________________ 788 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० जीवादयः सत्ताम् 'अत्यन्तं न भिन्दन्ति' इति सम्बन्धः / असद्भेदप्रसङ्गात् इत्युक्तप्रायं 'जीवाजीवप्रभेदा यदन्तीनाः' [लघी० का० 31] इत्यत्र, नेह पुनरुच्यते / नर्नु जीवादिद्रव्यस्य सत्तादिसामान्यस्य वा कस्यचिदसंभवात् 'निश्चयनया देको जीवः' इत्याद्ययुक्तम् , तत्संभवे च अवस्थादिभेदेन विरुद्धधर्माध्यासतः प्रतिक्षणं 5 भेदप्रसङ्गान्न तदेकत्वम् इत्याशङ्क्याह-'भेद' इत्यादि। ये विरुद्धधर्माध्यासतः सर्वथा वस्तुनो भेदं वदन्ति सौगताः तेऽपि कथं नैव निराकुर्युः ? किं तत् ? ज्ञानम् , कथम्भूतम् ? एकम् / किं कुर्वत् ? स्वयम् आत्मनोऽनेकाकारं नीलपीतादिविचित्राकारं ग्राह्य ग्राहकाकारविविक्तेतररूपतया प्रत्यक्षपरोक्षाकारं वा आत्मसात्कुर्वत् / कदा 1 एकस्मिन् क्षणे / तन्निराकरणे सकलशून्यता स्यात् / सा च प्रत्यक्षपरिच्छेदे प्रपञ्चतः प्रतिक्षिप्ता 10 इत्यलं पुनः प्रसङ्गेन / ततो यथा विरुद्धधर्माध्यासेऽपि एकमेकदा ज्ञानमविरुद्धं तथा क्रमेण जीवादिद्रव्यमपि इति / ___ उतार्थोपसंहारमाह-'तत' इत्यादि / यत उक्तप्रकारेण जीवादि सुखादिपर्यायात्मकं व्यवस्थितं ततः तीर्थकरस्य भवावतोऽर्हतो वचनं स्याद्वादप्रवचनं तस्य विषय भूताः, श्रुतभेदत्वात् नयानाम् , ये सङ्ग्रहविशेषाः सङ्ग्रहश्च विशेषाश्च व्यवहारादिनय15 भेदाः तेषा प्रस्तारस्य प्रपञ्चप्ररूपणस्य मूलव्याकारिणौ आद्यौ उत्पादकौ निश्चेतव्यौ / कौ ? इत्याह-द्रव्यार्थिक-पर्यायार्थिको / अन्यः कुतो नेति चेत् ? अत्राह-'नहि' इत्यादि / हिर्यस्मात् न तृतीयं प्रकारान्तरं नयान्तरमस्ति / कुत एतत् ? इत्यत्राह'तस्य' इत्यादि / तस्य तदन्तरस्य प्रमाणे एव न नये अन्तर्भावात् 'न तदस्ति' इति सम्बन्धः / प्रधानभूतान्योन्यात्मकसामान्यविशेषविषयाभिसन्धेः प्रमाणत्वात् / 20 नैगमोऽपि तर्हि प्रमाणं स्यात् इति चेदत्राह-'न' इत्यादि / न प्रमाणता, कस्य ? नैगमस्य / कुत एतत् ? इत्याह-'तादात्म्य' इत्यादि / तादात्म्येन प्रमाणस्वभावत्वेन विवक्षायाः अभावात् , नयत्वेन विवक्षासद्भावात् इत्यर्थः / एतदपि कुतः इत्यत्राह गुणप्रधानभावेन धर्मयोरेकधर्मिणि।। विवक्षा नैगमोऽत्यन्तभेदोक्तिः स्यात्तदाकृतिः // 8 // (1) असंश्चासौ भेदः विशेषः तस्य प्रसङ्गात् असद्रूपत्वप्रसङ्गादित्यर्थः / (2) सौगतः / (3) चित्रज्ञानम्, ग्राह्यग्राहकाद्यनेकाकारं संवेदनम् ग्राह्याद्याकारराहित्य-संवेदनापेक्षया प्रत्यक्षपरोक्षात्मक संवेदनं वा। (4) सकलशून्यता। (5) पृ० 133 / (6) सुखाद्यनेकाकारम् / (7) अभिप्रायवतो ज्ञानस्य। (8) व्याख्या-"स्यात् / कः ? नैगमो नयः / का ? विवक्षा अभिप्रायः / कयोः ? घर्मयोः एकत्वानेकत्वयोः / केन? गुणप्रधानभावेन / क्व? एकमणि एकोऽभिन्नो धर्मी द्रव्यं तस्मिन् / तदाकृतिः तस्य नैगमस्य आकृतिराभास: स्यात् / का? अत्यन्तभेदोक्तिः अत्यन्तो निरपेक्षः भेदो नानात्वं तस्योक्तिर्वचनं नैयायिकाद्यभिप्रायो नैगमाभास इत्यर्थः।"-लघी० ता०प०९०। . 1 तत्संभवे वानस्था-श्र० / 2 स्याद्वादवचनं आ० / 3 प्रसारस्य श्र०। 4 प्रकारभूता-श्र० / 6-भिसम्बन्धेः प्र-आ०, श्र० /