________________ प्रवचनप्र० का 0 72 ] अर्थ-शब्दनयनिरूपणम् 763 विधं प्रत्ययं दर्शयन्ति तद्वत संवित्परमाणवोऽपि, कथम्भूतम् ? चित्राकारम, नीलादिग्राह्याद्यनेकाकारमेकम् अत एव अभूतम् / उपसंहारमाह-'ततः' इत्यादि / यस्मादेकाकारप्रत्ययस्य अपरमार्थविषयत्वं ततो नैकमभिन्नस्वभावं तत्वं जीवादिवस्तु अक्रम युगपद् अनेकरूपम् 'युक्तम्' इत्युपस्कारः। यत् सक्रम क्रमवत् सुखादिभेदभिन्नम् आत्मानं साधयेत् / 'यत्' इत्याक्षेपे वा नैव साधयेत् / कुत एतत् ? इत्यत्राह-'भेदस्य' / इत्यादि। भेदस्य नानात्वस्य अभेदेन एकत्वेन विरोधात्। विपक्षे बाधकमाह-'अन्यथा' इत्यादि / अन्यथा अन्येन तदविरोधप्रकारेण क्वचिद् घटपटादौ नानात्वमेव न स्यात् इति / अस्याभिसन्धेर्नयत्वं दुर्नयत्वञ्च दर्शयन्नाह-'सापेक्ष' इत्यादि / सह प्रत्यनीकधर्मापेक्षया वर्त्तते इति सापेक्षः नयः। अपेक्षातो निष्क्रान्तः निरस्ता वा अपेक्षा येनासौ निरपेक्षः दुर्नयः। ननु प्रमाणाभावेन अभेदस्य कचिदनुपपत्तेः कथं 10 तदपेक्षो नयः स्यात् ? इत्यत्राह-'प्रतिभास' इत्यादि / प्रतिभासस्य प्रत्यक्षादिसंवेदनाकारस्य भेदात स्वभावभेदं चेतनेतरस्वरूपनानात्वं व्यवस्थापयन् सौगतः तदभेदात् प्रतिभासाभेदात् अभेदं प्रतिपद्यत एव विशेषाभावात्। एतच्च 'अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः' [लघी० का०८] इत्यत्र सप्रपञ्चं प्रपश्चितम्। अत्रैवार्थे समर्थनान्तरमाह-'तद्' इत्यादि / तयोःभेदाभेदयोर्मध्ये अन्यतरस्य भेदस्य अभेदस्य वा अपाये 15 अर्थस्य उत्तरकार्यस्य संवेदनस्यं वाऽनुपपत्तेः, सापेक्षो नयः निरपेक्षो दुर्नय इति / अथ सप्तनयेषु मध्ये के अर्थप्रधानाः के च शब्दप्रधानाः ? इत्याह.... चत्वारोऽर्थनया ह्येते जीवाद्यर्थव्यपाश्रयात् / त्रयः शब्दनयाः सत्यपदविद्यां समाश्रिताः // 72 // विवृतिः-कालकारकलिङ्गभेदात् शब्दः अर्थभेदकृत् अभूत् भवति भवि- 20 (1) व्याख्या-"एते / के ? नैगमादयः प्रागुक्ताः चत्वारोऽर्थनयाः अर्थप्रधाना नयाः / कुतः ? जीवाद्यर्थव्यपाश्रयात्, जीवाजीवादीनामर्थानां व्यपाश्रयाद् आलम्बनात्। त्रयः शेषाः शब्दसमभिरूढवम्भताः शब्दनयाः शब्दप्रधाना नयाः। कि विशिष्टा:? सत्यपदविद्यां समाश्रिताः, सत्यानि प्रमाणान्तराबाधितानि पदानि कालकारकादिभेदवाचीनि तेषां विद्या व्याकरणशास्त्रं तामाश्रिता आलंबिताः व्याकरणाश्रितत्वादित्यर्थः ।"-लघी० ता०पू०९२। तुलना-"चत्वारोऽर्थाश्रयाः शेषास्त्रयं शब्दतः।" -सिद्धिवि०, टी० पृ० 517 B. / "तत्र संग्रहव्यवहारर्जुसूत्राः अर्थनयाः शेषाः शब्दनयाः"-राजवा० पृ० 186 / “अत्थप्पवरं सद्दोवसज्जणं वत्थुमुज्जुसुत्तंता। सहप्पहाणमत्थोवसज्जणं सेसया विति ।"विशेषा० गा० 2753 / “तत्रर्जुसूत्रपर्यन्ताश्चत्त्वारोऽर्थनया मताः। त्रयः शब्दनयाः शेषाः शब्दवाच्यार्थगोचराः॥"-तत्त्वार्थश्लो० पृ० 274 / नयविव० पृ० 262 / “एषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः शेषास्तु त्रयः शब्दवाच्यगोचरतया शब्दनयाः।"-प्रमाणनय०७४४.४५। जैनतर्कभा० प. 23 / नयप्रदीप पृ०१०४ B. / उद्धृतोऽयम्-'जीवाद्यर्थविनिश्चयात् ।"-आव०नि० मलय०५० 381 B. / सूत्रकृतांग० टी० पृ० 426 A. / 1-विधप्रत्य-श्र०. ब० / 2 भेदनात श्र० / 3 व्यवस्थापयेत् सौ--आ। 4 'प्रतिभासाभेदात' नास्ति श्र० / 5-स्य चानुप-आ० / 6-विन्यासमाधि-ज० वि० /