________________ 784 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० विवतिव्याख्यानम् द्रव्यान्तराणि च अनुगच्छति अनुयाति इति तदनुगम् / 'एकत्वानुगम्' इत्यनेन भेदैकान्तनिषेधः, 'अन्वयानुगम्' इत्यनेन तु सर्वद्रव्यैकत्वनिरासः। तदेवंविधं द्रव्यं प्रमाणापरिच्छेद्यं भविष्यति इत्यत्राह-'निश्चयात्मकम्' इति / संशयादिव्यवच्छेदलक्षणा प्रमेयस्था गृहीतिक्रिया निश्चयः, स आत्मा स्वभावो यस्य तत् तथोक्तम् / न केवलं 5 द्रव्यमेव निश्चयात्मकम् , किन्तु अन्योऽपि पर्यायोऽपि, निश्चयात्मकः इति लिङ्गपरि णामेन सम्बन्धः। पुनरपि कथम्भूतः ? इत्याह-व्यतिरेकपृथक्त्वगः। स्वद्रव्यपर्यायान्तरापेक्षया व्यतिरेकं परस्परव्यावृत्तिम् एकद्रव्यापरित्यागेन गच्छतीति व्यतिरेकगः, द्रव्यान्तरपर्यायापेक्षया पृथक्त्वं पृथग्द्रव्यवृत्तित्वं गच्छतीति पृथक्त्वगः। ननु यदि नैगमादयो नयाः द्रव्यपर्यायमूलाः तर्हि द्रव्यार्थिकपर्यायार्थिकलक्षणौ मूलनयौ 10 किम्मूलौ ? इत्याह-'निश्चय' इत्यादि / चेतनस्य अचेतनस्य वा यः सन् स्वभावः न कदाचिद्विनश्यति तदवलम्बी नयो निश्चयः द्रव्यार्थिकनयः इत्यर्थः / यो विनश्यति खभावःतदवलम्बी व्यवहारः पर्यायार्थिक इति यावत् तौ / तु शब्दः अपिशब्दार्थ, द्रव्यपर्यायमाश्रितो। वक्ष्यति च 'तत्र मलनयो द्रव्यपर्यायार्थिको' इत्यादि / तत्र प्रथमकारिकायाः प्रथमभागं व्यतिरेकमुखेन विवृण्वन्नाह-'नहि' इत्यादि / नहि नैव मतिभेदाः किन्तु श्रुतभेदाः, के ते ? नयाः। कुत ___ एतत् ? इत्याह-'त्रिकाल' इत्यादि / त्रयः काला गोचरो येषाम् अनेकद्रव्यपर्यायाणां ते विषयो येषां तेषां भावात् तत्त्वात् / 'नयानाम्' इति विभक्तिपरिणामेन सम्बन्धः। मतिरपि तथा भविष्यति ? इत्यत्राह-'मतेः' इत्यादि / मतेः इन्द्रियजनितायाः साम्प्रतिकार्थग्राहित्वात् वर्तमानकालगोचरद्रव्यपर्यायात्मकार्थग्राहकत्वात् 'न मतिभेदा नयाः' इति सम्बन्धः / अनिन्द्रियजनितायास्तस्याः ते तर्हि भेदाः भवन्तु तस्याः त्रिकालगोचरद्रव्यादिविषयत्वात् इत्यत्राह-'मनोमतेः' इत्यादि / न केवलम् इन्द्रियमतेः अपि तु मनोमतेरपि 'नहि भेदाः नयाः' इति सम्बन्धः। किंविशिष्टायाः ? इत्याह-स्मृतिप्रत्यभिज्ञानचिन्ताभिनिबोधात्मिकायाः। कुत एतत् ? इत्यत्राह 'कारण' इत्यादि / विशदाऽवितथा मैतिः मनोमतेः कारणत्वात् 'कारणमतिः' इत्यु25 च्यते, तया परिच्छिन्नो योऽर्थः तद्विषयत्वान्मनोमतेः। तस्यैव कथञ्चिदधितया तया ग्रहणात् एवमुक्तम् / नयभेदं दर्शयन्नाह-तत्र' इत्यादि / तत्रैवं श्रुतभेदत्वे नयानां व्यवस्थिते मूलनयौ कारणनयौ नैगमादीनाम् / कौ ? इत्याह-द्रव्यपर्यायार्थिको, द्रव्यञ्च पर्यायश्च ___ (1) मतेः। (2) इन्द्रियजनिता मतिः / (3) इन्द्रियमतिविषयभूतस्य अर्थस्यैव / (4) अर्थादर्थान्तरानुगमरूपेण, विचारात्मकत्वान्मनोमतेः। (5) मनोमत्या। 1-त्मकं पृथग्द्रव्यमेय निश्चयात्मकं किन्तु श्र०। 2 इत्याह-ब०। / तत्रैव श्रुतभेदत्वेन व्यव-ब०। 20