________________ प्रवनचप्र० का०६७] नयनिरूपणम् 783 विवृतिः-नहि मतिभेदा नयाः त्रिकालगोचरानेकद्रव्यपर्यायविषयत्वात् , मतेः साम्प्रतिकार्थग्राहित्वात् / मनोमतेरपिस्मृतिप्रत्यभिज्ञानचिन्ताभिनिबोधात्मिकायाः कारणमंतिपरिच्छिन्नार्थविषयत्वात् / तत्र मूलनयौ द्रव्यपर्यायार्थिको / द्रव्यम् एकान्वयात्मकम् / एकत्वं तदतत्परिणामित्वात् , सदृशपरिणामलक्षणसामान्यात्मकत्वाद् अन्वयि / पुरुषत्वादेरपेक्षातः सत्यपि समानेतरपरिणामातिशये नानकसन्तानात्मनां / तथाभावसंकरव्यतिकरव्यतिरेकाद् अन्वयिनोरस्खलत्समानैकप्रत्ययविषयत्वमनुमिमीमहे / तथाहि-स्कन्धः स्वगुणपर्यायाणामेकत्वं न समानपरिणामः पुरुषश्च / समानपरिणामोऽपि सकलपदार्थगोऽनेकत्वम् / निश्चयनयादेको जीवः कर्मनिर्मुक्तः व्यवहारनयात् सकर्मकः। पर्यायः पृथक्त्वम् व्यतिरेकश्च / पृथक्त्वम् एकत्र द्रव्ये गुणकर्मसामान्यविशेषाणाम् / व्यतिरेकः सन्तानान्तरगतो विसदृशप- 10 रिणामः / व्यवहारपर्यायाः क्रोधादयः जीवस्य संसारिणः, निश्चयपर्यायाः शुद्धस्य ज्ञानादयः प्रतिक्षणम् आत्मसात्कृतानन्तभेदाः / निश्चयनयात् पुद्गलद्रव्यमेकम् , पृथिव्यादिभेदेऽपि रूपरसगन्धस्पर्शवत्वम् आविर्भूतानाविर्भूतस्वरूपमजहत् स्कन्धपरमाणुपर्यायभेदेपि रूपादिमत्त्वमपरिजहत् / नहि अवस्थादेशकालसंस्काराः मूर्तत्वमत्यन्तं भिन्दन्ति अमूर्तभेदप्रसङ्गात् , सत्ताभेदाश्च जीवादयः सत्ताम् 15 इत्युक्तप्रायं नेहोच्यते / भेदवादिनोऽपि ज्ञानमेकम् एकस्मिन् क्षणे स्वयमनेकाकारमात्मसात्कुर्वत् कथं निराकुयुः 1 ततः तीर्थकरवचनसंग्रहविशेषप्रस्तावमूलव्याकारिणौ द्रव्यार्थिकपर्यायार्थिको निश्चेतव्यौ। नहि तृतीयं प्रकारान्तरमस्ति; तस्य प्रमाण एवाऽन्तर्भावात् / न नैगमस्य प्रमाण [ता] तादात्म्यविवक्षाभावात् / श्रुतस्य आगमस्य भेदाः विशेषाः न पुनर्मतिज्ञानस्य / के ? नयाः, प्रतिपत्र- 20 भिप्रायाः, कियन्तः ? सप्त / कुतः 1 नैगमादिप्रभेदतः। किंकारिकार्थः - मूलास्ते ? इत्याह-'द्रव्य' इत्यादि / द्रव्यपर्यायौ मूलम् आश्रयो येषां ते तथोक्ताः / किं स्वरूपं द्रव्यम् ? इत्याह-'द्रव्यम्' इत्यादि / एकशब्दोऽयं भावप्रधानः, एकत्वञ्च अन्वयश्च सदृशपरिणामः ताभ्यां यथासंख्येन स्वपर्यायान (1) तुलना-उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानं श्रुतज्ञानं तु त्रिकालविषयम् उत्पन्नविनष्टानुत्पन्नार्थग्राहकम् ।"-तत्त्वार्थाधि० भा० 1120 / (2) तुलना-"अर्थान्तरगतो विसदशपरिणामो व्यतिरेक: गोमहिषादिवत ।"-परीक्षाम० 4 / 9 / (3) तुलना-"तित्थयरवयणसंगह विसेसपत्थारमलवागरणी। दव्वट्रिओ य पज्जवणओ य सेसा वियप्पासि ॥"-सन्मति०१।३। (4) तुलना"प्रमाणात्मक एवायमुभयग्राहकत्वतः / इत्ययुक्तमिह ज्ञप्तेः प्रधानगुणभावतः // प्राधान्येनोभयात्मानमर्थं गृह्णद्धि वेदनम् / प्रमाणं नान्यदित्येतत्प्रपञ्चेन निवेदितम् ॥"-तत्त्वार्थश्लो० पृ. 269 / 1-मतिभिन्नार्थवि- ई० वि०। 2-मूत्तित्व- ज० वि० / -वक्त्रभि-ब० श्र० /