________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० __यदप्युक्तम्-'द्रव्यपरीक्षकाणाम्' इत्यादि; तदप्यसाम्प्रतम् ; येतो न पीततामात्रं सुवर्णम् , विचित्ररेखारचितपरिणतिमात्रं वा द्रव्यम् ; वृत्तसंस्थानमात्रं वा मणिः; अतिप्रसङ्गात् / किं तर्हि ? तद्विशेषः / स च न प्रत्यक्षः, दाहच्छेदादेः तुषाम्बुसंप्रक्षालनादेः परप्रश्नादेश्च वैयर्थप्रसङ्गात् / तस्यापि तत्प्रतिपत्तौ सहायत्वे तज्जातौ किञ्चित्तथाविधं सहायं वाच्यम् / तच्चे ब्राह्मणभूतपितृजन्यत्वादिकम् , आकारविशेषो वा स्यात् ? सर्वमेतत् प्रागेव कृतोत्तरत्वान्न तत्प्रतिपत्तौ सहायतां प्रतिपद्यते / अतोऽयुक्तमुक्तम्-'न च सामग्र्यभावाद् यन्न प्रतिभासते तन्नास्ति' इत्यादि; तत्प्रतिभाससामग्र्याः प्रागेव अशेषविशेषतो निरस्तत्वात् / ननु ब्राह्मणत्वादिसामान्यानभ्युपगमे कथं भवतां वर्णाश्रमव्यवस्था तन्निबन्धनो 10 वा तपोदानादिव्यवहारः स्यात् ? इत्यप्यचोद्यम् ; कियाविशेषयज्ञोपवीतादिचिह्नोपलक्षिते व्यक्तिविशेषे तद्व्यवस्थायाः तद्व्यवहारस्य च उपपत्तेः / तन्न भवत्कल्पितं नित्यादिस्वभावं ब्राह्मण्यं कुतश्चिदपि प्रमाणात् प्रसिद्ध्यतीति क्रियाविशेषनिबन्धन एवायं ब्राह्म (1) पृ० 768 पं०७। (2) तुलना-“काञ्चनाद्युपदेशस्य हि यदाऽसत्यताश ङ्का तदा प्रत्यक्षदर्शनादसौ निवर्तते नैवं जात्यायुपदेशस्यासत्यताशंकायां प्रत्यक्षात् सत्यता जातिस्वरूपग्रहणाकारात / सुवर्णादौ हि रूपविशेषसद्भावात् एवम्भूतमेव सुवर्णं भवतीति व्यवहारस्य परिसमाप्ते. र्दष्टस्य न काचित्क्षतिः, अत्र तु पुनरेवंविधमेव ब्राह्मण्यमिति न पादप्रसारणमात्र त्राणम् ।"-प्रमाणवातिकालं०५० 22 / “यतो न पीततामात्रं सुवर्णम्"."-प्रमेयक० पृ० 484 / (3) दाहच्छेदतुषाम्बप्रक्षालनादेः। (4) सुवर्णादिप्रतिपत्तौ। (5) “तच्चाकारविशेषो वा स्यादध्यनादिकं वा ?" -प्रमेयक० पृ० 485 / (6) ब्राह्मण्यप्रतिपत्तौ। (7) पृ० 768 पं०१३। (8) जैनानाम् / (9) तुलना-"न जटाहि न गोत्तेहि न जच्चा होति ब्राह्मणो / यम्हि सच्चञ्च धम्मो च सो सुची सो च ब्राह्मणो // न चाहं ब्राह्मणं ब्रूमि योनिजं मत्तिसंभवं / 'भो वादि' नाम सो होति स वे होति सकिञ्चनो। अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं ॥"-धम्मप० गा० 393,396 / 'कम्मणा बंभणो होइ कम्मणा होइ खत्तिओ। वईसो कम्मुणा होइ सुद्दो हवइ कम्मणा ॥"-उत्तरा० 25 / 33 / "तस्माद गणवर्णव्यवस्थितिः। 'ऋषिशृंगादिकानां च मानवानां प्रकीर्त्यते / ब्राह्मण्यं गुणयोगेन न तु तद्योनिसंभवात् // ' 'चातुर्वण्यं यथान्यच्च चाण्डालादिविशेषणम् / सर्वमाचारभेदेन प्रसिद्धिं भुवने गतम् / / -पद्मपु०११।१९८-२०५। “मनुष्यजातिरेकैव जातिनामोदयोद्भवा / वृत्तिभेदाहिताद् भेदाच्चार्विध्यमिहाश्नुते // ब्राह्मणा व्रतसंस्कारात् क्षत्रियाः शस्त्रधारणात् / वणिजोऽर्थार्जनाच्याय्यात् शूद्रा न्यग्वृत्तिसंश्रयात् ॥"-आदिपु० 38 / 45-46 / "आचारमात्रभेदेन जातीनां भेदकल्पनम् / न जातिळह्मणीयास्ति नियता क्वापि तात्त्विकी // ब्राह्मणक्षत्रियादीनां चतुर्णामपि तत्त्वतः / एकैव मानुषी जातिराचारेण विभिद्यते ।"गुणैः सम्पद्यते जातिगुणध्वंसाद्विपद्यते ।"-धर्मप० 17 / 24-32 / महाभाष्येऽपि 'गुणवाचिनः ब्राह्मणादिशब्दाः' इति पक्षोप्युपन्यस्तः / तथाहि-"अथवा सर्व एते शब्दा: गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति ।"-पात० महाभा०२।२।६ / "क्रियाविशेषय. ज्ञोपवीतादिचिह्नोपलक्षिते व्यक्तिविशेषे तद्वयवस्थायास्तद्वयवहारस्य चोपपत्तेः / ततः क्रियाविशेषादिनिबन्धन एवायं ब्राह्मणादिव्यवहारः ।"-प्रमेयक० पृ० 486 / स्या० र० पू० 962 / 1 तुषटुसप्रक्षा-आ०, तुषबुसप्रक्षा-श्र०। 2 परपक्षादेश्च ब०। 3 अशेषतो ब० / 4 भगवतां श्र०। 5 तन्न तवकल्पि-ब०। 6 क्रियानिबन्धन ब० /