________________ प्रवचनप्र० का 0 65 ] ब्राह्मणत्वजातिविचारः 776 णादिव्यवहारो युक्तः / कथमन्यथा वेश्यापाटकादिप्रविष्टानां ब्राह्मणीनां ब्राह्मण्याभावो निन्दा च स्यात् , जातियतः पवित्रता हेतुः ? सा च भन्मतेन नित्यैकरूपतया तदवस्थैव, अन्यथा गोत्वजातेरपि ब्राह्मण्यं निकृष्टं स्यात् / गवादीनां हि चाण्डालादिगृहे चिरोषितानामपि इष्टं शिष्टैरादानं न तु ब्राह्मणीनाम् / अथ क्रियाभ्रंशात्तासां निन्द्यता अनादानश्चेष्यते; तर्हि किमनेन अन्तर्गडुना ब्राह्मण्येन कल्पितेन ? कल्पयित्वापि तत् / क्रियाविशेषवशादेव वन्द्यताया ब्राह्मणव्यवहारस्य चाभ्युपगमनीयत्वात् / किञ्च, क्रियानिवृत्तौ ब्राह्मण्यजातेर्निवृत्तिः स्यात् , यदि सा तस्याः कारणं व्यापकं वा स्यात् ,. नान्यथा अतिप्रसङ्गात् / न चास्याः कारणं व्यापकं वा किश्चिदिष्टम् / नापि क्रियाभ्रंशात् तस्या विकारोऽस्ति “भिन्नेष्वभिन्ना नित्या निरवयवा च औतिः" [ ] इत्यभिधानात् / न चाऽविकृतायाः निवृत्तिः संभवति 10 अतिप्रसङ्गादिति / तदेवं भवत्कल्पितब्राह्मण्यस्य आकाशकुशेशयवदप्रसिद्धस्वरूपत्वान्न ब्राह्मणस्यैव संस्कृतशब्दप्रयोगात् धर्मो युक्तः, किन्तु सर्वेषामविशेषेणैव अतोऽ"सौ स्यात्, न चैवम् / अतोऽवितथार्थाभिधायित्वमेव शब्दस्य साधुत्वमभ्युपगन्तव्यम् नान्यत् , उक्तदोषानुषङ्गात् / तथाविधञ्च तत् संस्कृतशब्दस्येव प्राकृतशब्दस्याप्यविशिष्टम् , अतो द्वयोरप्यनयोः साधुत्वम्। ततः साधूक्तम्-'वर्णाः पदानि वाक्यानि 15 प्राहुरर्थानवाञ्छितान्' इत्यादि / . कारिकाद्वयं विवृण्वन्नाह-'वर्ण' इत्यादि / वर्णपदवाक्यानां वाचकत्वम् अर्थ ___ प्रतिपादकत्वम् , यथास्वं स्वस्यार्थस्य अनतिक्रमेण आगमात् प्रतिविवृतिव्याख्यानम् - पत्तव्यम् / तत्रास्य प्रत्येकं प्रपञ्चतः प्ररूपितत्वात् / कुतः पुनः विवक्षातोऽन्यस्य वाचकाः शब्दाः ? इत्याह-'वक्त्रभिप्रायात्' इत्यादि / वक्त्रभिप्रा- 20 याद् भिन्नस्य बहिर्भूतस्य अर्थस्य घटादेः वाचकाः शब्दाः / कुत एतत् ? इत्याहसत्यानृतव्यवस्थान्यथानुपपत्तेः / यत्र सत्यानृतव्यवस्था तद् वक्त्रभिप्रायाद् भिन्नार्थविषयं यथा प्रत्यक्षादि, सत्यानृतव्यवस्था च शब्देष्विति / अयश्च प्रसङ्गः बहिरर्थ (1) तुलना-"ततः संव्यवहारमात्रप्रसिद्धं ब्राह्मण्यम् ।”-प्रमाणवातिकालं पृ०२६ / (2) यदि क्रियाविशेषनिबन्धनों ब्राह्मण्यादिव्यवहारो न स्यात्तदा / तुलना-"कथमन्यथा वेश्यापाटकादिप्रविष्टानां ब्राह्मणीनां ब्राह्मण्याभावो भवेत्""-स्या० 20 पृ० 962 / प्रमेयक० पृ० 486 / (3) जातिः / (4) मीमांसकनैयायिकमतेन / (5) "अन्यथा गोत्वादपि ब्राह्मण्यं निकृष्टं स्यात् ।"-प्रमेयक० पृ० 486 / (6) ब्राह्मणीनाम् / (7) "घटामस्तकयोरन्तरालवी मांसपिपडोऽन्तर्गडुः"-प्रमाणवा० स्व० टी० पृ० 168 / (8) ब्राह्मण्यम् / (9) तुलना-"किञ्च क्रियानिवृत्तौ .."-प्रमेयक० पृ० 487 / (10) क्रिया। (11) ब्राह्मण्यजातेः / (12) ब्राह्मण्यजातेः / (13) उद्धृतमिदम्-प्रमेयक०१०४८७। (14) संस्कृतशब्दोच्चारणात् / (15) धर्मः। (16) अवितथार्थाभिधायित्वलक्षणं साधुत्वम् / 1 ब्राह्मणानां ब० / 2 चाण्डालादीनां गृहे श्र० / ब्राह्मण्यव्य-आ०, श्र० / 4 इति आ० / 5 'शब्दाः' नास्ति आ० /