________________ 806 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० अथ किंलक्षणं द्रव्यम् ? इत्याह-'अनागत' इत्यादि / ननु 'अनागतपरिणामविशेष प्रति गृहीताभिमुख्यं द्रव्यम्' इति द्रव्यलक्षणमयुक्तम् , “गुणपर्ययवद्रव्यम्' [तत्वार्थसू० 5 / 38] इत्यागमविरोधादिति कश्चित् ; सोऽपि सूत्रकाराभिप्रायानभिज्ञः; 'गुणपैर्ययवद्रव्यम्' इति हि सूत्रकारेण वदता त्रिकालगोचरानन्तक्रमभाविपरिणामाश्रयं द्रव्यमुक्तम् / तच्च यदा अनागतपरिणामविशेषं प्रत्यभिमुखं तदा वर्तमानपर्यायाक्रान्तं परित्यक्तपूर्वपर्यायञ्च निश्चीयते, अन्यथा अनागतपरिणामाभिमुख्यानुपपत्तेः खरविषाणवत् / केवलं द्रव्यार्थप्रधानत्वेन वचने अनागतपरिणामाभिमुखम् अतीतपरिणामानुयायिद्रव्यमिति निक्षेपकरणे तथा द्रव्यलक्षणमुक्तम्। सूत्रकारेण तु परमतव्यवच्छेदेन प्रमाणार्पणात् 'गुणपर्ययवद्रव्यम्' इति सूत्रितम् , क्रमाऽक्रमानेकान्तस्य तथा व्यव10 स्थितेः / तच्चैवंविधलक्षणलक्षितं द्रव्यं द्विधौ भिद्यते आगम-नोआगमविकल्पात् / तत्र आत्मा यो जीवादिप्राभृतं तत्त्वतो जानाति परन्तु चिन्तन-परप्रतिपादनलक्षणोपयोगाऽनुपयुक्तः स आगमद्रव्यम् / नोआगमः त्रेधा भिद्यते-ज्ञातृशरीर-भावि-तद्व्यति तविवरीया असन्भावढवणा।"-धवलाटी० पृ०२०। “काष्ठपुस्तचित्रकर्मादयो ये सद्भावस्थापनारूपा: तथाऽक्षनिक्षेपादयोऽसद्भावस्थापनारूपाः""-तत्त्वार्थभा० व्या० 115 / "तत्राध्यारोप्यमाणेन भावेन्द्रादिना समाना प्रतिमा सद्भावस्थापना, मुख्यदर्शिनः स्वयं तस्यास्तबुद्धिसंभवात् कथञ्चित्सादश्यसद्भावात् / मुख्याकारशून्या वस्तुमात्रा पुनरसद्भावस्थापना परोपदेशादेव तत्र सोऽयमिति संप्रत्ययात् ।"-तत्त्वार्थश्लो० पृ० 111 / (1) सूत्रकारः उमास्वाम्याचार्यः / तुलना-"सोऽपि सूत्रार्थानभिज्ञः; गुणपर्ययवद्रव्यमिति हि सूत्रकारेण वदता त्रिकालगोचरानन्तक्रमभाविपरिणामाश्रयं द्रव्यमुक्तम्। तच्च यदाऽनागतपरिणामविशेष प्रत्यभिमुखं तदा वर्तमानपर्यायाक्रान्तं परित्यक्तपूर्वपर्यायञ्च निश्चीयते, अन्यथा अनागतपरिणामाभिमुख्यानुपपत्तेः खरविषाणादिवत् ।"-तत्त्वार्थश्लो० पृ० 112 / (2) क्रमभाविपर्यायापेक्षया क्रमाऽनेकान्त: सहभाविगुणापेक्षया तु अक्रमानेकान्तः / (3) “से किं तं दवावस्सयं? दुविहं पण्णत्तं तं जहा आगमओ अ नोआगमओ अ।"-अनु० सू० 12 / सर्वार्थसि०, राजवा० 115 / धवलाटी० पृ० 20 / (4) "जस्स णं आवस्सएत्ति पदं सिक्खितं ठितं जितं मितं परिजितं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरंसे णं तत्थ वायणाए पुच्छणाए परिअट्टणाए धम्मकहाए नो अणुप्पेहाए, कम्हा ? अणुवओगो दव्वमिति कटु ।-अनु० सू० 13 / “जीवप्राभृतज्ञायी मनुष्यजीवप्राभृतज्ञायी वा अनुपयुक्त आत्मा आगमद्रव्यजीवः ।"-सर्वार्थसि०, राजवा० 115 / “आगमओऽणुवउत्तो मंगल. सद्दाणुवासिओ वत्ता। तन्नाणलद्धिसहिओऽवि नोवउत्तोत्ति तो दव्वं ॥"-विशेषा० गा० 29 / "तत्थ आममओ दव्वमंगलं णाम मंगलपाहुडजाणओ अणुवजुत्तो, मंगलपाहुडसद्दरयणा वा, तस्सत्थट्ठवणक्खररयमा वा।"-धवलाटी०पृ० 21 / (5) “से कि तं नो आगमओ दवावस्सयं? तिविहं पण्णत्तं, तं जहा-जाणयसरीरंद व्वावस्सयं भविअसरीरदव्वावस्सयं जाणयसरीरभविअसरीरवतिरित्तं दवावस्सयं।" -अनु० सू०१५ / “नो आगमद्रव्यजीवस्त्रेधा व्यवतिष्ठते-ज्ञायकशरीर-भावि-तद्वयतिरिक्तभेदात् / तत्र ज्ञातुर्यच्छरीरं त्रिकालगोचरं तज्ज्ञायकशरीरम् / सामान्यापेक्षया नोआगमभाविजीवो नास्ति जीव 1-पर्यायव-आ०, श्रः। 2-पर्यायव-आ०, श्र०। 8-प्रकारेण तथा ब०। 4-पर्यायवआ०, श्र०। 5-श्रुतं न जाना-श्र० / 6-नानुयुक्तं स आ०,-गोवानुपयुक्तः स ब०।