________________ प्रवचनप्र० का०६५] विवृतिविवरणम् 781 पादयामि इत्यभिप्रायो वा ? प्रथमपक्षे वक्तृश्रोत्रोः शास्त्रश्रवणप्रणयनादौ प्रवृत्तिन प्राप्नोति / न खलु कश्चिदनुन्मत्तः शब्दनिमित्तेच्छामात्रप्रतिपत्त्यर्थं शास्त्रं वाक्यान्तरं वा प्रणेतुं श्रोतुं वा प्रवर्तते / दशदाडिमादिवाक्यैः सह सर्ववाक्यानामविशेषप्रसङ्गश्च, सर्वेषां स्वप्रभवेच्छामात्रानुमापकत्वाऽविशेषात् / अथ अनेन शब्देनामुमर्थं प्रतिपादयामीत्यभिप्रायो विवक्षा, तत्सूचकत्वेन अखिलशब्दानां विवक्षानुमापकत्वम् ; तदप्यनुप- 6 पन्नम् ; व्यभिचारात् / नहि शुकशारिकोन्मत्तादयः तथाभिप्रायेण वाक्यमुच्चारयन्ति / किश्च, समयानपेक्षः शब्दः तादृशमभिप्रायं गमयेत् , तत्सापेक्षो वा ? आद्यविकल्पे न कश्चित् क्वचिद्भाषानभिज्ञः स्यात् , सर्वेषामविशेषतः शब्दार्थप्रतिपत्तिप्रसङ्गात् / समयापेक्षस्तु शब्दः अर्थमेव किन्न गमयेत् ? नह्ययम् अर्थाद् बिभेति येन तत्र साक्षान्न वर्तेत / अशक्यसमयत्वान्न शब्दोऽथं गमयति; इत्यप्यसमीक्षिताभिधा- 10 नम्; अभिप्रायेऽपि तदगमकत्वानुषङ्गात्, तत्रापि तस्य अशक्यसमयत्वाविशेषात् / असिद्धश्चास्य अशक्यसमयत्वम् ; 'प्रमाणं श्रुतमर्थेषु' [ लघी० का० 26 ] इत्यत्र तच्छक्यसमयत्वस्य प्रपञ्चतः प्रतिपादितत्वात् / ____ न केवलं सुषुप्तादौ वाग्वृत्तेर्दर्शनादभिप्रेतव्यभिचारित्वं कुतोऽपनीयते इति, अपि तु इतश्च / कुतस्तदपनीयते इत्याह-'अनिच्छताम्' इत्यादि / आनिच्छतामपि 15 अपशब्दाद्युच्चारणविवक्षाविकलानामपि अपशब्दादिभाषणसद्भावात् , आदिशब्देन श्रुतिदुष्टादिपरिग्रहः। तथा वाञ्छतामपि मन्दबुद्धीनां शास्त्रवक्तृत्वाभावात् तत्कुतोऽपनीयते ? अत्राह पर:-'उभयत्र' इत्यादि / उभयत्र अर्थेऽभिप्राये च व्यभिचारात शब्दानाम् न कस्यचिदर्थस्य अभिप्रायस्य वा वाचकाः शब्दाः, इतिशब्दः परमतसमाप्त्यर्थः / अत्र दूषणमाह-'अलौकिकं प्रतिभानमिति' प्रतिभोत्तरप्रतीतिः इत्यर्थः, 20 अलौकिकश्च तत् प्रतिभानञ्च, लोकबाधितम् इत्यर्थः / कुत एतत् ? इत्यत्राह'लोको हि' इत्यादि / हिर्यस्मात् लोकः अर्थाप्त्यनाप्तिषु सत्यानृतव्यवस्थाम आतिष्ठेत / कस्य ? शब्दस्य / यदि हि न कस्यचिद्वाचकाः शब्दाः स्युः तर्हि तेभ्यो घटाद्यर्थस्य स्वप्नेऽप्यप्रतीतेः न तत्प्राप्त्या केषाञ्चिच्छब्दानां सत्यत्वम् अन्येषां तु अनृतत्वं विपर्ययात् इत्येवं लोको वचसां तद्व्यवस्थामातिष्ठेत इत्यभिप्रायः / ननु अभिप्राय- 25 मात्रप्रतिपादनेऽपि तद्व्यवस्थामास्थास्यत इत्यत्राह-'न' इत्यादि / अभिप्रायमात्रे शब्दार्थे 'न लोकः तद्वयवस्थामातिष्ठेत' इति सम्बन्धः / कुत एतत् ? इत्यत्राह'तत्र' इत्यादि / 'तत्र' तन्मात्रे शब्दव्यवहारबाहुल्याभावात्, कचित् तत्र तद्व्यव (1) तुलना-"किञ्च, समयानपेक्षं वाक्यं तादृशमभिप्रायं गमयेत् तत्सापेक्षं वा ?" -प्रमेयक० पृ० 450 / (2) अभिप्रायमात्रे / 1-श्रवणयनादी आ० / 2 सुषुप्त्यादौ ब० / -पनीत ब० / 4 अशब्दाधुच्चा-श्र० / न त अभि-आ०, ब०। 6 इत्याह तत्र तन्मात्रे ब०, इत्यत्राह तत्र तन्मात्रे आ० / 7 चित्तत्तत्र श्र० /