर्मपरित्यागो निर्जरा"तत्त्वार्थश्लो० पृ० 483 / (7) “सा द्विप्रकारा-विपाकजेतरा च / तत्र चतूर्गतावनेकजातिविशेषावर्णिते संसारमहार्णवे चिरं परिभ्रमतः शुभाशुभस्य कर्मणः क्रमेण परिपाककालप्राप्तस्य अनुभवोदयावलिस्रोतोऽनुप्रविष्टस्य आरब्धफलस्य या निवृत्तिः सा विपाकजा निर्जरा। यत्कर्म अप्राप्तविपाककालम् औपक्रमिकक्रियाविशेषसामर्थ्यादनुदीणं बलादीर्ण बलादीर्योदयावलि प्रवेश्य वेद्यते आमपनसादिपाकवत् सा अविपाकजा निर्जरा।"-सर्वार्थसि०, राजवा०, तत्त्वार्थभा० व्या० 8 / 23 / "सा द्विविधा-अनुपक्रमोपक्रमिकी च / तत्र पूर्वा यथाकालं संसारिणः स्यात्, उपक्रमिकी तु तपसा द्वादशविधेन साध्यते ।"-आप्तप० का० 111 / प्रमेयक० पु० 244 / स्या० र० पृ० 357 / “सोपक्रम निरुपक्रम च कर्म-आयुर्विपाकं कर्म द्विविधम्-सोपक्रम निरुपक्रमञ्च। तत्र यथावस्त्रं वितानितं लघीयसा कालेन शुष्येत् तथा सोपक्रमम्, यथा च तदेव सपिण्डितं चिरेण शुष्यदेवं निरुपक्रमम् / यथा यथा चाग्नि: शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत्तथा सोपक्रमम्, यथा वा स एवाग्निः तृणराशौ क्रमतोऽवयवेषु न्यस्तश्चिरेण दहेत्तथा निरुपक्रमम् ।"-योगसू० व्यासभा०३।२२। (8) द्रष्टव्यम्-पृ० ३टि०७। “तत्कार्य धर्मादिः"-सांख्यसू० 2 / 14 / (9) तुलना-"नतुष्पात् खल्वियं कर्मजातिः-कृष्णा, शुक्लकृष्णा, शुक्ला, अशुक्लाकृष्णा चेति ।"-योगभा० 47 / “अशुक्लाकृष्णकर्म 1-दि क्वचि-श्र०। 2-अयंहेतू-ब०,-क्षयेहेतू-आ० /