________________ प्रवचनप्र० का 0 72 ] अर्थ-शब्दनयनिरूपणम् 765 श्रयः एवम्भूतः / कुत एतत् ? इत्याह-'कुर्वतः' इत्यादि / शचीपतेः इन्दनादि क्रियां कुर्वत एव कारकत्वम् , यदा न करोति तदा कर्तृत्वस्याऽयोगात् इति / परः प्राह'कथम्' इत्यादि। कथम् ? न कथञ्चित् , 'पुनः' इत्याक्षेपे, शब्दज्ञानं शब्दस्य कार्य यदर्थज्ञानं तत् विवक्षाव्यतिरिक्तमर्थं बहिःस्खलक्षणं प्रत्येति विषयीकरोति / सूरिः परं पृच्छति-'कथञ्च न' इति। स पृष्टः प्राह-तदप्रतिबन्धात् / तस्मिन् अर्थे अप्रति- 5 बन्धात् तादात्म्यत्तदुत्पत्तिलक्षणसम्बन्धासंभवात् शब्दज्ञानस्य / तदप्रतिबन्धेऽपि तत् तैमवे(वै)ति इति चेदत्राह-'नहि' इत्यादि। हिर्यस्मात् न बुद्धेः अकारणं किन्तु कारणं विषयः इत्येतत् प्रतिव्यूढम् / कुत एतत् ? इत्यत्राह-विज्ञानस्य अनागतनिर्णयात् / अनागतस्य अलब्धात्मलाभतया अकारणभूतस्य अर्थस्य निर्णयात निर्णयसंभवात् / तथाहि-कृत्तिकोदयदर्शने शकटोदयो भविष्यति बुद्धिरविसंवादिनी, एवम् आदित्यः 10 श्व उदेता, सूर्याचन्द्रमसोग्रहणं भविष्यति, तन्तवः पटो भविष्यन्ति, मृत्पिण्डो घटो भविष्यति, तन्दुलाः भविष्यन्त्योदनः, ब्रीहयः तन्दुला भविष्यन्ति इत्याद्यनागतविषयाणामविसंवादिनां ज्ञानानामानन्त्यात / 'ततः' इत्यादिना प्रकृतमर्थमुपसंहरन्नाह-यतः अनागतविषयत्वं ज्ञानस्य सिद्धं ततः शब्दज्ञानमपि न केवलं प्रत्यक्षानुमानज्ञानम् विवक्षाव्यतिरिक्तार्थग्राहि सिद्धम् / ननु शब्दस्य अर्थप्रतिबन्धाभावात् 18 कथं तज्ज्ञानम् अर्थग्राहि ? इत्यत्राह-'प्रतिबन्ध' इत्यादि / प्रतिबन्धमन्तरेणापि तादात्म्यतदुत्पत्तिसम्बन्धं विनापि तस्य शब्दस्य यत् प्रतिपादकं स्वाभाव्यं योग्यतालक्षणं स्वरूपं तस्मात् तत् तद्राहि सिद्धम् / अत्र दृष्टान्तमाह-'विज्ञानवत्' इति / शब्दज्ञानस्य दान्तिकत्वात् इह विज्ञानग्रहणेन यत् प्राग् अर्थाजन्यतया समर्थितं प्रत्यक्षं तदेव गृह्यते, तदिव तद्वदिति / ननु कालादिभेदात् शब्दनयस्य अर्थभेदकत्वं प्रतिपादितम् , कालादीनां तु लक्षणं नोक्तम् , नचालक्षितरूपाणाम् अर्थभेदप्रतीतिहेतुत्वं युक्तम् अतिप्रसङ्गात् इत्याशङ्कय तेषां लक्षणं प्ररूपयन्नाह-'वर्तना' इत्यादि / सकलपदार्थानां वृत्तिहेतुत्वं वर्तना सा लक्षणं यस्य असौ तल्लक्षणः कालः / क्रियया आविष्टं युक्तं द्रव्यं कारकम् , क्रियां कुर्व व्यं कारकमित्यर्थः। लिङ्ग त्रिविधम् स्त्रीपुंनपुंसकभेदात् / तत्र स्त्यान- 25 सामान्यलक्षणं स्त्रीलिङ्गम् / प्रसवसामान्यलक्षणम् अपत्यजनकत्वमात्रलक्षणं पुल्लिंगम् / तभयाभावसामान्यलक्षणं स्त्यानप्रसवोभयाभावमात्रलक्षणं नपुंसकलिङ्गमिति। तदे (1) सौगतः / (2) शब्दज्ञानम् / (3) अर्थम् / (4) शब्दज्ञानम् / (5) शब्दज्ञानम् / 1 तत्तत्त्वमवेति ब०, तत्तत्रमद्येवेति श्र०12 "किन्तु कारणं' नास्ति श्र०। 3 शकटोवये भविआ०, शकटोदये च भवि-श्र०। 4 अर्थे प्रति-ब०, श्र०। 'प्रत्यक्ष' नास्ति श्र०। 6 न चालक्षणलक्षितरूपा-ब०। 7 अर्थे भद-ब०। 8 क्रियाया अविशिष्टं श्र० / 9-क्षणं स्त्यानप्रसवोभयाभाव• सामान्यलक्षणं स्त्यानप्रस-आ०। - 20