________________ 810 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० अनुमानादेव प्रसिद्धेः। तथाहि-यत् सत् तत्सर्वमनेकान्तात्मकमित्यादि व्याप्तिज्ञानं सावरणम् , स्वविषयेऽस्पष्टत्वात् , यत् स्वविषयेऽस्पष्टं तत्सावरणम् यथा रजोनीहाराद्यन्तरिततरुनिकरादिज्ञानम् , स्वविषयेऽस्पष्टश्चेदं ज्ञानमिति / मियादृशां सर्वत्र अनेकान्तस्वभावे भावे विपरीतज्ञानं सावरणम्, मिथ्याज्ञानत्वात्, धत्तुरकाद्युपयोगिनो मृच्छकले काञ्चनज्ञानवदिति / यदप्युक्तम्-'अविद्यारूपं तद् भविष्यति न पौद्गलिकम्' इत्यादि; तदप्युक्तिमात्रम् ; अमूर्तस्य अमूर्तेनैव आवरणनियमाऽसंभवात् , मूर्तेनापि मदिरादिना अमूर्तस्य ज्ञानादेरावरणदर्शनात् / कथमेवं शरीरादेर्न तदावरणत्वं स्यादिति चेत् ? 'तदविरुद्ध त्वात्' इति ब्रूमः / मूर्त्तत्वाविशेषेऽपि हि यदेव ज्ञानेन विरुद्धं तदेव तस्य आवरणं 10 युक्तं नान्यत् , अन्यथा अमूर्त्तत्वाविशेषात् अविद्यावत् आकाशादेर्शानान्तरस्य च आवर णत्वमनुषज्येत / तस्य॑ ते विरोधश्च मदिरादिवत् पौगलिककर्मोदये प्रबन्धेन प्रवर्त्तमानस्य ज्ञानस्य निरोधान्निश्चीयते। तथाहि-आत्मनो मिथ्याज्ञानादिः पुद्गलविशेष-. . सम्बन्धनिबन्धनः , तत्स्वरूपान्यथाभावस्वभावत्वात् , उन्मत्तकादिजनितोन्मादादिवत् / न च मिथ्याज्ञानजनितापरमिथ्याज्ञानेन अनेकान्तः; तस्यापि अपरापरपौद्गलिककर्मोदये 15 सत्येव संभवात् अपरापरोन्मत्तकादिरंससद्भावे तत्कृतोन्मादादिसन्तानवत् / एतेन 'आत्मगुणत्वात् कर्मणां न पौद्गलिकत्वम्' इत्यपि प्रत्युक्तम् ; तेषीमात्मगुणत्वे तत्पारतन्त्र्यनिमित्तत्वानुपपत्तितः सदैव आत्मनो मुक्तिप्रसङ्गात् / यो यस्य गुणः स तस्य पारतन्त्र्यनिमित्तं न भवति यथा पृथिव्यादेः रूपादिः, गुणश्च धर्माधर्मसंज्ञकं * कर्म 'परैरिष्टम् इति। न चैतत् युक्तम् , आत्मनः परतन्त्रतया प्रमाणतः प्रतीतेः। तथाहि20 परतन्त्रोऽयमात्मा, हीनस्थानपरिग्रहवत्त्वात् , मद्योद्रेकपरतन्त्राऽशुचिस्थानपरिग्रहवद्वि (1) "अशेषज्ञेयज्ञानस्वभावस्यात्मनः स्वविषयेऽप्रवृत्तिः विशिष्टद्रव्यसम्बन्धनिमित्ता पीतहृत्पूरपुरुषस्वविषयज्ञानाप्रवृत्तिवत् / यच्च ज्ञानस्य स्वविषयप्रतिबन्धकं द्रव्यं तद् ज्ञानावरणादि वस्तुसत् पुद्गलरूपं कर्म ।"-सन्मति० टी० पृ० 736 / “यदप्रवृत्तिमत्स्वविषये तत्सावरणं यथा तैमिरिकस्य लोचनविज्ञानमेकचन्द्रमसि, अप्रवृत्तिमच्च स्वविषये समस्तार्थलक्षणेऽस्मदादिज्ञानमिति ।"-स्या० र० पृ० 357 / “ज्ञानं सावरणं विशदतया स्वविषयानवबोधकत्वात् ।"-प्रमेयक० पृ० 240 / (2) "तथा मिथ्यात्वपटलविलुप्तविवेकदृशां यदेतत्सर्वस्मिन्ननेकान्तात्मके वस्तुनि विपर्ययज्ञानं तत्सावरणं मिथ्याज्ञानत्वात् ।"-स्या० र० पृ 357 / प्रमेयक० पृ० 242 / (3) पृ० 809503 / (4) "सुराभिभवदर्शनात्"-राजवा० पृ०८१। प्रमेयक० पृ०२४३। प्रमेयर० पृ०५६। (5) ज्ञानस्य / (6) पौद्गलिकस्य ज्ञानावरणादिकर्मणः / (7) ज्ञानेन / (8) "आत्मनो मिथ्याज्ञानादि: ... "-प्रमेयक० पृ० 243 / (9) 10809 पं०५। (10) "तेनात्मगुणोऽदृष्टो निराकृतो भवति; तस्य संसारहेतुत्वानुपपत्तेः ।"सर्वार्थसि० 8 / 2 / “कर्मणामात्मगुणत्वे तत्पारतन्त्र्यनिमित्तत्वायोगात् सर्वदाऽऽत्मनो बन्धानुपपत्तेर्मुक्तिप्रसङ्गात् ।"-आप्तप० का० 113 / प्रमेयक० पृ० 243 / स्या० 20 पृ० 1101 / (11) योगैः / 1 गजो-श्र०। 2-निकारादि-श्र० / 3 'तस्य' नास्ति आ०। 4-स्य तिरोधानान्निश्ची-श्र०, -स्य तिरोधाग्निश्ची-ब०। 5-थाभावत्वात् उ-श्र०। 6-रसद्भावे ब०। 7-तन्त्रानुचितस्था-ब०।