________________ 774 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० ग्रहादिः, स च तत्प्रत्यक्षतानिमित्तं न भवति अव्याप्तेरतिव्याप्तेश्चानुषङ्गात्; याजनादिरहितेषु हि ब्राह्मणेष्वपि तद्व्यवहाराभावप्रसङ्गादव्याप्तिः, शूद्रेष्वपि अखिलस्य याजनाद्याचारस्योपलब्धितो ब्राह्मण्यानुषङ्गाच्चातिव्याप्तिः / अथ मिथ्याऽसौ आचारविशेष स्तत्रै; अन्यत्र कुतः सत्यः ? ब्राह्मण्यसिद्धेश्चेत् ; अन्योन्याश्रयः-सिद्धे हि आचारसत्यत्वे 6 ब्राह्मण्यसिद्धिः, तत्सिद्धौ च आचारसत्यत्वसिद्धिरिति / किञ्च, आचाराद् ब्राह्मण्यसिद्ध्यभ्युपगमे व्रतबन्धात् पूर्वमब्राह्मण्यप्रसङ्गः / तन्न आचारोऽपि तत्प्रत्यक्षतां प्रत्यङ्गम् / एते. संस्कारविशेषस्यापि तदङ्गता प्रत्याख्याता; अव्याप्त्यतिव्याप्त्योरत्राप्यविशेषात् / तत्र अव्याप्तिः-संस्कारविशेषात् पूर्वं ब्राह्मणस्यापि अब्राह्मण्यप्रसक्तेः 10 स्यात् / अतिव्याप्तिः पुनः अब्राह्मणस्यापि तथाविधसंस्कृतस्य ब्राह्मणत्वांपत्तेः स्यादिति। एतेन वेदाध्ययनस्य यज्ञोपवीतादेश्च तदङ्गता प्रतिव्यूढा / ब्रह्मप्रभवत्वस्य च तदङ्गत्वे अतिप्रंसङ्ग एव, सकलप्राणिनां तत्पुभवतया ब्राह्मण्यप्रसङ्गात् / - किश्च, ब्रह्मणो ब्राह्मण्यमस्ति, न वा ? यदि नास्ति; कर्थमतो ब्राह्मणोत्पत्तिः ? न हि अमनुष्यात् मनुष्योत्पतिः प्रतीता। अथ अस्ति; किं सर्वत्र, मुखप्रदेशे एव 15 वा ? यदि सर्वत्र; स एव प्राणिनां भेदाभावानुषङ्गः। अथ मुखप्रदेश एव; तदाऽ-. न्यत्रास्य शूद्रत्वानुषङ्गात् न विप्राणां तत्पादादयो वन्द्याः स्युः / (1) तुलना-"अथाध्ययनादिना क्रियाविशेषेण ज्ञायते नोपदेशमात्रात; तदप्यसत; द्विजातित्वे क्रिया साध्या न क्रियातो द्विजातिता। वचनादपि नैवास्याः प्रतीतिरविरोधिनी ॥"-प्रमाणवातिकालं०५० 23 // "जातकर्मादयो ये च प्रसिद्धास्ते तदन्यवत् / आचाराः सांवतास्ते हि कृत्रिमेष्वपि भाविनः ॥"-तत्त्वसं० का० 3578 / “अत एवाध्ययनं क्रियाविशेषो वा तत्सहायतां न प्रतिपद्यते। दृश्यते हि शूद्रोऽपि स्वजातिविलोपाद्देशान्तरे ब्राह्मणो भूत्वा वेदाध्ययनं तत्प्रणीताञ्च क्रियां कुर्वाणः ।"-प्रमेयक० पृ०४८५। "अव्याप्तेरतिव्याप्तेश्चानुषङ्गात्"-स्या० र० पृ० 960 / (2) शूद्रादिषु। (3) ब्राह्मण्यप्रत्यक्षताम् / (4) तुलना-"एतेन संस्कारविशेषस्य वेदाध्ययनस्य यज्ञोपवीतादेश्च चक्षुःसहकारिता प्रत्युक्ता; अव्याप्त्यतिव्याप्त्योरत्राप्यविशेषात् ।"-स्या० र० पृ० 9610 (5) ब्राह्मण्यप्रत्यक्षतानिबन्धनत्वे / (6) तुलना-"ब्रह्मणोऽपत्यतामात्रात ब्राह्मण्येति प्रसज्यते / न कश्चिदब्रह्मतनोरुत्पन्नः क्वचिदिष्यते / अन्तरा जातिभेदश्चेनिनिमित्तः कथं भवेत् / अन्तराले क्रियाभेदात् गोत्रेणार्थो न कस्यचित् // अथ द्विजादिगोत्राणामनादिर्भद इष्यते / ज्ञायतां स कथनाम प्रमाणस्याप्रवृत्तितः // क्रिया तदपरिज्ञानादक्रियेव प्रसज्यते। अविच्छेदश्च गोत्रस्य प्रत्येतुं शक्यते न च / / सूतमागधचाण्डालाः कथं संभविनोऽन्यथा। ज्ञायन्त एव ते तज्जैरिति चेन्नियमो न हि ॥"प्रमाणवातिकालं० पृ० 24 / (7) ब्रह्मप्रभवतया / (8) तुलना-"किञ्च, ब्रह्मणो ब्राह्मण्यमस्ति वा न वा? नास्ति चेत् ; कथमतो ब्राह्मणोत्पत्तिः ? * * अस्ति चेत् किं सर्वत्र मुखप्रदेश एव वा ?"-प्रमे. यक० पृ० 484 / स्या० र० 961 / (9) अब्राह्मणाद् ब्रह्मणः / (10) सर्वत्र शरीरावयवेषु मुखादिपादान्तेषु / (11) पादादिषु / (12) ब्रह्मणः / 1 आचारस्तत्र ब०, आ० / 2-च्याप्त्योस्तत्रा-श्र० / 8-त्वानुपपत्तेः श्र०। 4-वत्त्वसाधनत्वं गत्वे ब०। 5 -त्तिः प्रतीयते ब०,-त्तिता प्रतीता श्र० /