________________ 762 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० हेतोः श्रुतज्ञानस्य 'प्रामाण्यम्' इति सम्बन्धः। व्यवहारदुनयं दर्शयन्नाह-'बहिरर्थ' इत्यादि / बहिरर्थश्च विज्ञप्तिमात्रश्च ताभ्यां शून्यं तत्प्रतिपादकवचसां दुर्नयत्वम् / बहिरर्थशून्यवचसां विज्ञप्तिमात्राद्यद्वैतप्रतिपादकवचसां तन्मात्रशून्यवचसां सकल शून्यताप्रतिपादकवचसामिति / कुतः तेषां दुर्नयत्वम् ? इत्यत्राह-'व्यवहारविरोधि5 त्वात्' इति / नहि तद्वचस्सु इष्टानिष्टप्राप्तिपरिहारादिलक्षणव्यवहारस्य अविरोधो युक्तः प्रमाणप्रमेयसद्भावे सत्येव अस्याऽविरोधात् / ऋजुसूत्रनयं दर्शयन्नाह 'भेदं प्राधान्यतोऽन्विच्छन् ऋजुसूत्रनयो मतः। सर्वथैकत्वविक्षेपी तदाभासस्त्वलौकिकः // 71 // विवृतिः-बहिरणवः संचिताः स्थूलमेकाकारप्रत्ययमभृतं यथा दर्शयन्ति 10 तद्वत् संवित्परमाणवोऽपि चित्राकारमेकम् / ततो नैकमनेकरूपं तत्त्वमक्रमं यत् सक्रमं साधयेत् भेदस्याभेदविरोधात् , अन्यथा क्वचिन्नानात्मेव न स्यात् / सापेक्षो नयः निरपेक्षो दुनयः / प्रतिभासभेदात् स्वभावभेदं व्यवस्थापयन् तदभेदादभेदं प्रतिपद्यत एव विशेषाभावात् , तदन्यतरापाये अर्थस्याऽनुपपत्तेः / __ सर्वस्य सर्वतो भेदं प्राधान्यतोऽन्विच्छन् ऋजु प्राञ्जलं वर्तमानपर्याय____ मात्रं सूत्रयति प्ररूपयति इति ऋजुसूत्रः नयो मतः। प्रधान शब्दस्य च सम्बन्धिशब्दत्वात् द्रव्यं तस्य अप्रधानम् / तदाभासमाह'सर्वथा' इत्यादि / सर्वथा गुणप्रधानभावाभावप्रकारेण एकत्वविक्षेपी एकत्वनिराकारकः तदाभासः ऋजुसूत्राभासः / तुः यस्मादर्थे, यस्मादलौकिकः लोक व्यवहारातिक्रान्तोऽयमीदृशो भेदाभ्युपगमः / न खलु सर्वथैकत्वप्रतिक्षेपेण स्थासकोश20 कुशूलादौ बालकुमारादौ वा भेदव्यवहारो लोके प्रसिद्धः / / कारिकां विवृण्वन्नाह–'बहिः' इत्यादि। बहिरणवः दर्शयन्ति जनयन्ति स्थूलमे काकारप्रत्ययम्, किंविशिष्टम् ? अभूतम् अपरमार्थविषयम् / कथम्भू - तास्ते ? सञ्चिताः पुञ्जीभूताः। एवंविधास्ते यथा येन प्रकारेण तथा . (1) व्यवहारस्य / (2) "प्राधान्यतः मुख्यत्वेन, अनेन गौणत्वेन द्रव्यमप्यपेक्षत इत्यर्थः / तु पुनस्तदाभासो भवति / किं विशिष्ट: ? एकत्वविक्षेपी, एकत्वं द्रव्यं विक्षिपति निराकरोत्येवंशील एकत्वविक्षेपी। कथम् ? सर्वथा प्राधान्यतोऽप्राधान्यतश्च, पुन: किं विशिष्ट: ? अलौकिकः लोको व्यवहारस्तत्प्रयोजनो लौकिक: तद्विपर्ययोऽलौकिक: अलौकिकादित्यर्थः / न हि परस्परं सजातीयविजातीयव्यावृत्ताः प्रतिक्षणविशरारवः परमाणवो व्यवह्रियन्ते परीक्षकः यतस्तिद्वषयो नयाभासो न स्यात् ।"-लघी० ता० पृ० 91 / (3) सौगतमते पुजीभूता: परमाणव एव स्थूलाकारप्रत्यहेतवः; तथाहि-"अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे। उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः॥" -प्रमाणवा० 3.195 / (4) "ऋजु प्रगुणं सूत्रयति तन्त्रयत इति ऋजुसूत्रः ।"-सर्वार्थसि०, राजवा० 1133 / (5) सर्वथा क्षणिकत्वस्वीकारः / 1-स्य सम्ब-आ० / 2 'जनयन्ति' नास्ति श्र० / कारिकार्थः