________________ 760 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० सदभेदात् समस्तैक्यसंग्रहात् संग्रहो नयः। दुर्नयो ब्रह्मवादः स्यात् तत्स्वरूपानवाप्तितः // 69 // विवृतिः -सर्वमेकं सदविशेषात् इति संग्रहो नयः। तदाभासो ब्रह्मवादः तदभ्युपगमोपायाभावात् / नापि तस्योपेयत्वं खरविषाणवत् / समस्तस्य जीवाजीवविशेषप्रपञ्चस्य ऐक्येन संग्रहात् कारणात् संग्रहो नयः 'प्रवर्त्तते' इत्युपस्कारः। कुतः समस्तैक्यसंग्रहः इत्याह-सदभेकारिकार्थः दात् / ब्रह्मवादोऽपि सदभेदमाश्रित्य समस्तैक्यं संगृह्णाति इति सोऽपि संग्रहः स्यादित्यत्राह-'दुर्नय' इत्यादि / दुर्नयः संग्रहाभासो ब्रह्मवादः स्यात् / कुत एतत् ? इत्यत्राह-'तद्' इत्यादि / तस्य ब्रह्मणः यत्स्वरूपं 10 निराकृतसकलभेदप्रपञ्चं सत्तामात्रं तस्य अनवाप्तितः प्राप्तेरभावात् / / ___ कारिकां विवृण्वन्नाह-'सर्वम्' इत्यादि सर्व चेतनाचेतनरूपं वस्तुजातम् एकं विवृतिव्याख्यानम् ___ सदविशेषात् इति एवं संग्रहनयः प्रवर्त्तते / तदाभासः संग्रहाभासः - ब्रह्मवादः। कुत एतत् ? इत्यात्राह-'तत्' इत्यादि / तदभ्युपगमस्य ब्रह्मवादस्वीकारस्य उपायाभावात् प्रमाणाभावात् / प्रमाणमूलो हि अभ्युपगमः सत्यः is इत्यभिप्रायः / दोषान्तरमाह-'नापि' इत्यादि / नापि तस्य ब्रह्मणः उपेयत्वं स्वीकरणीयत्वम् 'उपायाभावात्' इत्यभिसम्बन्धः / यस्य उपायामावो न तदुपेयम् यथा खरविषाणम्, उपायाभावश्च ब्रह्मणः इति / यथा चास्य न कश्चिदुपायो घटते तथा ब्रह्माद्वैतनिषेधावसरे व्यासतः चिन्तितम् / व्यवहारनयं दर्शयन्नाहव्यवहारानुकूल्यात्तु प्रमाणानां प्रमाणता। नान्यथा बाध्यमानानां ज्ञानानां तत्प्रसङ्गतः // 7 // विवृतिः-प्रमाणानां प्रामाण्यं व्यवहाराविसंवादात् इति आकुमारं प्रसिद्धम् , (1) व्याख्या-"..."समस्तस्य जीवाजीवविशेषस्य ऐक्येन ऐकत्वेन संग्रहात् संक्षिप्य ग्रहणात् / कथमनेकस्य संक्षेपणमित्याशङ क्याह-सदभेदात्, सत् सत्वसामान्यं सच्चासावभेदश्च तमाश्रित्य / नहि सत्त्वात् किञ्चिद् भिन्नमस्तीति वक्तुं युक्तं विरोधात् / दुर्नयः संग्रहाभासः स्यात् / कः ? ब्रह्मवादः सत्ताद्वैतम् / कूतः? तत्स्वरूपानवाप्तितः, तस्य परपरिकल्पितब्रह्मणः स्वरूपं भेदप्रपञ्चशन्यं सन्मानं तस्यानवाप्तिः प्रमाणादप्राप्तिस्ततः, न खलु तत् प्रत्यक्षादिप्रमाणात् प्राप्यते तथाप्रतीतेः।"-लघी० ता० पृ० 90 / (2) पृ० 150 / (3) "व्यवहारानुकूल्यात्तु, संग्रहभेदको व्यवहारः तस्यानुकूल्यमविसंवादः तस्मादेव / बाध्यमानानां संशयादीनां विसंवादिनां ज्ञानानाम् / तत्र प्रमाणेतरव्यवस्थानिबन्धनत्वात् व्यवहारो नयः, अन्यथा तदाभास इत्यर्थः।"-लघी० ता० पृ० 91 / उद्धृतोऽयम्-"व्यवहारानुकूल्येन प्रमाणानां प्रमाणता। नान्यथा बाध्यमानानां तेषाञ्च तत्प्रसङ्गतः।"-तत्त्वार्थश्लो०१०२७१। तुलना"प्रामाण्यं व्यवहारेण"."-प्रमाणवा० 3 / 5 / 1 तस्यौपेयत्वं ज० वि० 12 एकेन आ०, ब०। 8-वित्याह श्र०। 20