________________ 776 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० दिज्ञानेन अनेकान्ताच्च, तत्र व्यक्तिव्यतिरिक्तनिमित्तनिबन्धनत्वाभावेऽपि वर्णविशेषादिनिमित्तबुद्धिविलक्षणत्वस्योपलम्भात् / न खलु 'नगरं सेना वनम्' इत्यादिज्ञाने व्यक्तिव्यतिरिक्तम् अनुवृत्तप्रत्ययनिबन्धनं किश्चिदस्ति / तद्धि द्रव्यम् , सत्ता, प्रत्यासत्तिविशेषो वा स्यात् ? प्रथमपक्षे नगरादिकमेव तत्र द्रव्यम् , अन्यद्वा ? न तावत् नगरादिकमेव; 5 तस्य द्रव्यत्वाऽसंभवात् / नहि नगरं सेनादिकं वा द्रव्यं संभवति; गृहादिभिरसंयुक्तैः विजातीयैश्च तस्य आरम्भाऽसंभवात् / कतिपयगृहाणामस्ति संयोग इति चेत् ; न; तेषां स्वयं संयोगरूपतया संयोगानाश्रयत्वात् / गुणरूपतया च तेषों द्रव्यानारम्भकत्वम् , गुणैर्द्रव्यारम्भाऽसंभवात् / 'सत्ता नगरादिकम्' इत्यत्रापि अंसौ गृहादिविशेषिता, केवला वा तत्प्रत्ययमु10 त्पादयेत् ? न तावत् केवला; गृहादिविविक्तेऽपि प्रदेशे ततः तत्प्रत्ययप्रसङ्गात् / अथ गृहादिविशेषिता; न; कूटस्थनित्याया विशेष्यत्वासंभवात् , अकिञ्चित्करस्य अविशेषणत्वाच्च / किश्चित्करत्वे वा तत्कूटस्थताक्षतिः। कथञ्चैवं 'षण्णगरी' इत्यत्र समुदायोपपत्तिः सत्ताया एकरूपतया समुदायतानुपपत्तेः ? प्रत्यासत्तिविशेषोऽपि कस्य केन सह नगरादिव्यपदेशमर्हेत् ? गृहादीनां गृहा15 द्यन्तरैः इति चेत् ; कः पुनरसौ-तेषां तै: सह समवायः, संयोगो वा ? न तावत्समवायः; "तेषां युतसिद्धतया अनाधार्याधारभूततया च तदसंभवात् / नापि संयोगः; गृहादीनां संयोगरूपतया संयोगानाश्रयत्वात् / न च नगरादिशब्दात् 'संयुक्तसंयोगाल्पीयस्त्वलक्षणे प्रत्यासत्तिविशेषे एकस्मिन् कस्यचित् प्रतिपत्ति-प्रवृत्ति-प्राप्तयोऽनुभूयन्ते, किन्तु गृहादा वनेकत्र / नगरशब्दाद्धि गृहादौ, सेनाशब्दाद् अश्वादौ, वनशब्दाच्च धवादावनेकत्रार्थे 20 ताः प्रतीयन्ते इति। यत्र हि शब्दादुच्चरितात् प्रतिपत्त्यादयः प्रतीयन्ते स शब्द स्यार्थः तथा वृद्धव्यवहारात्। 'देशादिप्रत्यासत्तिविशिष्टा गृहादयो नगरांदिव्यपदेशभाजः' इत्यप्यनेनाऽपास्तम्; देशादौ हि प्रत्यासत्तिः तेषां समवायः, संयोगो वा ? तत्र च (1) गृहाणाम् / (2) संयोगस्य गुणत्वेन द्रव्याश्रितत्वात्। (3) गृहाणाम् / (4) "द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्" ( वैशे० सू० 1 / 1 / 10 ) इति नियमात् / (5) सत्ता / (6) नगरमिति प्रत्ययम् / (7) सत्तातः / (8) सत्तायाः / (9) गृहादेः। (10) यदि गृहादयः सत्तायां कञ्चिदतिशयमुत्पादयन्ति तदा। (११)सत्तायाः नित्यकरूपताव्याघातः। (12) गृहादीनाम् / (13) एकेन गृहेण संयुक्तमपरं गृहं तेन चापरमिति संयुक्तसंयोगाद् यदल्पीयस्त्वम् अल्पदेशावगाहित्वं तत्र। (14) पुरुषस्य / (१५)प्रतिपत्तिप्रवृत्तिप्राप्तयः / (16) तुलना-'सेनाशब्दादनेकत्र हस्त्याद्यर्थे प्रतीतिप्रवृत्तिप्राप्तिसिद्धेः, वनशब्दाच्च धवखदिरपलाशादावनेकत्रार्थे। यत्र हि शब्दात् प्रतीतिप्रवृत्तिप्राप्तयः समधिगम्यन्ते स शब्दस्यार्थः प्रसिद्धस्तथा वृद्धव्यवहारात् / न च सेनावनादिशब्दात् प्रत्यासत्तिविशेषे प्रतीतिप्रवृत्तिप्राप्तयोऽनभयन्ते येन स तस्यार्थः स्यात् ।"-आप्तप० का०४। 1-निबन्धनाभावेपि आ०, श्र०। -त्वात कि-ब०। 8-णप्रत्यासत्ति-ब०। 4-तात्त. प्रतिपत्त्या-आ०।