________________ प्रवचनप्र० का०६५] ब्राह्मणवजातिविचारः उक्तदोषोऽविशिष्टः / भवतामपि कथमेवं नगरादिव्यपदेशः स्यात् ? इत्यष्यचोद्यम् ; देशप्रत्यासत्तिविशिष्टे प्रासादादौ तेव्यपदेशस्य अस्माभिरभ्युपगमात् / देशप्रत्यासत्तिश्चात्र संयोगलक्षणा प्रतिपत्तव्या, प्रासादादेरवयवित्वेन अस्माकमिष्टत्वात् / विजातीयैः काष्ठेष्टिकादिभिः तस्य आरम्भासंभवात् कथमवयवित्वम् ? इत्यप्यनुपपन्नम् ; विजातीयैरपि पृथिव्यादिभिः शरीराद्यवयविनः आरम्मोपलम्भात् / सजातीयानाम् आरम्भ- 5 नियमस्य षट्पदार्थपरीक्षायों पृथिव्यादीनां तत्त्वान्तरत्वनिषेधावसरे निषिद्धत्वात् / ततो भवन्मते नगरादिज्ञाने व्यक्तिव्यतिरिक्तनिमित्तनिबन्धनत्वाभावात्, सिद्धमनेनानैकान्तिकत्वम् / न चान्यत् किञ्चिद् ब्राह्मण्ये लिङ्गमस्ति यतः तत्सिद्धिः स्यात् / ___ अस्तु वा किश्चित्तत्रै लिङ्गम् , तथापि अगृहीतप्रतिबन्धं तत् न तत्प्रतिपत्तेरङ्गम् , अतिप्रसङ्गात्। प्रतिबन्धग्रहश्च अप्रतिपन्ने ब्राह्मण्ये न संभवति, अतिप्रसङ्गात्। तत्प्रतिप- 10 त्तिश्च प्रत्यक्षतः प्रतिषिद्धा / अनुमानतः तत्प्रतिपत्तौ चक्रकप्रसङ्ग:-सिद्धे हि अनुमानतो ब्राह्मण्ये तेन लिङ्गस्य प्रतिबन्धसिद्धिः, तत्सिद्धौ च अनुमानसिद्धिः, ततश्च ब्राह्मण्यसिद्धिरिति / आर्गमतोपि अपौरुषेयात् , पौरुषेयाद्वा तत्प्रतिपत्तिः स्यात् ? न तावदपौरुषेयात; तस्य कार्ये एवार्थे प्रामाण्यात् , ब्राह्मणत्वस्य च नित्यतयेष्टितोऽकार्यत्वात् / 15 नापि पौरुषेयात् ततः तत्प्रतिपत्तिः; तस्य प्रमाणान्तरसापेक्षत्वात , तस्य चात्राऽसंभवात् / नाप्युपमानात् तत्प्रतिपत्तिः; तस्य सादृश्यालम्बनत्वात् / अप्रतिपन्ने च प्रमाणान्तरेण ब्राह्मण्ये कथं तेन सादृश्यं कस्यचित् प्रतीयेत यतः तदर्शनाद् ब्राह्मण्यं प्रतीयेत ? नाप्यर्थापत्तेस्तत्प्रतिपत्तिः; ब्राह्मण्यजातिव्यतिरेकेणानुपपद्यमानस्य प्रमाणषट्कविज्ञातस्य कस्यचिदप्यर्थस्य अप्रतीयमानत्वात् / अतः सदुपलम्भकप्रमाणपञ्चक- 20 गोचरातिक्रान्ततया अभावप्रमाणकवलीकृतत्वात् नभोऽम्भोजवत् नास्ति ब्राह्मण्यम् / अतो ब्राह्मण्यजातेः सत्त्वस्यैवाऽसंभवात् 'प्रथमदर्शने प्रतिभातापि जातिः व्यञ्जकभेदाग्रहणान्नोल्लिखति' इत्यादि प्रत्याख्यातम् / (1) जनानाम् / (2) नगरादिव्यपदेशस्य / “प्रासादतोरणपुरुषादीनां समुदायो नगरम् / " -प्रमाणवा०स्ववृ० टी० पृ० 127 / (3) जैनानाम् / (4) अवयविद्रव्यस्य / (५)पृ०२३९ / (6) नैयायिकादिमते / (7) ब्राह्मण्ये / (८)लिङ्गम् / (9) ब्राह्मण्यप्रतीतिः। (10) "नाप्यागमतः; यतोऽसौ पौरुषेयो वा स्यादपौरुषेयः"-स्या० 2010 962 / सन्मति० टी०पू० 698 / (11) ''आम्नायस्य क्रियार्थत्वात्-क्रिया कथमनुष्ठेयेति तां वदितुं समाम्नातारो वाक्यानि समामनन्ति / " -जैमिनिसू०, शाबरभा०१२।१। (12) आगमात् / (13) वक्तुः प्रतिपाद्यविषयज्ञानस्य प्रमाणत्वे सिद्ध एव तत्प्रणीतागमस्य प्रामाण्यम् / (14) ब्राह्मण्यसदृशवस्तुदर्शनात् / (15) पृ०७६८ पं० 6 / 1-विशिष्टप्रासा-श्र०। 2-क्तनिबन्ध-आ० / 3 'तस्य चात्रासंभवात्' नास्ति आ० / 48