________________ प्रवचनप्र० का०६८] नैगमनयनिरूपणम् 786 विवृतिः-जीवः सन्नमूर्तः कर्ता सूक्ष्मो ज्ञाता द्रष्टाऽसंख्यातप्रदेशो भोक्ता परिणामी नित्यः पृथिव्यादिभूतविलक्षणः इति प्रधानवृत्त्या जीवस्वत्तत्त्वनिरूपणायां गुणीभूताः सुखादयः / सुखादिस्वरूपनिरूपणायां वा आत्मा। तदत्यन्तभेदाभिसन्धिः नैगमाभासः / गुणगुणिनाम् अवयव्यवयवानां क्रियाकारकाणां जातितद्वतां चेत्यादि तादात्म्यमविवक्षित्वा गुणगुणिनोः धर्मिधर्मयोर्वा गुणप्रधान- 5 भावेन विवक्षा नैगमे, संग्रहादौ एकविवक्षेति भेदः। गुणप्रधानभावेन मुख्यामुख्यरूपना धर्मयोः एकस्मिन् धर्मिणि विवक्षा कारिकाव्याख्या____ * प्रतिपत्तुरभिसन्धिः नैगमः स कथं प्रधानभूतोभयधर्मस्वभावधर्मि विषयप्रमाणरूपतां प्रतिपद्येत ? तदाभासमाह-अत्यन्तभेदोक्तिः 'धर्मयोः एकधर्मिणि' इति सम्बन्धः, स्यात् तदाकृतिः नैगमाभासो भवेत् / 10 कारिकां विवृण्वन्नाह-जीवः सन्नमूर्तः सूक्ष्मो ज्ञाता द्रष्टा कर्ताऽसंख्यातप्रदेशी विवृतिव्याख्यानम्___. भोक्ता परिणामी नित्यः पृथिव्यादिभूतविलक्षणः एवं प्रधानवृत्त्या - जीवस्वतत्त्वनिरूपणायां जीवस्वरूपप्ररूपणायां क्रियमाणायां गुणीभूताः सुखादयो धर्माः / ओह्रादनाकारं सुखं तद्विपरीतस्वरूपं दुःखं स्वार्थग्रहणस्वभावं ज्ञानम् इत्येवं मुख्यतः सुखादिस्वरूपनिरूपणायां वा आत्मा ‘गुणीभूतः' इति 15 सम्बन्धः / नैगमाभासं प्ररूपयन्नाह-'तद्' इत्यादि / तयोः सुखाद्यात्मनोः अत्यन्तभेदाभिसन्धिः नैगमाभासः। उदाहरणमाह-गुणगुणिनाम् अवयवावयविनां जातितद्वतां चेत्यादि / “अत्यन्तभेदाभिसन्धि गमाभासः' इति सम्बन्धः / अनेन कापिलीयोऽपि चैतन्यसुखाद्योरत्यन्तभेदाभिसन्धिः चिन्तितः। कुतोऽसौ नैगमाभासः ? इत्यत्राह-'तादात्म्यम्' इत्यादि / यतोऽसौ धर्मधर्मिणोस्तदात्म्यं सदपि अविवक्षित्वा 20 स्वदुरागमवासनाविपर्यासितमतेः प्रतिपत्तुः प्रवर्तते ततोऽसौ नैगमाभासः इति / धर्मर्मिणोः इत्युपलक्षणार्थमेतत् , तेन अवयवावय विनोः क्रियाकारकयोः जातितद्वतोश्च ग्रहणम् / धर्मयोर्वा गुणप्रधानभावेन विवक्षा नैगमे यतः ततोऽत्यन्तभेदविवक्षा तदाभास इत्यभिप्रायः / संग्रहादेरतः कुतो भेदः ? इत्यत्राह-'संग्रह' इत्यादि / संग्रहः आदिर्यस्य व्यवहारादेः स तथोक्तः तत्र एकस्य गुणादेः गुण्यादेर्वा विवक्षा इति 25 हेतोः भेदः नैगमात् संग्रहादेः इति / तत्र संग्रहस्वरूपं सप्रतिपक्षं दर्शयन्नाह (1) विषयं यत्प्रमाणं तद्रूपताम् / (2) 'सुखमालादनाकारं विज्ञानं मेयबोधनम्"-न्यायवि० / द्रष्टव्यम्-अकलङ्कप्र० परि० पृ० 58 / ___1-णामं ज० वि० / 2-भतावि-ज० वि०। 3 निगमे ज० वि०। 4-भिसम्बन्धिः आ० / 5-पद्यते आ०, श्र०। 6 चात्मा ब०। 7-सम्बन्धिः श्रः। 8 वेत्यादि आ० / 9 नैगमो यतः ब०, श्र०।