________________ 10 प्रवचनप्र० का० 70] व्यवहारनयनिरूपणम् 761 अन्यथा संशयविपर्यासस्वमज्ञानादीनामपि प्रामाण्यमनिवार्य स्यात् / प्रत्यक्षं सविकल्पकं प्रमाण व्यवहाराविसंवादात् / उत्पादविगमध्रौव्यलणं सत् गुणपर्ययवद्रव्यम् जीवश्चैतन्यस्वभावः इत्यादि श्रुतज्ञानस्य प्रमाणान्तराबाधन-पूर्वापराविरोधलक्षणसंवादसंभवात् प्रामाण्यम् , अर्थाभिधानप्रत्ययात्मकव्यवहारानुकूल्याच्च / बहिरर्थविज्ञप्तिमात्रशून्यवचसा व्यवहारविरोधित्वात् दुर्नयत्वम् / / प्रमाणानाम् अध्यक्षादीनां या प्रमाणता सौगतादिभिरिष्यते सा व्यव हारानुकूल्यादेव उपपन्ना नान्यथा, अन्यथा व्यवहारप्रातिकारिकार्थः * कूल्यप्रकारेण न, कुत एतत् ? इत्यत्राह-'बाध्यमान' इत्यादि / बाध्यमानानां व्यवहारानधिरूढप्रातीतिकद्विचन्द्रसकलशून्यताद्यर्थविषयज्ञानानां तत्प्रसङ्गतः प्रमाणताप्रसङ्गतः। कारिका व्याख्यातुमाह-'प्रमाणानाम्' इत्यादि / प्रमाणानां प्रत्यक्षादीनां विवृतिव्याख्यानम् _ प्रामाण्यम् अमिथ्यात्वम् इष्टानिष्टप्राप्तिपरिहारलक्षणव्यवहारावि संवादात् , इत्येतत् आकुमारम् आबालं प्रसिद्धम् / अन्यथा व्यवहाराविसंवादाभावप्रकारेण तत्प्रामाण्ये संशयविपर्यासस्वप्नज्ञानादीनामपि प्रामाण्यमनिवार्य स्यात् / तेदविसंवादाच्च तत्प्रामाण्ये यत् परेषा निर्विकल्पकं प्रत्यक्षं तद- 15 प्रमाणं व्यवहाराविसंवादाभावात् इति मन्यमानः प्राह:-'प्रत्यक्षम्' इत्यादि / प्रत्यक्ष सविकल्पकम् प्रमाणं 'स्यात्' इत्यनेन सम्बन्धः / कुत एतत् ? इत्यत्राह-व्यवहाराविसंवादात् / न पुनः निर्विकल्पकं तद्विपर्ययात् इति भावः / साम्प्रतं श्रुतस्य तत एव प्रामाण्यं दर्शयन्नाह-'उत्पाद' इत्यादि / उत्पादविगमध्रौव्याणि लक्षणं स्वरूपं यस्य तदेतल्लक्षणं जीवादिवस्तु सद् भवति, गुणपर्ययवद्रव्यं जीवश्चैतन्यस्वभावः 20 इत्येवमादिश्रुतज्ञानस्य अस्पष्टतर्कणस्य 'प्रामाण्यं स्यात्' इति गतेन सम्बन्धः / कुत एतत् ? इत्यत्राह-'प्रमाणान्तर' इत्यादि / श्रुतात् अन्यत् प्रत्यक्षादि प्रमाणान्तर तेन अबाधनञ्च पूर्वापरयोः श्रुतवाक्ययोः अविरोधश्च लक्षणं यस्य संवादस्य तस्य तत्र संभवात् / अत्रैवार्थे हेत्वन्तरमाह-'अर्थ' इत्यादि / अर्थो जीवादिः अभिधानं जीवादिशब्दः प्रत्ययः तद्विषयो ज्ञानं ते आत्मा यस्य व्यवहारस्य तस्यानुकूल्याच्च 25 (1) तुलना-"त्रयः पदार्थाः अर्थाभिधानप्रत्ययभेदात्"-राजवा०पृ०१७ / अष्टसह०प०२५१ / (2) व्यवहाराविसंवादात्। (3) सौगतानाम् / (4) द्रष्टव्यम्-पृ० 605 टि०७। (5) तुलना"गुणाणमासओ दव्वं एकदव्वस्सिआ गुणा / लक्खणं पज्जवाणं तु उभओ अस्सिआ भवे ॥"-उत्तरा० 28 / 6 / "दव्वं सल्लक्खणियं उप्पादब्वयधुवत्तसंजुत्तं / गुगपज्जयासयं वा जं तं भण्णन्ति सव्वण्हू ॥"पंचास्तिगा०१०। “गुणपर्ययवद्रव्यम्"-तत्त्वार्थसू०५।३८न्यायवि० का०१११। "तं परियाण हु दब्बु तुहुँ जं गुणपज्जयजुत्तु / सहभुव जाणहि ताहँ गुण कमभुव पज्जउ उत्तु ॥"-परमात्मप्र गा०५७। 1 श्रतज्ञानेन ज० वि०। 2-मात्रे शून्य-ज० वि०। 3 'अन्यथा' नास्ति आ०, ब० / 4-मारबालं श्र० / 5 इत्याह ब०, श्र०। 6 संवादस्य तत्र आ०, व०।