________________ 764 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० प्यति, करोति क्रियते, देवदत्तो देवदत्ता इति / पर्यायभेदाद् अभिरूढोऽर्थभेदकृत इन्द्रः शक्रः पुरन्दर इति / क्रियाश्रयः एवम्भूतः / कुवेत एव कारकत्वम् / यदा न करोति तदा कर्तृत्वस्य अयोगात् इति / कथं पुनः शब्दज्ञानं विवक्षाव्यतिरिक्तमर्थ प्रत्येति ? कथं च न ? तदप्रतिबन्धात् / 'नहि बुद्धेरकारणं विषयः' इत्येतत् प्रतिव्यूढमः विज्ञानस्य अनागतनिर्णयात् / कृत्तिकोदयदर्शने शकटोदयो भविष्यति बुद्धिरविसंवादिनी, आदित्यः श्व उदेता, सूर्याचन्द्रमसोः ग्रहणं भविष्यति, तन्तवः पटो भविष्यन्ति, मृत्पिण्डो घटो भविष्यति, तन्दुला भविष्यन्त्योदनम्, ब्रीहयः तन्दुला भविष्यन्ति, इत्याद्यनागतविषयाणाम् अविसंवादिनाम् आनन्त्यात् / ततः शब्दज्ञानमपि विवक्षाव्यतिरिक्तार्थग्राहि सिद्धं प्रतिबन्धमन्तरेणापि तत्प्रति10 पादनस्वाभाव्यात् विज्ञानवदिति / वर्तनालक्षणः कालः, क्रियाविष्टं द्रव्यं कारकम्, स्त्यान-प्रसव-तदुभयाभावसामान्यलक्षणं लिङ्गम्, कथञ्चिद् वस्तुस्वभावभेदकं तथाप्रतीतेः। पर्यायोऽपि अर्थभेदकृत् / क्रियाभेदात् एकोऽपि शब्दः क्रियानिमित्तकव्युत्पत्तिः तदभावात् तदर्थ नाचष्टे इति परमैश्वर्यमनुभवन्नेव इन्द्रः नान्यदा, ततः सिद्धः क्रियाभेदः पाचकपाठकादिवत् / नहि वर्णपदवाक्यानां व्युत्पादकं शास्त्रं 15 वितथम् परमार्थशब्दप्राप्त्युपायकृत् ज्ञातुरभिप्रायात्मकनयवत् / व्यावहारिकप्रकृ त्यादिप्रक्रियाप्रविभागेन यथा पारमार्थिकादनेकान्तात्मकादादपोद्धृत्य तदंशमेकान्तं व्यावहारिकं तत्प्रतिपच्युपायं प्रकाशयन् नयः न मिथ्यात्वमनुभवेत्, निरपेक्षस्यैव मिथ्यात्वात् / अनेकान्तनिराकृतेः निरपेक्षत्वम् तदनिराकृतेः सापेक्षत्वं नान्यथा नयानां सम्यक्त्वमिथ्यात्वे इति स्थितम् / / _ चत्वार एते नैगम-संग्रह-व्यवहार-ऋजुसूत्राख्या व्याख्यातस्वरूपा हि स्फुटम् अर्थनया एव अर्थप्रधाननया अर्थनयाः। कुतः ? इत्याहकारिकार्थ: या जीवाद्यर्थव्यपाश्रयात् जीवाद्यर्थसमाश्रयणात् / त्रयः शब्दसमभिरूढवम्भूताः शब्दनयाः शब्दप्रधाना नयाः शब्दनयाः। कुतस्ते तथाविधाः ? इत्याह-'सत्य' इत्यादि / सत्यानि अवितथानि अपशब्दस्वरूपरहितानि यानि 25 पदानि कालकारकादिभेदवाचीनि तेषां विद्या व्याकरणं यत्र तानि व्युत्पाद्यन्ते तां समाश्रिताः यतः ततः ते शब्दप्रधानाः / . कारिकापूर्वार्द्धस्य अनन्तरमेव व्याख्यातत्वात् उत्तरार्द्धं विवृण्वन्नाह-'काल' _इत्यादि / शब्दः शब्दनयः अर्थभेदकृत् / कुतः ? कालकारकविवृतिव्याख्यानम् या लिङ्गभेदात् / 'यथा' इत्यादिना एतदेव दर्शयति / तत्र कालभेदाद् 30 अभूत् भवति भविष्यति / कारकभेदात् करोति क्रियते / लिङ्गभेदात् देवदत्तो देवदत्ता इति / पर्यायभेदादभिरूढोऽर्थभेदकृत इन्द्रः शक्रः पुरन्दर इति.। क्रिया 1-प्रतिभागेन ज० वि० / 2 'जीवाद्यर्थसमाश्रयणात्' नास्ति थ018 'शब्दनया' नास्ति आ०।