________________ 780 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० विषयतामन्तरेण सत्यानृतव्यवस्थानुपपत्तिलक्षणः अन्यत्र 'प्रमाणं श्रुतमर्थेषु' [लघी० का० 26 ] इत्यादौ विस्तरेणोक्तः इति नेह प्रघट्टके पुनः प्रतन्यते / नन्वर्थाभावेपि शब्दानां प्रवृत्तिदर्शनात् कथं तद्वाचकत्वम् इत्यत्राह-'शब्दानाम्' इत्यादि / शब्दानाम् अर्थव्यभिचारित्वेऽभ्युपगम्यमाने अभिप्रेतव्यभिचारित्वं कुतः प्रमाणात् 5 न कुतश्चित् अपनीयते निराक्रियते / कुत एतत् ? इत्यत्राह-'सुषुप्तादौ' इत्यादि, आदिशब्देन मत्तादिपरिग्रहः वाग्वृत्तेर्दर्शनात् / ननु विवक्षाप्रभवाच्छब्दादन्य एव शब्दः, यः तदभावे तत्र जायते / न चान्यस्य व्यभिचारे अन्यस्य व्यभिचारोऽतिप्रसङ्गात् / 'सुविवेचितं हि कार्य कारणं न व्यभिचरति' इति, तदेतदत् अर्थविशेषसद्भावासद्भावप्रतिबद्धात्मलाभेष्वपि शब्देषु समानम् / साम्येऽपि तेषां विवक्षेतरप्रभवाः शब्दाः वैलक्षण्येनाऽवसीयन्ते नतु अर्थविशेषसद्भावाऽसद्भावप्रतिबद्धात्मलाभा इति स्वदर्शनानुरागमात्रम् / विवक्षामात्रगोचरत्वे च अमीषां बहिरर्थे प्रवृत्त्यादिहेतुत्वानुपपत्तिः, तेदविषयत्वाद्, यद् यद्विषयं न भवति न तत् तत्र प्रवृत्त्यादिहेतुः यथा रूपज्ञानं रसाविषयं न रसे, न भवन्ति च बहिरर्थविषया भवन्मते शब्दा इति / नचैतद् युक्तम् प्रतीतिविरोधात् / सुप्रसिद्धा हि 15 शब्देभ्यो बहिरर्थे प्रतिपत्तिप्रवृत्तिप्राप्तिप्रतीति: आबालं प्रत्यक्षवत् / अतः तद्विषयत्वमेव अमीषां युक्तम् / यद् यत्र प्रवृत्यादिहेतुः तत्तद्विषयम् यथा रसज्ञानं रसे प्रवृत्त्यादिहेतू रसविषयम् , बहिरर्थे प्रवृत्त्यादिहेतवश्व शब्दा इति / नचायमसिद्धो हेतुः; प्रत्यक्षवत् शब्देभ्यः तत्र प्रवृत्त्यादिप्रतीतेः / यथैव हि प्रत्यक्षात् प्रतिपत्तृप्रणिधानादिसामग्री सापेक्षात् प्रत्यक्षार्थे प्रतिपत्त्यादिप्रतीतिः सकलजनप्रसिद्धा, तथा सङ्केतादिसामग्रीसा20 पेक्षात् शब्दात् शब्दार्थेऽपि इति / न च अर्थे अर्थिनोऽर्थित्वादेव प्रवृत्तेः शब्दोऽप्रवर्तक इत्यभिधातव्यम् ; प्रत्यक्षादेरप्येवमप्रवर्तकत्वप्रसङ्गात्, तदर्थेऽपि अर्थित्वादेव प्रवृत्तिप्रतीतेः / परम्परयाऽत्र प्रवर्तकत्वे शब्देऽपि तथा तदस्तु अविशेषात् / को चेयं विवक्षा नाम-शब्दोच्चारणेच्छामात्रम् , अनेन शब्देन अमुमथं प्रति (1) विवक्षाभावे / (2) बहिराविषयत्वात् / (3) शब्दो बहिरर्थविषयः बहिरर्थे प्रवृत्त्यादिहेतुत्वात् / (4) तुलना-"प्रत्यक्षादिव शब्दाद् बहिरर्थप्रतीतिसिद्धेः। यथैव हि प्रत्यक्षात् प्रतिपत्तृप्रणिधानसामग्रीसव्यपेक्षात् प्रत्यक्षार्थप्रतिपत्तिः तथा सङ्कतसामग्रीसापेक्षादेव शब्दाच्छब्दार्थप्रतिपत्तिः सकलजनप्रसिद्धा, अन्यथा ततो बहिरर्थे प्रतिपत्तिप्रवृत्तिप्राप्त्ययोगात्। न चार्थवेदनादेव अर्थ पुरुषस्यार्थिनः स्वयमेव प्रवृत्तेः शब्दोऽप्रवर्तक इत्येव वक्तुं युक्तम् ; प्रत्यक्षादेरप्येवमप्रवर्तकत्वप्रसङ्गात, तदर्थेऽपि सर्वस्याभिलाषादेव प्रवृत्तेः ।"-अष्टसह० पृ० 21 / प्रमेयक० पु० 449 / (5) प्रत्यक्षविषयीभतेऽप्यर्थे / (6) प्रत्यक्षे। (7) प्रवर्तकत्वव्यपदेशे। (8) परम्परया प्रवर्तकत्वम् / (9) "का चेयं विवक्षा नाम-किं शब्दोच्चारणेच्छामात्रम् ..."-प्रमेयक० पृ० 450 / 1 तद्वाचकमि-श्र० / 2 इत्याह ब०। 3 सुषप्तादीनामि-श्र०, सुषुप्त्यादौ इ-ब० / 4 अपरस्य ब०। 5-त्मलाभ इति आ०, ब०। 6-तुस्तद्वि-आ० /