________________ प्रवचनप्र० का० 76] आवरणस्वरूपविचारः م = शिष्टपुरुषवत् / हीनस्थानं हि शरीरम् , आत्मनो दुःखहेतुत्वात् , कारागारवत् , तत्परिग्रहवांश्च संसारी सर्वेषां सुप्रसिद्ध एव / नच देवशरीरे तदभावात् पक्षाव्याप्तिः; तस्यापि मरणे दुःखहेतुत्वप्रसिद्धेः / यत्परतन्त्रश्चासौ तच्च कर्म, इति सिद्धमस्यै अनात्मगुणत्वम् , अतः पौगलिकत्वमेवास्योपपन्नम् / प्रयोगः-पौद्गलिक कर्म, आत्मनः पारतन्त्र्यनिमित्तत्वात् , निगलादिवत् / नच क्रोधादिभिर्व्यभिचारः; तेषाम् आत्मपरिणामानां पार- 5 तन्त्र्यस्वभावत्वात् / क्रोधादिपरिणामो हि जीवस्य पारतन्त्र्यं न पुनः पारतन्त्र्यनिमित्तम् / यच्चान्यदुक्तम्-'न साकल्येन कचिन्निर्जरासंभवः' इत्यादि; तदप्यनल्पतमोविलसितम् ; कर्मणां सन्तानपरम्परयाऽनादित्वेपि क्वचिद् विपक्षपरमप्रकर्षसद्भावे साकल्येन प्रक्षयोपपत्तेः / यस्य क्वचिद् विपक्षपरमप्रकर्षसद्भावः तस्य तत्र साकल्येन प्रक्षयः यथा शीतस्पर्शस्य, सम्यग्दर्शनादिलक्षणतद्विपक्षपरमप्रकर्षसद्भावश्च कचिदात्मनि इति / 10 नचायं साध्यविकलो दृष्टान्तः; नहि अनादिसन्ततिरपि शीतस्पर्शो विपक्षभूतस्योष्णस्पशस्य प्रकर्षसद्भावे निर्मूलतलं प्रलयमुप॑व्रजन्न प्रतीतः, कार्यकारणप्रवाहेण बीजाङ्करादिसन्तानो वाऽनादिः प्रतिपक्षभूतदहननिर्दग्धबीजो निर्दग्धाङ्कुरो वा न प्रतीयते इति / प्रतिपक्षपरमप्रकर्षसद्भावश्च अनुमानतः प्रसिद्धः; तथाहि-ज्ञानोदयः क्वचित् परमप्रकर्ष प्रतिपद्यन्ते, प्रकृष्यमाणत्वात् , परिमाणवत् / इत्थं वा साकल्येन कर्मप्रक्षये प्रयोगः 15 (1) तुलना-"मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात्। हीनस्थानगतिर्जन्म"-प्रमाणवा० . 12263 / “हीनस्थानं शरीरमात्मनो दुःखहेतुत्वात् कस्यचित्कारागृहवत्"-आप्तप० पृ० 1 // प्रमेयक० पृ०२४३॥ स्या० र० पृ० 1101 / (2) दुःखहेतुत्वाभावात् / (3) कर्मणः / (4) "तानि च पुद्गलपरिणामात्मकानि जीवस्य पारतन्त्र्यनिमित्तत्वान्निगडादिवत् ।"-आप्तप० पु०६१ / प्रमेयक०पू०२४३। (5) 10809506 / (6) तुलना-'सर्वेषां सविपक्षत्वान्निह्रासातिशयं श्रितः / सात्मीभावात्तदभ्यासात् / हीयेरन्नास्रवाः क्वचित् ॥"-प्रमाणवा० 3 / 220 / "ये चापचयधर्माणः प्रतिपक्षस्य सन्निधौ / अत्यन्तापचयस्तेषां कलधौतमलादिवत्।"-तत्त्वसं० का० 3416 / “सात्मीभावाद्विपक्षस्य सतो दोषस्य सङक्षये। कर्माऽश्लेषः प्रवृत्तानां निवृत्ति: फलदायिनाम् ।"-न्यायवि० का० 443 / (7) "स कर्मभूभृतां भेत्ता तद्विपक्षप्रकर्षतः / यथा शीतस्य भत्तेह कश्चिदुष्णप्रकर्षतः ॥"-आप्तप० का० 110 / अष्टसह० 10 54 / “यदुत्कर्षतारतम्यात् यस्यापचयतारतम्यं तत्प्रकर्षनिष्ठागमने भवति तस्य आत्यन्तिकः क्षयः, यथा उष्णस्पर्शतारतम्यात् शीतस्पर्शस्य, भवति च ज्ञानवैराग्यादेरुत्कर्षतारतम्यात् अज्ञानरागादेरपचयतारतम्यमिति ।"-सन्मति० टी० पृ० 737 / (8) "विपक्षप्रकर्षगमनात् कर्मणां सन्तानरूपतयाऽनादित्वेऽपि प्रक्षयप्रसिद्धः / न ह्यनादिसन्ततिरपि शीतस्पर्श:"-आप्तप० का० 110 / प्रमेयक० पृ० 245 / स्या० 20 10357 (9) "प्रतिपक्षभूतदहनान्निर्दग्धबीजो."-आप्तप०५०५९ / "प्रतिपक्षभूतदहनेन निर्दग्धबीजो. -प्रमेयक० 10245 / (10) तुलना-"अस्ति काष्ठाप्रप्तिः सर्वज्ञबीजस्य सातिशयत्वात् परिमाणवत।" -योगभा०१।२५। "तत्प्रकर्षः पुनः सिद्धः परमः परमात्मनि / तारतम्यप्रकर्षस्य सिद्धरुष्णप्रकर्षवत्॥"आप्तप० का० 112 / अष्टसह पृ० 55 / प्रमेयक० पृ० 245 / स्या०र० पृ० 358 / 'शुद्धिः प्रकर्षमायाति परमं क्वचिदात्मनि / प्रकृष्यमाणवृद्धित्वात् कनकादिविशुद्धिवत् ।।"-तत्त्वार्थश्लो० पृ०३१५ / 1-वस्तत्र तस्य श्र० 12-मुपावज-श्र० /