________________ प्रवचनप्र० का० 76 ] निक्षेपनिरूपणम् 807 रिक्तविकल्पात्। तत्र ज्ञशरीरलक्षणं नोआगमद्रव्यमपि त्रिकालगोचरं त्रिविधम्-भाविवर्तमान-परित्यक्तभेदात् / गत्यन्तरे स्थितो मनुष्यभवप्राप्तिं प्रत्यभिमुखो भाविजीवः / स एव यदा जीवादिप्राभृतं न जानाति केवलमग्रे ज्ञास्यति तदा भाविनोआगमः / तंव्यतिरिक्तं नोआगमद्रव्यं कर्मनोकर्मभेदात्मकम् / तत्र ज्ञानावरणाद्यष्टप्रकारं कर्म, शरीरपर्याप्तियोग्यपुद्गलादानं नोकर्म / अथ को भावः ? इत्याह-'तथा' इत्यादि / तथा, किम् ? विवक्षितप्रकारेण उपयोगो व्यापारः / यदि वा, तथा आगमनोआगमरूपतया उपयोगो जीवस्य उपयुक्तत्वं मावः / अतश्च द्रव्यवद् भावोऽपि आगमनोआगमविकल्पाद् द्विविधः प्रतिपत्तव्यः / तत्र जीवादिप्राभृतविषयोपयोगाविष्ट आत्मा आगमभावः / जीवादिपर्यायाविष्टो नोआगमः / एवं प्ररूपितनामादिचतुःप्रकारो निक्षेपः सिद्धः। स किमर्थं प्ररूप्यते 10 निष्फलत्वात्, इत्याशङ्क्याह-'अप्रस्तुत' इत्यादि / अप्रस्तुतार्थस्य मुख्यस्य इन्द्रादेः अपाकरणात् निराकरणात् , प्रस्तुतस्य नामस्थापनेन्द्रादेः व्याकरणाद् व्युत्पादनाच्च हेतोः निक्षेपः फलवान् सार्थकः / तेन च इत्थम्भूतेन निक्षेपेण निक्षिप्ता उक्तप्रकारेण प्ररूपिताः पदार्थाः जीवादयः अनुयुज्यन्ते अनु पश्चात् युज्यन्ते जीवद्रव्यादेः स्वरूपादीनि तजिज्ञासया पृच्छयन्ते / कैः कृत्वा ? अनुयोगैः। किंविशिष्टैः ? 15 निर्देशादिभिः निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानलक्षणैः, न केवलमेतैरेव अपि तु सदादिभिश्च, सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वलक्षणैश्च। एवंविधैश्च अनुयोगैः अनुयुक्ता यद्यपि सर्वे पदार्थाः तथापि जीवपदार्थविषयो यो विशेषः इतरपदार्थेभ्यः स्वरूपातिशयः तस्य प्ररूपकाणि जीवस्थानगुणस्थानमार्गणास्थानानि प्रत्येक नसामान्यस्य सदापि विद्यमानत्वात् / विशेषापेक्षया त्वस्ति-गत्यन्तरे जीवो व्यवस्थितो मनुष्यभवप्राप्ति प्रत्यभिमुखः मनुष्यभाविजीवः / तद्वयतिरिक्तः कर्मनोकर्मविकल्पः।"-सर्वार्थसि० 105 / धवलाटी० प०२१ / “मंगलपयत्थजाणयदेहो भब्वस्स वा स जीवोऽवि / नो आगमओ दव्वं आगमरहिओत्ति जं भणि॥ अहवा नो देसम्मि नो आगमओ तदेगदेसाओ। भूयस्स भाविणो वा जस्स जं कारणं देहो // जाणयभव्वसरीराइरित्तमिह दव्वमंगलं होइ। जा मंगल्ला किरिया तं कुणमाणो अणवउत्ती॥"विशेषा० गा० 44-46 / / (१)"से किं तं भावावस्सयं? दुविहं पण्णत्तं, तं जहा-आगमतो अ, नो आगमतो अ।"-अनु० सू० 22 / सर्वार्थसि०१५। धवलाटी० पृ० 29 / (2) “जाणए उवउत्ते, सेतं आगमतो भावावस्सयं / " -अन० स०२३। "तत्र जीवप्राभतविषयोपयोगाविष्टो मनुष्यजीवप्राभूतविषयोपयोगयुक्तो वा आत्मा आगमभावजीवः ।"-सर्वार्थसि० 115 / "मंगलसुयउवउत्तो आगमओ भावमंगलं होइ।"-विशेषा० गा० 49 / “आगमः सिद्धान्तः, आगमदो मंगलपाहुडजाणओ उवजुत्तो।"-धवलाटी० पृ० 29 / (3) "जीवनपर्यायेण मनुष्यजीवनपर्यायेण वा समाविष्ट आत्मा नो आगमभावजीवः ।"-सर्वार्थसि०, राजवा०, तत्वार्थश्लो० 115 / "णो आगमदो भावमंगलं दुविहं उपयुक्तस्तत्परिणत इति। आगममन्तरेण अर्थोपयुक्त उपयुक्तः / मंगलपर्यायपरिणतस्तत्परिणत इति ।"-धवलाटी० पृ० 29 / 1-पः प्रसिद्धः श्र० 12 अनुयुज्जन्ते श्र०। 3 युज्जन्ते श्र०। 4 जीव इत्यादेः श्र०। /