________________ 766 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० तदुक्तलक्षण कालादि कथञ्चिद् वस्तुस्वभावभेदकम् तथाप्रतीतेः प्रतिपत्तव्यम् / ननु 'पर्यायभेदादभिरूढोऽर्थभेदकृत्' इत्ययुक्तमुक्तम् ; पर्यायस्यार्थाऽभेदकत्वात् इत्याशङ्क्याह-'पर्याय' इत्यादि / न केवलं कालादयः किन्तु पर्यायोऽपि 'इन्द्रः, शक्रः, पुरन्दरः' इत्यादिरूपः अर्थस्य शचीपत्यादेः भेदकः कथञ्चिद् वैलक्षण्यापादकः 'तथाप्रतीतेः' इत्यनन्तरेणाभिसम्बन्धात् / यदपि 'क्रियाश्रय एवम्भूतः' इत्युक्तम् ; तत्रापि कुतोऽस्य एकत्रापि पर्याये क्रियाभेदाद् भेदहेतुत्वम् ? इत्यत्राह-'क्रिया' इत्यादि। क्रियाभेदाद् इन्दनादिभेदात् एकोऽपि शब्दः इन्द्रादिपर्यायरूपः क्रियानिमित्तकव्युत्पत्तिः तदभावात् तन्निमित्तकव्युत्पत्तेरभावात् तदर्थम् इन्द्राद्यर्थं नाचष्टे इति हेतोः परमैश्वर्यम् इन्दनक्रियां अनुभवन्नेव इन्द्रः नान्यदा अभिषेचनादिकाले / एवं शकन10 काल एव शक्रः पूरणसमय एव पुरन्दरः नान्यदा 'तथाप्रतीतेः' इति गतेन सम्बन्धः। यतो यक्रियापरिणतः पदार्थः तक्रियानिमत्तव्युत्पत्तिकैः शब्दैः तत्काल एवाभिधीयते नान्यदा / ततः सिद्धः क्रियाभेदो भेदको भावानां पाचकपाठकादिवत् / .. ___ननु क्रियामाश्रित्य शब्दा व्याकरणेन व्युत्पाद्यन्ते, तञ्च मिथ्या इत्येके, वर्णा एव पदमेव वाक्यमेव वा सत्यमित्यन्ये, तन्मतमपाकर्तुमाह-'नहि' इत्यादि / नहि न 15 खलु वर्णपदवाक्यानां व्युत्पादकं शास्त्रं व्याकरणलक्षणं वितथम् परमार्थशब्दप्राप्त्यु पायत्वात् / नहि व्याकरणासत्यत्वे अपशब्दव्युदासेन सम्यक्शब्दप्रतीत्युपायः कश्चित् संभवति / ननु वृद्धव्यवहारपरम्परात एव शब्दाऽपशब्दविवेको भविष्यति अतस्तदर्थं व्याकरणसमाश्रयणमयुक्तम् ; इत्यप्यविचारितरमणीयम् ; व्याकरणानपेक्षाद् वृद्धव्यवहारादेव आनन्येनाऽखिलशब्दानां प्रतिपदं तद्विवेकस्य कर्तुमशक्यत्वात् / व्याकरणाश्रयणेन तु 20 सामान्यविशेषवता लक्षणेन उपलक्षितानां स्वल्पप्रयत्नेनापि तेषां तद्विवेकः कर्तुं सुशकः / तथाहि-“कर्मण्यण" [पाणिनि० 3 / 2 / 1] इत्येकेनैव सूत्रेण कुम्भकार-काण्डलाव-शास्त्राध्यायादयो बहवः शब्दाः संल्लक्ष्यन्ते, अंतः व्याकरणानुगृहीतात् लोकव्यवहारात् सुखेनैव शब्दापशब्दविभागस्य कर्तुं शक्यत्वात् अस्ति व्याकरणस्योपयोगः / न चास्याऽप्रमाणत्वात् तद्विभागे नोपयोगः इत्यभिधातव्यम् ; तदप्रामाण्ये कर्नादिकारकप्रपञ्चस्य सम्प्लवप्रसङ्गात् / न च तत्सम्प्लवः अस्ति। अतः अयमेव तदैसम्प्लवः स्वसिद्धये व्याकरणं प्रमाणयति, अन्यतः तद्व्यवस्थानुपपत्तेः / व्याकरणत एव हि प्रकृतिप्रत्ययविभागद्वारेण अन्योन्यविभक्तस्य कर्मकादिकारकप्रपञ्चस्य प्रतिपत्तियुक्ता नान्यतः, तथाप्रतिपत्तिहेतोस्ततोऽन्यस्याऽसंभवात् / ननु वर्णपदवाक्यानां निरंशत्वात् किं ते प्रकृत्यादि (1) शब्दापशब्दविवेकार्थम् / (2) द्रष्टव्यम्-पृ० 760 टि० 1 / (3) कर्नादिकारकनैयत्यम् / (4) व्याकरणशास्त्रेण / 1व्याचष्टे आ०। 2 नान्यथा श्र०। 3 पावकपाचकपाठकादि-आ०, पावकपाठकादि-ब०। 4-पाठादि-श्र०।-परम्परया त एव श्र०। 6 प्रतिपादं श्र०। 7-विशेषवल्लक्ष-आ०। 8-शास्त्रध्याया-श्र०। 9 ततः श्र०।