________________ प्रवचनप्र० का० 76 ] आवरणस्वरूपविचारः 806 दकादौ च भूम्यादेः; इत्यप्यसमीचीनम् ; तदभावस्य योगिनोऽप्यशक्यक्रियत्वात् / न खलु सातिशयर्द्धिमताऽपि योगिना देशाद्यभावो विधातुं शक्यः / नचान्यत् किश्चिदावरणं प्रतीयते / अस्तु वा तत् ; तथापि-अविद्यारूपं तद् भविष्यति न पौद्गलिकम् , मूर्तिमताऽनेनै अमूर्तस्य ज्ञानादेरावरणानुपपत्तेः, अन्यथा शरीरादेरप्यावरणत्वप्रसङ्गः / आत्मगुणत्वात् कर्मणो न पौद्गलिकत्वमिय॑न्ये / भवतु पौद्गलिकत्वम् / अन्यथाभूतत्वं वाऽस्य; तथापि न साकल्येन क्वचिन्निर्जरासंभवः कार्यकारणप्रवाहेण प्रवर्त्तमानस्यास्य अनादित्वात्, अनादेश्च आत्मादिवद् विनाशासंभवादित्यपरे। अत्र प्रतिविधीयते / यत्तावदुक्तम्-'ज्ञानावरणादिकर्मणः सद्भावप्रसिद्धौ' कर्मणः पौगलिकत्व- इत्यादि; तत्र किं कर्ममात्रसद्भावे भवतां विप्रतिपत्तिः, ज्ञानावरणादिकर्मप्रसाधनं संवरनि- विशेषे वा ? तत्राद्यविकल्पोऽनुपपन्नः; शरीरादिव्यतिरिक्तस्य कर्म- 10 र्जरयोः सिद्धिश्च- . मात्रस्य अनुमानतः सद्भावप्रसिद्धेः / तथाहि-स्वपरप्रमेयबोधैकस्वभावस्य आत्मनो हीनगर्भस्थानशरीरविषयादिषु विशिष्टाभिरतिः आत्मतव्यतिरिक्तकारणपूर्विका, तत्त्वात् , कुत्सितपरपुरुषे कमनीयकुलकामिन्याः तन्त्राद्युपयोगप्रभवविशिष्टाभिरतिवत् / द्वितीयविकल्पोऽप्ययुक्तः; ज्ञानावरणादिकर्मविशेषस्यापि तद्व्यतिरिक्तस्य (1) दूरदेशताया दूरकालताया सूक्ष्मस्वभावताया भूम्यादेर्वा अभावस्य / (2) वेदान्तिनः / "अत एवावरणस्य अनिर्वाच्याविद्यास्वरूपत्वमङ्गीकर्तव्यम् / न तु दुनिरूपत्वमात्रेण तदपलापो युक्तः अनुमानसिद्धत्वात्। तथाहि-अस्ति तावन्मुढानामेवं व्यवहारः 'अशनायाद्यतीतं विवेकिप्रसिद्धमात्मतत्त्वं नास्ति न प्रकाशते च' इति योऽयं व्यवहारः आत्मनि भावरूपावरणनिमित्तो भवितुमर्हति, 'अस्ति प्रकाशते' इत्यादिव्यवहारपुष्कलकारणे सति तद्विपरीतव्यवहारत्वात्, यन्नैवं तन्नैवं यथास्ति प्रकाशते घट इति व्यवहारः / न च कारणपौष्कल्यमसिद्धम् ; नित्यसिद्धस्वप्रकाशचंतन्यातिरेकेणात्रान्यापेक्षाभावात् / न चान्यथासिद्धिः; इतोऽतिरिक्तावरणस्य मूर्तद्रव्यस्य आत्मनि निरवयवे सर्वगते दुःसंपादत्वात् ।'-विवरणप्र० पृ० 21 / (3) पौद्गलिककर्मणा। (4) यौगाः / द्रष्टव्यम्-पृ० 3 टि० 5 / (5) अविद्यादिरूपत्वम् / (6) कर्मणः / (7) जयन्तभट्टादयः / तुलना-“अन्ये तु मिथ्याज्ञानजनितसंस्कारस्य सहकारिणोऽभावात् विद्यमानान्यपि कर्माणि न जन्मान्तरे शरीरारम्भकाणीति मन्यन्ते।" -प्रश० व्यो० पृ० 20 ख / “सहकारिवैकल्यात् कुसूलावस्थितबीजवत् कर्मणामनारभ्भकत्वे सति न कश्चिद्दोषः / एष एव च तेषां दाहो यत्कार्यानारम्भकत्वम् / नन्वविनष्टस्वरूपाणि कुसूलबीजवदेव कदाचिदारप्स्यन्ते कार्य तस्माद्वरमच्छिद्यन्तामेव; किमिदानी नित्यमात्मानमप्युच्छेत्तुं यतामहे ?"न्यायमं० पृ०५२३ / (8) पृ०८०८५०१९ / (9) तुलना-"चेतनस्य सतः सम्बन्ध्यन्तरं मोहोदयकारणं मदिरादिवत् / तत्कृतः सिद्धम् / विवादाध्यासितो जीवस्य मोहोदयः सम्बन्ध्यन्तरकारणकः मोहोदयत्वात् मदिराकारणकमोहोदयवदित्यनुमानात् ।"-अष्टश०, अष्टसह० पृ० 49 / “संसारी बन्धवान परतन्त्रत्वादालानस्तम्भागतहस्तिवत् / परतन्त्रोऽसौ हीनस्थानपरिग्रहवत्त्वात् कामोद्रेकपरतन्त्रहीनस्थानपरिग्रहवच्छोत्रियब्राह्मणवत् ।"-आप्तप० पृ० 1 / प्रमेयक० पृ० 242 / (10) शरीरादिव्यतिरिक्त / (11) शरीरादिभिन्नस्य / . 1-तु वा पौ-ब०। 52