________________ प्रवचनप्र० का०६५] ब्राह्मणत्वजातिविचारः 775 किञ्च, ब्राह्मण एव तन्मुखाज्जायते, तन्मुखादेव वासौ जायते ? विकल्पद्वयेपि अन्योन्याश्रयः-सिद्धे हि ब्राह्मणत्वे तस्यैवं तन्मुखाजन्मसिद्धिः,तत्सिद्धौ च ब्राह्मणत्वसिद्धिरिति। न च ब्रह्मप्रभवत्वं विशेषणं ब्राह्मण्यप्रत्यक्षताकाले केनचित् प्रतीयते / न च अप्रतिपन्नं विशेषणं विशेष्ये प्रतिपत्तिमाधातुं समर्थमतिप्रसङ्गात्। यद् विशेषणं तत् प्रतिपन्नमेव विशेष्ये प्रतिपत्तिमाधत्ते यथा दण्डादि, विशेषणञ्च ब्राह्मण्यप्रतिपत्तौ ब्रह्मप्रभवत्वमिति / एतेन 'असति प्रतिबन्धके यो यदाकारः प्रत्ययः' इत्याद्यनुमानं ब्राह्मण्यसद्भावप्रसाधकं प्रत्याख्यातम् ; अनेकधा प्रतिबन्धकसद्भावप्रतिपादनात् / यदपि-'ब्राह्मणपदम्' इत्याद्यनुमानमुक्त ; तदप्ययुक्तम् ; पेक्षस्य अध्यक्षबाधितत्वात्, कठकलापादिब्राह्मणव्यक्तिषु हि ब्राह्मणपदं व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बन्धशून्यमेव अध्यक्षतः प्रतीयते अश्रावणत्वविविक्तशब्दवत् / अप्रसिद्धविशेषणश्च 10 पक्षः; न खलु व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बद्धत्वं मीमांसकस्य अस्माकं वा क्वापि प्रसिद्धम् व्यतिरिक्ताव्यतिरिक्तस्यै सामान्यस्योभाभ्यामभ्युपगमात् / हेतुश्चानैकान्तिकः; सत्ताऽऽकाशकालपदे अद्वैतादिपदे वा व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बद्धत्वाभावेऽपि पदत्वस्य भावात् / अत्रापि तत्सम्बद्धत्वकल्पनायां सामान्यस्य निःसामान्यत्वमनेकव्यक्तिवृत्तित्वञ्च व्याहन्येत / अद्वैताखिलशून्यत्वादेश्च सामान्यवत्त्वेन परमार्थसत्त्वानु- 15 षङ्गात् कुतोऽप्रतिपक्षा पक्षसिद्धिश्च स्यात् ? दृष्टान्तोऽपि साध्यविकलः; पटादिपदे व्यक्तिव्यतिरिक्तैकनिमित्तत्वासिद्धेः। नित्यैकरूपसामान्यमन्तरेणापि अनन्तानां वाच्यवाचकव्यक्तीनां सम्बन्धो यथा सिद्ध्यति तथा नित्यसम्बन्धनिषेधावसरे प्ररूपितम् / एतेन वर्णविशेषेत्याद्यनुमान प्रत्युक्तम् ; उक्तदोषाणामत्राप्यविशेषात् / नगरा (1) तुलना-"किञ्च, ब्राह्मण एव तन्मुखाज्जायते तन्मुखादेवासौ जायेत ?"-प्रमेयक० पृ०४८४। (2) ब्राह्मणस्यैव / (3) पृ०७६९ पं०८ / (4) पृ० 769 पं० 13 / (५)तुलना-“यतो यदि व्यक्तयादिभ्यो व्यतिरिक्तं निमित्तमात्रमस्य ज्ञानस्य विषयत्वेन साध्यते तदा सिद्धसाध्यता, तत्समुदायस्य समुदायिभ्यः कथञ्चिदव्यतिरिक्तस्य तद्विषयत्वेन स्वीकारात् / अथ प्रतिव्यक्ति परिसमाप्तमेकान्तव्यतिरिक्तमभिधीयते; तदा पक्षस्य प्रतिपक्षबाधितत्वम् , कठकलापादिब्राह्मणव्यक्तिष हि ब्राह्मणज्ञानं व्यक्तयादिव्यतिरिक्तसामान्यनिमित्तरहितमेवाध्यक्षतः प्रतीयते अश्रावणत्वविविक्तशब्दवत् ।"-स्या०र० पृ० 961 / प्रमेयक० पृ० 4185 / (6) जैनानाम् / (7) व्यक्तिभ्यो कथञ्चिद भिन्नाभिन्नस्य / (8) मीमांसकजनाभ्याम् / (9) व्यक्तिभ्यो भिन्नानां सत्तात्त्व-आकाशत्व-कालत्वअद्वैतत्वादीनां सम्बन्धस्वीकारे। (10) अद्वैतस्य सकलशून्यतायाश्च सिद्धिप्रसङ्गात् / (11) पृ० 546 / (12) पृ०७६९ पं०१८। (13) तुलना-"नगरादिज्ञानवत् व्यतिरिक्तनिबन्धनाभावेऽपि तथाभूतज्ञानस्य कथञ्चिदुपपत्तेः / न हि नगरादिज्ञानेऽपि व्यतिरिक्तं द्रव्यान्तरमस्ति यदेकाकारज्ञाननिबन्धनं भवेत्, काष्ठादीनामेव प्रत्यासत्त्या कयाचित् प्रासादादिव्यवहारनिबन्धनानां नगरादिव्यवहारनिबन्धनत्वोपपत्तेः, अन्यथा षण्णगरीत्यादिष्वपि वस्त्वन्तरकल्पनाप्रसक्तेः ।"-सन्मति० टी० पृ० 697 / प्रमेयक पृ० 485 / स्था०र० पृ० 961 / / 1-देव चासौ आ०, ब०। 2-सिद्धेः श्र०। 3 अथप्रसिद्ध-श्र० / 4 व्यतिरिक्तस्य सामान्यस्योभामभ्यु-आ० / 5-भाभ्याम्युप-श्र० / 6 सामान्यनिः सा-आ० /