SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ प्रवचनप्र० का 0 76 ] निक्षेपनिरूपणम् / 805 किञ्चिदनेकजीवनाम यथा यूथ इति / किञ्चिदेकाऽजीवनाम यथा घटः इति। किञ्चिदनेकाजीवनाम यथा प्रासाद इति। किञ्चिदेकजीव-एकाजीवनाम यथा प्रतीहार इति / किञ्चिदेकजीव-अनेकाजीवनाम यथा कोहार इति / किश्चिद् अनेकजीवाऽजीवनाम यथा नगरमिति / इत्याद्यनेकप्रकारं तत् प्रतिपत्तव्यम् / कस्मात् तदनियतप्रकारम् ? इत्याह-जातिद्रव्यगुणक्रियालक्षणनिमित्तानपेक्षसंज्ञाकर्मणोऽनेकत्वात् अनियत- 5 त्वात् , जात्यादिनियतनिमित्तापेक्षाणामेव शब्दानां नियतत्वोपपत्तेः / जातिद्वारेण हि ये शब्दाः द्रव्यादिषु प्रवर्त्तन्ते ते जातिशब्दाः यथा गौः अश्वः इत्यादयः / द्रव्यद्वारेण तु ये वर्त्तन्ते ते द्रव्यशब्दाः / ते च द्विविधाः-संयोगिद्रव्यशब्दाः, समवायिद्रव्यशब्दाश्च / तत्र संयोगिद्रव्यशब्दाः कुण्डली इत्यादयः, समवायिद्रव्यशब्दाः विषाणी इत्यादयः / गुण-कर्मद्वारेण तु ये द्रव्ये वर्त्तन्ते ते गुणशब्दाः कर्मशब्दाश्च प्रतिपत्तव्याः, 10 यथा 'शुक्लो नीलः' इत्यादयः, 'गच्छत्यागच्छति' इत्यादयश्च / ___अथ का स्थापना ? इत्याह-'आहित' इत्यादि। स्थाप्यते इति स्थापना प्रतिकृतिः, सा च आहितनामकस्य अध्यारोपितनामकस्य द्रव्यस्य इन्द्रादेः 'सोऽयम्' इत्यभिसन्धानेन व्यवस्थापना / केनात्मना व्यवस्थापना ? इत्याह-'सद्भाव' इत्यादि / तत्र अध्यारोप्यमाणेन मुख्येन्द्रादिना समाना सद्भावस्थापना। मुख्याका- 15 रशून्या पुनः असद्भावस्थापना। यथा काहार इति / किञ्चिदेकाजीवानेकजीवनाम यथा मंदुरेति। किञ्चिदनेकजीवाजीवनाम यथा नगरमिति ।"-तत्त्वार्थश्लो०१०९८।। (1) दण्डधारको द्वारपालः, तत्र एकोऽजीवः दण्ड: जीवश्च द्वारपाल इति / (२)एको जीवः धीवरः, अनेकाश्च अजीवाः जलाहरणाय उपयुज्यमानाः घटादयः। (3) तुलना-"यदृच्छाशब्देषु नाम्ना विशिप्टोऽर्थ उच्यते डित्थ इति / जातिशब्देषु जात्या गौरयमिति / गुणशब्देषु गुणेन शुक्ल इति। क्रियाशब्देन क्रियया पाचक इति। द्रव्यशब्देषु द्रव्येण दण्डी विषाणीति ।"-प्रमाणस० टी०पृ० 12 / "तत्थ जाइणिमित्तं णाम गोमणुस्सघडपडत्थंभवेत्तादि / संजोगदव्वणिमित्तं णाम दंडी छत्ती मौली इच्चेवमादि / समवायणिमित्तं णाम गलगंडो काणो कुंडो इच्चेवमाइ। गुणणिमित्तं णाम किण्हो रुहिरो इच्चेवमाइ। किरियाणिमित्तं णाम गायणो णच्चणो इच्चेवमाइ।"-धवलाटी०ए०१८। 'जातिद्वारेण शब्दो हि द्रव्यादिषु वर्तते। जातिहेतुः स विज्ञेयः गौरश्व इति शब्दवत् // 3 // गुणप्राधान्यतो वृत्तो द्रव्ये गुणनिमित्तकः / शुक्ल: पाटल इत्यादिशब्दवत्सम्प्रतीयते॥६।। कर्मप्राधान्यतस्तत्र कर्महेतुर्निबुध्यते / चरति प्लवते यद्वत्कश्चिदित्यतिनिश्चितम् // 7 / / संयोगिद्रव्यशब्दः स्यात्कुण्डलीत्यादिशब्दवत्। समवायिद्रव्यशब्दो विषाणीत्यादिरास्थितः ॥९॥"-तत्त्वार्थलो० पृ० 99 / (4) "स्थाप्यत इति स्थापना प्रतिकृतिः / सा चाहितनामकस्य इन्द्रादेर्वास्तवस्य तत्त्वाध्यारोपात प्रतिष्ठा सोत्यमित्यभिसम्बन्धेनान्यस्य व्यवस्थापना स्थापनामात्र स्थापनेति वचनात् ।"-तत्त्वार्थश्लो० पृ० 111 / (5) तुलना"जण्णं कठकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगो वा सब्भावट्ठवणा वा असब्भावट्ठवणा वा आवस्सएत्ति ठवणा ठविज्जइ से तं ठवणावस्सयं ।"-अनु० सू०१०। “तत्थ आगारवंतए वत्थुम्मि सब्भावट्ठवणा, 1 यथाहार आ० / 2-युवत-आ०, ब०। 3 संयोगिशब्दा-श्र०। 4 इत्यभिधानेन आ०।
SR No.004327
Book TitleNyayakumudchandra Part 2
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1941
Total Pages634
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy