________________ प्रवचनप्र० का 0 67] नयनिरूपणम् 787 किंविशिष्टस्य जीवस्य ते पर्यायाः ? इत्याह-संसारिणः। मुक्तस्य के पर्यायाः ? इत्याह-'निश्चय' इत्यादि / निश्चयपर्यायाः द्रव्यार्थिकगोचराः पर्यायाः शुद्धस्य 'जीवस्य' इति सम्बन्धः / के ते ? ज्ञानादयः अकादाचित्कत्वात् / कथम्भूतास्ते ? 'ते च' इत्याह (इत्याह ते च) प्रतिक्षणम् आत्मसात्कृतानन्तभेदाः। न केवलं द्रव्यार्थिकनयाज्जीवस्यैव अभेदः अपि तु पुद्गलद्रव्यस्यापि इत्याह-'निश्चय' इत्यादि / निश्चय- 5 नयात् द्रव्यार्थिकनयात् पुद्गलद्रव्यम् एकम् अभिन्नम् / कस्मिन् सत्यपि ? इत्याहपृथिव्यादिभेदेऽपि। किं कुर्वत्तदेकम् ? इत्याह-'रूप' इत्यादि। अजहत् अपरित्यजत् , किम् ? इत्याह-रूपरसगन्धस्पर्शवत्वम् “रूपरसगन्धस्पर्शवन्तः पुद्गलाः” [ तत्त्वार्थसू० 5 / 23 ] इत्यभिधानात् / कथम्भूतं तत् ? इत्याह-आविर्भूतानाविर्भूतस्वरूपम् / पृथिव्यां तदै आविर्भूतस्वरूपं जलादौ अनाविर्भूतस्वरूपम् , जले गन्धस्य अनले गन्धरसयोः 10 अनिले रूपरसगन्धानामनाविर्भावात् / ननु जलादौ गन्धादिसद्भावे प्रमाणतः सिद्धे अनाविर्भावो युक्तः, अन्यथा सर्वस्य सर्वत्राऽनाविर्भावप्रसङ्गात् सांख्यदर्शनप्रतिप्रसङ्गः स्यात् इति चेत् ; उच्यते-जैलादयो गन्धादिमन्तः, स्पर्शवत्त्वात्, यदित्थं तदित्थं यथा पृथिवी, स्पर्शादिमन्तश्चैते, तस्माद्गन्धादिमन्त इति / यत् पुनः गन्धादिमन्न भवति न तत् स्पर्शवत् यथा आत्मादि, 15 इत्यादि षट्पदार्थपरीक्षायां पृथिव्यादीनामतत्त्वान्तरभावसमर्थनावसैरे प्रपञ्चतः प्ररूपितमिहावगन्तव्यम् / पुनरपि किं कुर्वत् ? इत्यत्राह-'स्कन्ध' इत्यादि / स्कन्धाश्च घटादयः परमाणवः अत्यन्तसूक्ष्माः पुद्गलाः त एव पर्यायाः परस्परतः प्रादुर्भावात् , परमाणुभ्यो हि स्कन्धाः प्रादुर्भवन्ति तेभ्यश्च परमाणव इति, तेषां भेदेपि रूपादिमत्त्वमपरित्यजदेकं / दृष्टान्तार्थमेतत् ; ततो यथा तत् परमाणुरूपं स्कन्धीभवत् स्कन्धस्वभावं 20 वा परमाणुरूपतामादधत् रूपादिमत्त्वमपरित्यजत् एकं तथा प्रकृतमपि इति / एतदेव . दर्शयन्नाह-'नहि' इत्यादि / हिर्यस्मात् न अवस्था च देशश्च कालश्च संस्कारश्च ते मूर्त्तत्वं रूपादिमत्त्वम् “रूपादिमयी मूर्तिः” [ ] इत्यभिधानात् / अत्यन्तं सुष्ठु भिन्दन्ति 'पृथिव्यादिभेदस्य स्कन्धपरमाणुपर्यायभेदस्य चे' इति सम्बन्धः। कुत एतत् ? इत्याह-'अमूर्त' इत्यादि / अमूर्तो रूपादिरहितो यो भेदः व्यक्तिविशेषः तस्य 25 प्रसङ्गात् / यथा च अवस्थादयो न रूपादिमत्त्वमत्यन्तं भिन्दन्ति, तथा सत्ताभेदाश्च (1) "स्पर्शरसगन्धवर्णवन्तः पुद्गलाः।"-तत्त्वार्थसू०। (2) रूपरसगन्धादि / (३)वैशेषिकः। (4) तुलना-पृ० 238 टि० 4 / (5) पृ० 238 / (6) तुलना-"रूपं मूर्तिरित्यर्थ: / मूर्तिः ? रूपादिसंस्थानपरिणामो मूर्तिः ।"-सर्वार्थसि० राजवा० 5 / 5 / 1 प्रतिप्रसवः स्यात् आ०, श्र०। 2 वा श्र० /