________________ 786 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० यदि वा वैशेषिकादिराह-पुरुषत्वमपेक्ष्य समानपरिणामातिशयो नानात्मसु, बुद्ध्यादिगुणसमवायित्वमपेक्ष्य एकात्मनि एकत्वपरिणामातिशयो न परमार्थतः इति; तत्राह-'पुरुषत्वादेः' इत्यादि / पुरुषत्वम् आदिर्यस्य बुद्ध्यादिसमवायित्व-त्रिगुणसंयो गित्वादेः स तथोक्तः तस्य या अपेक्षा ततः सत्यपि समानेतरपरिणामातिशये / 5 केषाम् ? इत्याह-नानकसन्तानात्मनाम् / नाना एकसन्तानाश्च ते आत्मानश्च तेषाम् इति, शेषं पूर्ववत् / न भवतु आत्मना समानैकत्वपरिणामः न घटादीनां तत्र समानपरिणामस्यैव संभवात् इत्याशङ्क्याह-'तथाहि' इत्यादि / तथाहि तेन अस्खलत्समानैकप्रत्ययविषयत्वप्रकारेण च स्कन्धो घटाद्यवयवी, स किम् ? इत्याह-एकत्वम्। केषाम् ? इत्याह-'ख' इत्यादि / स्वशब्देन स्कन्धः परामृश्यते तस्य ये गुणा रूपादयः 10 ये च पर्याया नवपुराणादयः तेषाम् एकत्वम् न समानपरिणाम: 'अस्खलदेकप्रत्य यविषयत्वात्' इति भावः / ननु भिन्नसन्तानात्मनामिव एकसन्तानात्मनामपि समानपरिणाम एवास्तु इति सौगतः / तत्राह-'पुरुषश्च' इति / न केवलं स्कन्धः किन्तु पुरुषोऽपि 'स्वगुणपर्यायाणामेकत्वम्' इति सम्बन्धः। नेनु यथा क्रमभाविनां सुखा दीनामेकत्वं पुरुषः तथा युगपद्भाविनामात्मनाम् एकत्वं सोऽस्तु इति चेदत्राह-'समान' 15 इत्यादि / अपिशब्द एवकारार्थः। समानपरिणाम एव सकलपदार्थगः नैकत्वं सकलपदार्थगम् 'पुरुषस्य' इति विभक्तिपरिणामेन सम्बन्धः। अनेन 'तथाभाव' इत्यादि समर्थितम् , द्रव्यमेकान्वयानुगम्' इति कारिकापादश्च व्याख्यातः / निश्चयनयाद् द्रव्यार्थिकनयाद् एकः अभिन्नः जीवः सर्वोऽपि सर्वसाधारणचेतनापरिणा मापेक्षया / स एव द्विविधो व्यहारनयात् इति दर्शयन्नाह-'कर्म' इत्यादि / कर्मणा 20 ज्ञानावरणीयादिना निर्मुक्तोरहितो जीवः, सकर्मकश्च। कुतः? व्यवहारनयात् पर्याया र्थिकनयात् / एवमेकेन्द्रियादिभेदोऽपि चिन्त्यः। अनेन द्वितीयकारिकाया उत्तरार्द्ध व्याख्यातम् / पर्यायं कथयन्नाह-'पर्यायः' इत्यादि / पर्यायः कः ? इत्याह-पृथक्त्वं व्यतिरेकश्च / तत्र पृथक्त्वपदं व्याचष्टे-पृथक्त्वम् , एकत्र एकस्मिन् द्रव्ये गुणक25 मंसामान्यविशेषाणां परस्परपरिहारेण कथञ्चित् अवस्थानम् इत्यर्थः / व्यतिरेकपदं विवृणोति-व्यतिरेको व्यावृत्तिः। कः ? इत्याह-सन्तानान्तरगतो विसदृशपरिणामः गोमहिष्यादिपरिणामः / तत्र जीवगतपर्यायान् दर्शयन्नाह-'व्यवहार' इत्यादि / व्यवहारपर्यायाः पर्यायार्थिकनयपर्यायाः इत्यर्थः / के ? क्रोधादयः कादाचित्कत्वात् / (1) सौगतः / (2) अद्वैतवादी। (3) पुरुषः ब्रह्मरूपो भवतु / 1 बुद्धयादिसम-आ०। 2 'नानकसन्तानात्मनाम्' नास्ति श्रः। 3 तथा च तेन ब०, तथा तेन आ० / 4-सन्तानानामपि ब० // 5-गः अनेकत्वं आ०, श्र०। 6 तद्रव्यमे-श्र०17 निश्चयाद् आ०, ब० / 8-केन्द्रियभेदोपि ब० / 9 पर्याया क इ-ब०। 10-वनवस्था-श्र०। 11 गोमहिषादि-श्र०ब० /