________________ तृतीये प्रवचनप्रवेशे सप्तमः निक्षेपपरिच्छेदः। . प्रादुर्भूतं निखिलविषयोद्योतिसंवित्सरस्याम् , शास्त्राम्भोजं सकलविषयप्रौढपत्रप्रपञ्चम् / लक्ष्मीक्षेत्रं प्रमितिनयसत्कर्णिकाकेसराख्यम् , निक्षेपोरुप्रवरमकरन्दाप्तये सेव्यती भोः ॥छ॥ अथेदानीं शास्त्रंविधानाध्ययनपर्यवसितफलप्ररूपणपुरस्सरं निक्षेपस्वरूपं प्ररूपयन्नाह श्रुतादर्थमनेकान्तमधिगम्याभिसन्धिभिः। परीक्ष्यतांस्तान्तद्धर्माननेकान् व्यावहारिकान् / / 73 // नयानुगतनिक्षेपैरुपायैर्भेदवेदने / विरचय्यार्थवाक्प्रत्ययात्मभेदान् श्रुतार्पितान् // 74 // (1) व्याख्या-" पुनरपि कथंभूतः ? तपोनिर्जीर्णकर्मा, तपसा यथाख्यातचारित्रलक्षणेन व्युपरतक्रियानिवृत्तिशुक्लध्यानेन निर्जीर्णानि निर्मूलितानि कर्माणि ज्ञानावरणादीनि द्रव्यभावरूपाणि येनासौ तथोक्तः / अनेन चारित्रतपस्याराधनाद्वयं सूचितम् / भूयः किंभूतः ? जीवस्थानगुणस्थानमार्गणास्थानतत्त्ववित् अनेन ज्ञानाराधना ज्ञापिता। पुनः किंविशिष्ट: ? विवृद्धाभिनिवेशनः, विशेषेण वृद्धं क्षायिकस्वरूपेण परिणतमभिनिवेशनं सम्यग्दर्शनं यस्यासौ तथोक्तः / अनेन दर्शनाराधना निरूपिता। एवमाराधनाचतुष्टयस्यैव मोक्षमार्गत्वोपपत्तेः / किं कृत्वा विवृद्धाभिनिवेशन: संजात इत्याशंक्याहअनुयज्य पृष्ट्वा / कानि? द्रव्याणि / किंविशिष्टानि ? जीवादीनि / कैः ? अनुयोगैश्च प्रश्नरेव / कि विशिष्टः? निर्देशादिभिदां गतः। तत्र किमित्यनुयोगे वस्तुस्वरूपकथनं निर्देशः यथा चेतनालक्षणो जीव इति / कस्येत्यनुयोगे स्वस्येत्याधिपत्यकथनं स्वामित्वम् / केनेति प्रश्ने स्वेनेति करणनिरूपणं साधनम् / कस्मिन्नित्यनुयोगे स्वस्मिन्नित्याधारप्रतिपादनमधिकरणम् / कियच्चिरमिति प्रश्ने अनन्त कालमिति कालप्ररूपणं स्थितिः। कतिविध इत्यनुयोगे चैतन्यसामान्यादेकविध इति प्रकारकथनं विधानम / पर्व कृत्वा विरचय्य न्यस्य / कान ? अर्थवाकप्रत्ययात्मभेदान, अर्थश्च वाक च प्रत्ययश्च ते आत्मानः स्वभावा येषां ते च ते भेदाश्च व्यवहारास्तान् / तत्र अर्थात्मानौ भेदौ द्रव्यभावी तयोरर्थधर्मत्वात् / वागात्मको नामव्यवहारः / प्रत्ययात्मकश्च स्थापनाव्यवहार: तस्य संकल्परूपत्वात् / किंविशिष्टांस्तान् ? श्रुतापितान् श्रुतेन अनेकान्तेन विकल्पितान् / कैः? नयानुगतनिक्षेपैः, नयान् द्रव्यपर्यायविषयाननुगता अनुवृत्ता निक्षेपा न्यासास्तैः। किंरूपः ? उपायैः कारणः। क्व ? भेदवेदने मुख्यामुख्यविशेषनिर्णये कारणभेदैरित्यर्थः। आदौ किं कृत्वा? परीक्ष्य विचार्य / कैः परीक्ष्य ? अभिसंधिभिः ज्ञातुरभिप्रायः नयरित्यर्थः। पूर्व किं कृत्वा? अधिगम्य ज्ञात्वा / कमर्थम् ? जीवादिप्रमेयम् / किविशिष्टम् ? अनेकान्तात्मकम् / कस्मात् ? श्रुतात् स्याद्वादात्।"-लघी० ता० पृ० 95-97 / 1-प्रौढमेयप्र-ब। 2-तां नो ब०,-तां भो श्र०। 3-मभिग-ब० / 4-वेदनों आ०, ब० / 5 विचार्यायवाक-थः। 6-भेदाच्छुता-ब०। "