________________ 808 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० चतुर्दश भवन्ति / तैः प्ररूपितस्वरूपातिशये जीवद्रव्ये यथावज्ज्ञाते मुमुक्षूणां मुक्त्यङ्गं परिपूर्ण रत्नत्रयं भवति नान्यथा / एतदेवाह-'एवम्' इत्यादि / एवम् उक्तप्रकारेण प्रमाणनयनिक्षेपानुयोगैः पदार्थप्रतिपत्त्युपायैः सर्वान् पदार्थानधिगम्य पुरुषतत्त्वं पुनः जीवस्थानगुणस्थानमार्गणास्थानः दृढतरमवबुद्ध्य, इत्यनेन मुमुक्षोः सम्यग्ज्ञानं 5 मुक्तथङ्गं प्ररूपितम् / प्रवृद्धाभिनिवेशात्मकसम्यग्दर्शनः इत्यनेन सम्यग्दर्शनम् , 'तपसा निर्जीर्णकर्मा' इत्यनेन तु सम्यक्चारित्रमिति / तेन च सम्यग्दर्शनादित्रयेण निर्जीर्णकर्मा सर्वकर्मविनिर्मुक्तः सन् अयमात्मा सुखमृच्छति सुखमयो भवति / किंविशिष्टं तत्सुखम् ? बाधारहितं विगतबाधम् , अव्यवच्छिन्नं शाश्वतम् , अनन्तम् इयत्तावधारणवर्जितम् , अतीन्द्रियम् विशुद्धात्ममात्रोत्थम् / ननु आत्मनो मुक्तौ बुद्ध्याद्यशेषविशेषगुणोच्छेदात् कथं सुखमयत्वमिति वैशेषिकाः / अत्यन्तचित्तसन्तानोच्छेदतः तस्यैवाऽसंभवादिति सौगताः। अभोक्तृत्वादिति सांख्याः / अत्राह-नहि इत्यादि / नहि नैव गुणविनाशाद् बुद्ध्यादिगुणोच्छेदात् जडः पाषाणकल्पः मुक्तौ आत्मा भवति, गुणगुणिविनाशात शून्यः 'नहि' इति सम्बन्धः / गुणाः ज्ञानादयः गुणी चित्तसन्तानः तेषां विनाशाद् अत्यन्तोच्छेदात् आत्मा शून्यः सकलस्वरूपविविक्तो भवति 'नहि' इति सम्बन्धः / भोग्यविरहात् तदा द्रष्टुः स्वरूपेऽवस्थानाद् अभोक्ता आत्मा सुखादेः 'नहि' इति सम्बन्धः / कुत एतत् ? इत्यत्राह-तथाधिगमाभावात् तद्बाधासंभवाच्च / यथा च मुक्तौ तथाविधस्य आत्मस्वरूपस्य कुतश्चिदपि प्रमाणादधिगमासंभवः तत्र च बाधासंभवः तथा अग्रे प्रपञ्चतः प्ररूपयिष्यते / ___ ननु ज्ञानावरणादिकर्मणः सद्भावप्रसिद्धौं 'तपोनिर्जीर्णकर्मा' इत्यभिधातुं 20 श्रावरणस्वरूपविषये युक्तम् / नच तत्सद्भावः प्रसिद्धः / तद्धि शरीरम् , रागादि, देशकाइतरेषां पूर्वपक्षः- लादिकं वा भवेत् ? तत्र आद्यविकल्पद्वयमयुक्तम् ; शरीरे रागादौ च सत्यपि अर्थज्ञानोदयसंभवात् / यस्मिन् सत्यपि ज्ञानोदयसंभवः न तस्य ज्ञानावरणादिस्वरूपता यथा चक्षुरादेः, अर्थज्ञानोदयसंभवश्च शरीरादौ सत्यपि, तस्मान्न तस्य ज्ञानावरणादिस्वरूपता इति / तस्य तत्स्वरूपतायां वा काण्डपटादिवन्न तत्सद्भावे 25 तेंदुपलम्भसंभवो भवेत् / तर्हि देशकालादेस्तत्स्वभावताऽस्तु, सुप्रसिद्धा हि मेर्वादौ दूरदेश ताया आवरणता रावणादौ दूरकालतायाः परमाण्वादौ सूक्ष्मस्वभावतायाः, मूलंकीलो (1) आत्मन एव / (2) सुखादिव्यतिरिक्तस्य शून्यस्य अभोक्तृत्वरूपस्य वा। (3) तुलना"तद्धि शरीरं रागादयो देशकालादिकं वा स्यात् ।"-प्रमेयक० पू० 241 / स्या०र०पू० 356 / (4) शरीरं रागादिकं वा नावरणस्वरूपम् तत्सद्भावेऽपि ज्ञानोदयात् / (5) शरीरादेः / (6) शरीरादिसद्भावे। (7) ज्ञानोग्लम्भसंभवः / (8) आवरणस्वभावता। (9) भूम्यन्तर्गतस्य वृक्षमूलस्य कीलस्य उदकादेर्वा / .1-रेण नयनि-आ०। 2-ष्टं सुखं श्र० / 3 अवच्छिन्नं श्र०। 4 'आत्मा' नास्ति आ० / 5 इत्याह-ब०। 6-द्धौनिर्जीर्ण-श्र०। 7 तदभावः ब०। 8 तस्मानास्य ब०। 9'तस्य'नास्ति श्र० /