________________ प्रवचनप्र० का०६७] नयनिरूपणम् 785 तावेव अर्थी तौ यथासंख्येन विद्यते ययोः तौ तथोक्तौ। तत्र द्रव्यपदं व्याचष्टे 'द्रव्यम्' इत्यादिना / एकत्वान्वयौ व्याख्यातो, तौ आत्मा यस्य तत् तदात्मकम् / एतदेव समर्थयमानः प्राह-'एकत्वम्' इत्यादि / 'द्रव्यम्' इत्यनुवर्तते / तस्य एकत्वं कुतः ? इत्याह-'तद्' इत्यादि / स च विवक्षित: असश्च अविवक्षित: तदतौ, तौ च तौ परिणामौ च तौ यस्य स्तः तत् तदतत्परिणामि, यदि वा, तयोः परिणमत / इत्येवं शीलं तदतत्परिणामि, तस्य भावात् तत्त्वात् / साम्प्रतम् 'अन्वयात्मकं तत्' इत्येतत् समर्थयते-अन्वयि द्रव्यान्तरेण अनुगमवद् 'द्रव्यम्' इति सम्बन्धः। कुतः ? इत्याह-'तद्' इत्यादि / सदृशपरिणामलक्षणसामान्यात्मकत्वात् / अत्राह सौगतः-असमानानपेक्ष्य समानपरिणामाः अनुपादानोपादेयानपेक्ष्य एकपरिणामाः केचन भावाः कल्प्यन्ते न परमार्थतः, अपेक्षाकृतस्य धर्मस्याऽतात्त्विकत्वात् ; 10 इत्यत्राह-'पुरुष' इत्यादि / अस्यायमर्थः-नानकसन्तानात्मनाम् नानासन्तानस्वभावानाम् एकसन्तानस्वभावानांश्च युगपत्क्रमभाविनां क्षणानाम् इत्यर्थः / तेषां यदपेक्षातः यथोक्तायाः अपेक्षायाः सकाशात् कल्पितं पुरुषत्वं तिर्यक्सामान्यम् , आदिशब्देन द्रव्यविशेषपरिग्रहः, तस्मात् सत्यपि विद्यमानेऽपि समानेतरपरिणामातिशये समानपरिणामातिशये तत्प्रकर्षे इतरपरिणामातिशये एकत्वपरिणामप्रकर्षे / ननु इतरशब्दस्य उक्तविपरी- 15 तार्थाभिधायित्वात् समानपरिणामाद् इतरो विसदृशपरिणाम एव लभ्यते, न एकत्वपरिणामातिशय इति चेत् ; एवमेतत्, तथापि-इह समानैकत्वपरिणामातिशययोः प्रकृतत्वात् समानपरिणामात् इतरः एकत्वपरिणाम एव उच्यते / तस्मिन् सत्यपि एकत्वं तदतत्परिणामित्वात् / सदृशपरिणामलक्षणसामान्यात्मकत्वाद् 'अन्वाय' इति सम्बन्धः। नहि तथाऽपरिणतम् अपेक्षात: तद् भवति विप्रतिषेधात् , अन्यथा स्वयममूर्तमपि ज्ञानं 20 ज्ञानान्तरात् अमूर्त्तात् व्यवर्तमानं मूर्त स्यात् / ननु च विचार्यमाणस्य तदतत्परिणामिनः सदृशपरिणामलक्षणसामान्यस्य चानुपपत्तेः अभिमतरूपवद् अनभिमतरूपेणापि प्रसङ्गाच्च अयुक्तम्-एकत्वमित्यादि; इति चेदत्राह-'तथा' इत्यादि / तथा तदतिशयप्रकारेण यो सङ्कर-व्यतिकरौ तयोः व्यतिरेकाद् अभावाद् अन्वयिनोः तदतत्परिणामिसामान्ययोः अस्खलत्समानैकप्रत्ययविषयत्वम् साकल्येन नानकसन्तानात्मस्व- 25 भावम् अनुमिमीमहे अनुमानेन प्रतिपद्यामहे 'अनुमाननिमित्तस्य उक्ततर्कस्य प्रविजृम्भणात्' इत्यभिप्रायः। (1) न हि अग्नित्वेनापरिणतं अपेक्षातः अनग्निव्यावृत्त्यपेक्षया अग्निर्भवति, जलादावपि * अनग्निव्यावृत्त्या अग्नित्वप्रसङ्गस्य दुरित्वात् इति भावः। 1 द्रव्यमित्यादि द्रव्यमित्यनुवर्तते ब०, द्रव्यमित्यादि इत्यनुवर्तते श्र०। 2-ह सदश-आ०, ब० / 3-पेक्ष एक-ब०। 4-ञ्च यगपत्क्रमभाविनाञ्च यगपत्क्रमभाविनां क्ष-आ०। 5 'समानपरिणामातिशय' नास्ति श्र०, समानपरिणामप्रकर्षे ब०। 6-रूपेणातिप्र-श्र०।। 49