________________ प्रवचनप्र० का०६५ ] ब्राह्मणत्वजातिविचारः 773 10 लक्षणाकाराऽपत्योपलम्भात् पित्रोरविप्लुतत्वं निश्चीयते, न चासौं सिद्धा / न खलु वडवायां गर्दभाश्वप्रभवाऽपत्येष्विव ब्राह्मण्यां ब्राह्मणशूद्रप्रभवापत्येष्वपि वैलक्षण्यं स्वप्नेऽपि प्रतीयते / आगमतोऽपि अपौरुषेयात्, पौरुषेयाद्वा तयोरविप्लुतत्वप्रतिपत्तिः स्यात् ? न तावदपौरुषेयात्; तत्प्रतिपादकस्य अपौरुषेयस्य आगमस्यैवाऽसंभवात् / पौरुषेयोप्यागमः तत्प्रणेत्रा प्रमाणान्तरेणानयोरविप्लुतत्वे प्रतिपन्ने सति प्रवर्त्तमानः प्रमाणतां / भजते, 'न तत्प्रतिपत्तिः कुतश्चिदस्ति' इत्युक्तम् / तन्न तज्जन्मनि अनयोरविप्लुतत्वं कुतश्चित् प्रत्येतुं शक्यम् / एतेन अनादिकाले तैयोस्तत्प्रतिपत्तिः प्रत्याख्याता; ययोर्हि तज्जन्मन्यप्यविप्लुतत्वं प्रत्येतुं न शक्यते तयोः अनादिकाले तत् प्रतीयते इति महच्चित्रम् ! एतेन अनादिकालपितृप्रवाहापेक्षया अविप्लुतत्वप्रतिज्ञा प्रतिव्यूढा / किञ्च, सदैव अबलानां कामातुरतया इह जन्मन्यपि व्यभिचारोपलम्भात् अनादौ काले ताः कदा किं कुर्वन्तीति ब्रह्मणापि ज्ञातुमशक्यम् / तथा च 'व्यभिचारो हि प्रवादेन व्याप्तः' इत्याद्ययुक्तम् ; अत्यन्तप्रच्छन्नकामुकानां प्रवादाभावेऽपि व्यभिचारसंभवतः तस्य तेन व्याप्त्यनुपपत्तेः / अतः पित्रोरविप्लुतत्वस्य कुतश्चिदप्रसिद्धेः न तदुपदेशो ब्राह्मण्यप्रत्यक्षताप्रादुर्भावे चक्षुषः सहकारित्वं प्रतिपद्यते / 16 __नापि आचारविशेषः; स हि ब्राह्मणस्याऽसाधारणो याजनाऽध्यापनप्रतिग्रहतद्वदेव स्याद् द्वयोधिसदृशः सुतः / नात्र दृष्टं तथा तस्माद्गुणैर्वर्णव्यवस्थितिः ।।"-पद्मपु० 11196-981 "वर्णाकृत्यादिभेदानां देहेस्मिन्न च दर्शनात् / ब्राह्मण्यादिषु शूद्राद्यैर्गर्भाधानप्रवर्तनात् ॥नास्ति जातिकृतो भेदो मनुष्याणां गवाश्ववत् / आकृतिग्रहणात्तस्मादन्यथा परिकल्प्यते ॥"-उत्तरपु० 74 / 491-92 / (1) विप्लुतेतरप्रभवापत्येषु विलक्षणाकारता। (2) तुलना-" न च वेदवचः किञ्चित् द्विजातित्वप्रसाधकम् / व्यक्तेः सामान्यवचनमनुक्तसममेव तत् ॥"-प्रमाणवातिकालं० पृ० 25 / (3) आगमप्रतिपादकेन / (4) अविप्लुतत्वप्रतिपत्तिः। (5) पित्रोरविप्लुतत्वप्रतीतिः / (6) तुलना"यदाहुः-अनादाविह संसारे दुर्वारे मकरध्वजे / कुले च कामिनीमूले का जातिपरिकल्पना ॥"-नैषध० टी० 17140 / “अनादिगोत्रपद्धत्यामस्यां न स्खलनं स्त्रियाः। इति ज्ञानं कथन्नाम कामार्ता हि सदा स्त्रियः // ब्राह्मणत्वे स्थिते पूर्वं तद्गोत्रत्वस्य संभवः / तदाऽस्थितेः कथं गोत्रं सेयमन्धपरम्परा // " -प्रमाणवातिकालं० पृ० 25 / 'अतीतश्च महान कालो योषिताञ्चातिचापलम् / तद् भवत्यपि निश्चेतुं ब्राह्मणत्वं न शक्यते / / अतीन्द्रियपदार्थज्ञो न हि कश्चित् समस्ति वः / त्वदन्वयविशद्धिञ्च नित्यो वेदोऽपि नोक्तवान् ॥"-तत्त्वसं० का० 3579-80 / "प्रायेण प्रमादानां कामातुरतया इहजन्मन्यपि व्यभिचारोपलम्भात्कुतो योनिनिबन्धनो बाह्मण्यनिश्चयः ।"-प्रमेयक० ए०४८२। "अनादिगोत्रपद्धतौ च कामार्तत्वात् सर्वदा प्रमदानां कस्याश्चिद् व्यभिचारसंभवात् कुतो योनिनिबन्धनब्राह्मण्यनिश्चयात् संस्कारस्य अध्ययनादेश्च अविपर्यस्तत्वनिश्चयः ।"-सन्मति० टी० पृ० 698 / स्या० 2010 960 / "न विप्राविप्रयोरस्ति सर्वदा शुद्धशीलता। कालेनानादिना गोत्रे स्खलनं क्व न जायते ॥"-धर्मप० 1728 (7) "अध्यापनमध्ययनं यजनं याजनं तथा / दानं प्रतिग्रहञ्चैव ब्राह्मणानामकल्पयत् ॥"-मनुस्मृ० 11880 1-द्वानयोः ब०। 2 भजते तन्न श्र० / 3 व्याप्य इ-श्र०। 4-प्रवृत्तकाप्रकाशाना ब० /