________________ 782 ___ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [. प्रवचनपरि० हारेपि बहुलं बहिः तद्व्यवहारोपलम्भात् इति भावः / / ____ननु प्रतीयते शब्दादर्थः स तु विचार्यमाणो न सङ्गच्छते; तत्र तस्य सम्बन्धाभावतः प्रत्यायकत्वायोगात् ; इत्यत्राह-'अबाधिताम्' इत्यादि / अत्रायमभिप्रायः-यौदृशेऽर्थे सङ्केतितः यादृशः शब्दः देशान्तरे कालान्तरे च योग्यतालक्षणसम्बन्धवशात् तादृशस्य तादृशो वाचकः, न तत्र किञ्चिद्वाधकम् इत्युक्तम्-'योग्यतापेक्षानादिसङ्केतः'। लघी० स्ववृ० का० 62 ] इत्यत्र / अतः अबाधितां शब्दादुपजायमानां सामान्यविशेषात्मकार्थविषयां तत्प्रतीतिमतिक्रम्य स्वेच्छया प्रतीत्यनाश्रयणेन प्रमाणस्वरूपम्-'प्रत्यक्षानुमानलक्षणमेव प्रमाणं नागमादि' इति, प्रमेयस्वरूपम् प्रत्यक्षस्य पूर्वापरकोटिविच्छिन्नं स्वलक्षणमेव प्रमेयम् अनुमानस्य तु अन्यव्यावृत्तिमात्रम्' इत्यातिष्ठमानानां सौगतानां युक्तम् 10 उपपन्नम् किं तत् ? अभिप्रेतमात्रसूचकत्वम् / केषाम् ? शब्दानाम् इति / व्याख्यातं मूलकारिकायाम् 'ज्ञानं प्रमाणमात्मादेः' इत्येतत् / साम्प्रतं 'नयो ज्ञातुरभिप्रायः' इत्येतद्व्याख्यातुकाम आह श्रुतभेदा नयाः सप्त नैगमादिप्रभेदतः।। द्रव्यपर्यायमूलास्ते द्रव्यमेकान्वयानुगम् // 66 // निश्चयात्मकमन्योऽपि व्यतिरेकपृथक्त्वगः। निश्चयव्यवहारौ तु द्रव्यपर्यायमाश्रिती // 67 // (1) बहिरर्थे / (2) शब्दस्य / (3) व्याख्या-"ते प्रागुक्तलक्षणा नया भवन्ति / के ? ते / श्रुतस्य सकलादेशस्य आगमस्य भेदा विकल्पा विकलादेशाः। कति ? सप्त। कुतः नैगमादिप्रभेदतः ? किं विशिष्टा: ? द्रव्यपर्यायमूलाः। तत्र द्रव्यस्य स्वरूपमाह-द्रव्यं सामान्य भवति / किं विशिष्टम् ? एकान्वयानुगम् , एकञ्चान्वयश्च एकान्वयौ तावनुगच्छति व्याप्नोतीत्येकान्वयानुगम् / तत्रैकानुगम् अर्थता (ऊर्ध्वता ) सामान्यं पूर्वापरव्यापकम् , सदृशपरिणामलक्षणं तिर्यक्सामान्यमन्वयानुगम् / पुनः किं विशिष्टम् ? निश्चयात्मकम् , निर्गतश्चयः पर्यायान्तरसंकरो यस्मादसौ निश्चयः पर्यायः स आत्मा यस्य तत्तथोक्तम् / अपि पुनरन्यः पर्यायो विशेषो भवति / किं विशिष्ट:? व्यतिरेकपृथक्त्वगः, व्यतिरेकश्च पृथक्त्वञ्च ते गच्छति तादात्म्येन परिणमतीति स तथोक्तः / तत्र व्यतिरेक: एकस्मिन् द्रव्ये क्रमभाविपर्यायः / पृथक्त्वगः पुनरर्थान्तरगतो विसदृशपरिणामः / "तु पुननिश्चयव्यवहारौ मूलनयौ आश्रितौ आलम्बितवन्तौ। किम् ? द्रव्यपर्यायम् ।"द्रव्यं श्रितो निश्चयनय: द्रव्याथिक इत्यर्थः / पर्यायाश्रितो व्यवहारनयः पर्यायाथिक इत्यर्थः ।"-लघी० ता. पृ० 88 / (4) तुलना-"सत्त मूलणया पण्णत्ता। तं जहा णेगमे, संगहे, ववहारे, उज्जुसुए, सद्दे, समभिरूढे, एवंभूए।"स्था० 7.19 / अनुयोग० 136 / नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढेवम्भूताः नयाः।"-तत्त्वार्थ० 1334 / “नेगमसंगहववहारुज्जुसुए होइ बोधव्वे / सद्दे य सममिरूढे एवंभूए य मूलनया।"-आव० नि० गा० 754 / "नैगमसंग्रव्यवहारर्जुसूत्रशब्दा नयाः। आद्यशब्दौ द्वित्रिभेदौ।"-तत्त्वार्थाधि० 234, 35 / सिद्धसेनदिवाकरास्तु षड् नयान् स्वीकुर्वन्ति, तन्मतानुसारेण नैगमस्य संग्रहव्यवहारयोरन्तर्भावात् / द्रष्टव्यम्-सन्मति०११४,५।। ____ 1 बहिश्छमस्थव्य-ब० / 2 यादृशोऽर्थे संकेतितः तादृशः शब्दः आ०। 8 'कालान्तरे च' नास्ति ब०, थ०। 4-क्षोऽनादि-ब० // 5-रेकापृथ-मु० लघी० /