________________ 804 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० दिपदार्थनिरूपणप्रवणं तत् प्रमाणम् यथा सर्ववित्प्रत्यक्षम् , तथाभूतञ्चोक्तप्रकारं श्रुतमिति। नयः कीदृशः ? इत्याह-'तदर्थाश' इत्यादि / नयो भवति / कौऽसौ ? अभिसन्धिः ज्ञात्रभिप्रायः। किंविशिष्टः ? तदर्थांशपरीक्षाप्रवणः, तस्य श्रुतस्य अर्थो विषयः उक्तप्रकारो जीवादिः तस्य अंशो धर्मः नित्यत्वादिः तस्य परीक्षायां प्रवणो 5 दक्षः / ताभ्यां श्रुतनयाभ्याम् अधिगमः निश्चयः / केषाम् ? इत्याह-परमार्थव्यावहारिकार्थानाम् द्रव्यपर्यायाणाम् इत्यर्थः / अथेदानीं 'तदधिगत' इत्यादिना नयानुगतत्वं निक्षेपस्य प्रदर्य तत्स्वरूपं व्याचष्टे-तदधिगतानां श्रुतनयाधिगतानां द्रव्यपर्यायरूपाणां जीवादीनां वाच्यतामा पन्नानां साधारणस्वरूपाणाम् , न हि असाधाणस्वरूपा अर्थपर्याया वाच्यतामापद्यन्ते / 10 वाचकेषु जीवादिशब्देषु भेदेन सङ्करव्यतिकरव्यतिरेकेण उपन्यासः जीवाद्यर्थानां प्ररूपणं न्यासः निक्षेप इति यावत्। स कति प्रकारो भवति ? इत्याह-'सः' इत्यादि। सः प्ररूपितस्वरूपो न्यासः अवरतः सङ्केपतः चतुर्धा / कथम् ? इत्याह-'नाम' इत्यादि / . . नाम-स्थापना-द्रव्य-भावैः प्रकारैः निक्षेपः चतुर्धा भिद्यते। 'तत्र' इत्यादिना तान् व्या चष्टे-तत्र तेषु निक्षेपप्रकारेषु नामादिषु मध्ये किन्नाम ? इत्याह-'निमित्त' इत्यादि। किं 15 पुनः नाम्नो निमित्तं किं वा निमित्तान्तरमिति चेत् ? 'वक्तुरभिप्रायोऽस्य निमित्तम् , जात्यादिकं तु निमित्तान्तरम्' इति ब्रूमः। तदनपेक्षं यत् संज्ञाकर्म संज्ञाकरणम् इच्छावशात् तन्नाम / तस्य इयत्ताव्यवच्छेदार्थमाह-'तच' इत्यादि / तच्च उक्तस्वरूपं नाम अनेकधा अनेकप्रकारं भवति / तथाहि-किञ्चिद् एकजीवनाम यथा डित्थ इति / (1) सर्वेषां युगपत्प्राप्तिः सङ्करः, परस्परविषयगमनं व्यतिकरः, ताभ्यां व्यतिरेकेण प्रतिनियतस्वस्वरूपस्थितत्वेनेति भावः / (2) तुलना-"निमित्तान्तरं पुनर्जातिद्रव्यगुणक्रिया: ।"सिद्धिवि०, टी० पृ० 474A. "नाम्नो वक्तुरभिप्रायो निमित्तं कथितं समम् / तस्मादन्यत्तु जात्यादि निमित्तान्तरमिष्यते ॥"-तत्त्वार्थश्लो० पृ० 99 / (3) “जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा..."-अनु०सू०९। 'व्यस्तसमस्तैकानेकजीवाजीवविषयतोपपत्तेः-तथा [ व्यस्त ] जीवविषयतोपपत्तेः अयं मांसपिण्डो देवदत्तोऽयं देवदत्त इत्यादिवत् / समस्तजीवविषयतोपपत्तेः एते सर्वे गर्गादय इत्यादिवत् / एकजीवविषयतोपपत्तेः नाभेयः पुरुदेव इत्यादिवत् / अनेकजीवविषतोपपत्तेः अयं डित्थः अयं डवित्थः अयं जिनदत्त इति चत्वारो जीवभेदाः। तथा व्यस्ताजीवविषयतोपपत्तेः स नु त्य क्य च इत्यादि / समस्ताजीवविषयतोपपत्तेः भूवादयो धुरित्यादिवत् / एकाजीवविषयतोपपत्तेः आकाशं काल: धर्मः अधर्म इत्यादिवत् / अनेकाजीवविषयतोपपत्तेः तौ सदिव ।"-सिद्धिवि० टी०प० 474A. / "तस्स मंगलस्स आधारो अठ्ठविहो। तं जहा, जीवो वा, जीवा वा. अजीवो वा, अजीवा वा, जीवो य अजीवो य, जीवा य अजीवो य, जीवो य अजीवा य, जीवा य अजीवा व।"-धवलाटी० पृ० 19 / "किञ्चिद्धि प्रतीतमेकजीवनाम यथा डित्थ इति / किञ्चिदनेकजीवनाम यथा युथ इति / किञ्चिदेकाजीवनाम यथा घट इति / किञ्चिदनेकाजीवनाम यथा प्रासाद इति / किञ्चिदेकजीवैकाजीवनाम यथा प्रतीहार इति / किञ्जिदेकजीवानेकाजीवनाम ___ 1 'श्रुतनयाधिगतानां नास्ति श्र०। 2-वन् स कति यावत् स कतिप्रका-आ० / 'नामादिषु' नास्ति आ०। 4 तदनपेक्ष्य यत् ब०।