________________ 772 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० . 'अविप्लुतेन ब्राह्मणेन अविप्लुतायां ब्राह्मण्यामुत्पन्नो ब्राह्मणः' इत्यविप्लुतमातापित्रुपदेशस्तत्सहकारी; इत्यपि श्रद्धामात्रम् ; प्रमाणतोऽप्रतिपन्नेऽर्थे वास्तवोपदेशासंभवात् / यन्न कुतश्चित् प्रमाणात् प्रतीयते न तत्रोपदेशो वास्तवः यथा सकलशून्यतायाम् , कुतश्चि दपि प्रमाणान्न प्रतीयते च भवत्कल्पितं ब्राह्मण्यमिति / अथ प्रत्यक्षत एव ब्राह्मण्यं प्रतीत्य 6 यथोक्तोपदेशो विधीयते; तदसत्; परस्पराश्रयप्रसङ्गात्-सिद्धे हि ब्राह्मण्यप्रत्यक्षत्वे प्रमाणभूतयथोक्तोपदेशसिद्धिः, तत्सिद्धौ च तथाभूतोपदेशसहकृतेन इन्द्रियेण ब्राह्मण्यप्रत्यक्षतासिद्धिरिति / अविप्लुतत्वञ्च विवक्षितपित्रपेक्षया, अनादिकालपितृप्रवाहापेक्षया वा अभिप्रेतम् ? यदि विवक्षितपित्रपेक्षया; तत्रापि अनयोः तजन्मनि अविप्लुतत्वमभिप्रेतम् , अनादि10 काले वा ? तज्जन्मनि चेत् ; केन तत्तत्र तयोः प्रतीयेत-पुत्रेण, अन्यैर्वा ? न तावत् पुत्रेण; स्वजन्मकालेऽपि तस्य तद्विवेचनासामर्थ्यात् / नाप्यन्यैः; तद्धि तैः प्रत्यक्षतः प्रतीयेत, अनुमानात् , आगमाद्वा ? न तावत् प्रत्यक्षतः; 'अयमेतस्मादेव एतस्यामुत्पन्नः'. इत्येवंरूपस्यार्थस्य अर्वाग्दृशा प्रत्यक्षीकर्तुमशक्यत्वात् / नाप्यनुमानात् ; प्रत्यक्षाविषये भवता अनुमानाऽनभ्युपगमात् / लिङ्गाच्च अनुमानमुदयमासादयति / न च पित्रविप्लु15 तत्वे किञ्चिल्लिङ्गमस्ति / तत्र हि लिङ्गम्- पित्रोः संवृताकारादिविशेषः, अपत्येष्वविल क्षणता वा ? तत्राद्यपक्षोऽयुक्तः, दुश्चारिणाम् अतीव संवृताकारदर्शनात् / द्वितीयपक्षोऽप्यपेशल:; यतो यदि विप्लुतेतरपितृप्रभवाऽपत्येषु विलक्षणाकारता सिद्ध्येत् तदा अवि (1) तुलना-"न खल द्विजादिभावः प्रमाणगोचरचारी। स हि जातियोगलक्षण: गोत्रलक्षण: क्रियासामर्थ्यातिशययोगो वा ? * 'परोपदेशप्रामाण्यं प्रत्यक्षार्थे न यक्तिमत् / उपदेशो हि लोकानामन्यथापि प्रवर्तते।"-प्रमाणवातिकालं०१० 22 // "नचोपदेशसहायाध्यक्षगम्यं तत्; अध्यक्षविषये उपदेशापेक्षायोगात् / तद्योगे वा उपदेशस्यैव केवलस्य व्यापार इति उपदेशमात्रव्यङ्ग्यतैव ।"-सन्मति० टी० पू० 697 / (2) ब्राह्मण्ये नोपदेशो वास्तवः प्रमाणतोऽप्रतीयमानत्वात्। (3) "किञ्च, ब्राह्मण्यजाते. प्रत्यक्षतासिद्धौ यथोक्तोपदेशस्य प्रत्यक्षहेतुतासिद्धिः, तत्सिद्धौ च तत्प्रत्यक्षतासिद्धिरित्यन्योन्याश्रयः ।"-प्रमेयक० ए० 483 / स्या० र० पृ० 959 / (4) तुलना-"शुद्धिवंशद्वयीशुद्धौ पित्रो पित्रोर्यदेकशः / तदानन्तकुलादोषाददोषा जातिरस्ति का। कामिनीवर्गसंसगर्न कः सङ्क्रान्तपातकः।" -नैषध० 17440-41 / "अविप्लुतत्वञ्च विवक्षितपित्रपेक्षया अनादिकालपितृप्रवाहापेक्षया वाडभिप्रेतम् ? यदि विवक्षितपित्रपेक्षया; तत्राप्यनयोस्तज्जन्मन्यविप्लुतत्वमभिमतमनादिकाले वा ? तज्जन्मनि चेत्; तर्हि केन तत्र तयोः प्रतीयेत पुत्रेण अन्यैर्वा ?"-स्या० र० पृ० 959 / (5) विवक्षितपित्रपेक्षया तज्जन्म-यविप्लुतत्वम्। (6) "नच पित्रोरविप्लुतत्वे किञ्चिल्लिङ्गमस्ति, तद्वि (द्धि) संवताकारादिविशेषः अपत्येष्वविलक्षणता वा ?"-स्या० 2010 959 / (7) तुलना"नच विप्लुतेतरपित्रपत्येषु वैलक्षण्यं लक्ष्यते / न खलु वडवायां गर्दभाश्वप्रभवापत्येष्विव - ब्राह्मण्यां ब्राह्मणशूद्रप्रभवापत्येष्वपि वैलक्षण्यं लक्ष्यते ।"-प्रमेयक० पु० 483 // स्या० र० पृ० 959 / “न च जात्यन्तरस्थेन पुरुषेण स्त्रियां क्वचित् / क्रियते गर्भसंभूतिविप्रादीनां तु जायते // अश्वायां रासभेनास्ति संभवोऽस्यति चेन्न सः। नितान्तमन्यजातिस्थः शफादितनुसाम्यतः // यदि वा 1 तज्जन्यविप्लुत-श्र०। 2 पितृविप्ल-आ०, ब०। 3-पितृभवा-ब० /