________________ प्रवचनप्र० का० 72 ] . अर्थ-शब्दनयविचारः 767 प्रविभागमाश्रित्य व्युत्पाद्येत ? निरंशानामपि तेषां तत्प्रविभागं परिकल्प्य व्युत्पादने तच्छास्त्रं वितथमेव स्यात् तेत्स्वरूपाऽसंस्पर्शित्वात् इत्यत्राह-'व्यावहारिक' इत्यादि / व्यवहारे व्यवहारनयभेदप्ररूपके वैयाकरणव्यवहारे वा भवा या प्रकृत्यादिप्रक्रिया तस्याः प्रविभागो भेदः तेन परमार्थः वास्तवो यः शब्दः वर्णपदवाक्यरूपः / वर्णो हि उदात्तादिभेदेन भिन्नः व्यवहारे वास्तवः प्रसिद्धः, पदं तु सुप्तिङन्तभेदेन, वाक्यमपि / अन्योन्यापेक्षाणां पदानां निरपेक्षः समुदायः इत्यादिभेदेन इति / यथा च नित्यनिरंशादिरूपाणां वर्णपदवाक्यानामनुपपत्तिः तथा 'वर्णाः पदानि वाक्यानि प्राहुरानवाञ्छितान्' [लघी० का० 64 ] इत्यत्र प्रपश्चतः प्ररूपितम् / तस्य प्राप्त्युपायत्वात् स्वरूपावगतिहेतुत्वात् / 'नहि तद्वयुत्पादकं शास्त्रं वितथम्' इति सम्बन्धः / प्रयोगः-यः परमार्थभूतस्य प्राप्त्युपायो नासौ वितथः यथा ज्ञातुरभिप्रायात्मको नयः, 10 परमार्थभूतस्य शब्दस्य प्राप्त्युपायश्च वर्णपदवाक्यानां व्युत्पादक शास्त्रमिति / तत्र 'ज्ञातुरभिप्रायात्मकनयवत्' इत्यमुं दृष्टान्तं 'यथा' इत्यादिना व्याचष्टे-यथा येन प्रकारेण न मिथ्यात्वमनुभवेत्, कोऽसौ ? नयः ज्ञातुराभिप्रायः / किं कुर्वन् ? प्रकाशयन् , 'किं तत् ? एकान्तम् / कथम्भूतम् ? तदंशम् अनेकान्तात्मकाथैकदेशम् / पुनरपि कथम्भूतम् ? व्यावहारिकम् व्यवहारप्रयोजनम् / पुनरपि किंविशिष्टम् ? 15 तत्प्राप्त्युपायं तस्य अनेकान्तात्मकार्थस्य प्राप्तिः तस्या उपायः सा वा उपायो यस्य / कथं तं प्रकाशयन् ? अपोद्धृत्य पृथक्कृत्य / कस्मात् ? अर्थात् / कथम्भूतात् ? अनेकान्तात्मकात् / किं कल्पनातः तथाविधात्तस्मात् ? इत्यत्राह-पारमार्थिकात् / परमार्थोऽकल्पितं रूपं तेन 'संभवात् / कुतोऽयमित्थम्भूतो न मिथ्यात्वमनुभवेत् ? इत्याह- 'निरपेक्षस्य' इत्यादि / प्रत्यनीकधर्मे निष्क्रान्ता अपेक्षा यस्यासौ निरपेक्षः 20 तस्यैव नोक्तप्रकारस्य मिथ्यात्वात / अथ कस्य निरपेक्षत्वं कस्य च सापेक्षत्वम् ? इत्याह-अनेकान्तनिराकृतेः निरपेक्षत्वं तदनिराकृतेः सापेक्षत्वम् / एवंविधसापेक्षानपेक्षत्वप्रकारेणैव नयानां सम्यक्त्व-मिथ्यात्वे नान्यथा इति स्थितम् / युक्तिस्वच्छजलं सुबोधकमलं सद्भङ्गवीचीचयम् , गम्भीरं निखिलार्थपौलिकलितं सत्साधुहंसाकुलम् / 25 प्रज्ञाधीशपटिष्ठपाठकखगध्वानप्रतानान्वितम् , जीयाद् दुर्गतितीपतृड्विहननं जैनागमाख्यं सरः ॥छ॥ इति प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे षष्ठः परिच्छेदः समाप्तः॥छ। (1) वर्णपदवाक्यानाम् / (2) वर्णपदवाक्यस्वरूपानवगाहनात् / (3) सापेक्षस्य / 1-पते ब०,-येत आ०। 2-रूपत्वासं-श्र०। 3 व्यवहा-श्र० / 4 शब्दप्रा-आ०, 'शब्दस्य' नास्ति श्र०15 "किं तत्' नास्ति श्र० / 6 'कथंभूतं नास्ति श्र०। 7 व्यवहा-श्र018-पायत्वं त-श्र०। 9 'पृषककृत्य नास्ति श्र०, ब०। 10 भावात् श्र०। 11-धर्मो नि-श्र। 12-त्वम् ब०, श्र०। 18 पारिकलि-आ० / 14 तापवृद्धिहननं श्र०,०। 15 इति श्रीमत्प्रभाचन्द्राचार्यवि-ब016 षष्ठमः ब०।