________________ प्रवचनप्र० का०६५] ब्राह्मणत्वजातिविचारः مقای शुक्लत्वादिगुणवद्वा मनुष्यव्यक्तिषु मैनुष्यत्वपुंस्त्वाद्यतिरिक्तस्य ब्राह्मण्यस्यैकस्य अखिलस्वव्यक्तिष्वनुगतस्य प्रतिभासोऽस्ति / कथमेवं क्वचिद् ब्राह्मणत्वानुरक्तोऽनुगतप्रत्ययः स्यादिति चेत् ? सङ्केतवशात् , यथैव हि परस्परविलक्षणेषु गोवादिषु एकगोत्वरूपसामान्याभावेऽपि गौः गौः' इत्यनुगताकारैकप्रत्ययः तथा अन्योन्यविलक्षणेष्वपि मनुष्यव्यंक्तिविशेषेषु 'ब्राह्मणोऽयं ब्राह्मणोऽयम्' इत्यनुगताकारैकप्रत्ययो भविष्यति। वस्तुसामर्थ्य- 5 प्रभवत्वे तु अगृहीतसङ्केतास्वपि व्यक्तिषु तन्मात्रोपलम्भेनैव अव्यभिचारिगोप्रत्ययवत् से स्यात् , न चैवम् / न खलु यथा महिषादिस गवां गोजातिः वैलक्षण्येन प्रतिभासते खसङ्घ च गुणः क्रिया वा, तथा ब्राह्मण्यमपि / नहि हस्तपादाद्याकारव्यङ्ग्यमनुष्यत्वाद् व्यतिरिच्यमानपुंस्त्वादिसामान्यवत् ब्राह्मणत्वं वैविक्तधेन जातु प्रतिभासते / अन्यसहकृतेन्द्रियजनितेनापि तेनें निर्विकल्पकेन, सविकल्पकेन वा तत् प्रतीयेत ? 10 उभयत्र उक्तदोषानुषङ्गः / किञ्च, इन्द्रियाणां तद्विषयं प्रत्यक्षमुपजनयतां किं तदन्यत् सहकारित्वेन अभिप्रेतम्-ब्राह्मणभूतपितॄजन्यत्वम् , पित्रोरविप्लुतत्वोपदेशः, आचारविशेषः, संस्कारविशेषः, वेदाध्ययनम् , यज्ञोपवीतादिकम् , ब्रह्मप्रभवत्वं वा ? तंत्राद्यः पक्षोऽनुपपन्नः; यतः पित्रोर्ब्राह्मण्ये सिद्धे तजन्यत्वेन पुत्रस्य ब्राह्मण्यं सिद्ध्येत् , तँच्चानयोः ब्राह्मणभूतपितृ- 15 जन्यत्वात् सिद्ध्येत् , तथाभूतपुत्रजनकत्वाद्वा ? प्रथमपक्षे अनवस्था। बीजाङ्कुरवदनादित्वात् तत्कार्यकारणप्रवाहस्य अतो नानवस्था दोषाय; इत्यप्ययुक्तम् ; यतो बीजाङ्कुरयोः कार्यकारणभावः पूर्वबीजाकुरकार्यकारणभावग्रहणनिरपेक्षः प्रमाणतः प्रतीयते, अत्र तु पूर्वपूर्वब्राह्मण्यप्रतिपत्त्यभावे परापरब्राह्मण्यप्रतिपत्तेः कर्तुमशक्यत्वान्न दृष्टान्त-दार्टीन्तिकयोः मनागपि साम्यम् / द्वितीयपक्षे तु अन्योन्याश्रयः-सिद्धे हि पितृब्राह्मण्ये ब्राह्मण- 20 भूतपितृजन्यत्वेन पुत्रब्राह्मण्यसिद्धिः; तत्सिद्धौ च ब्राह्मणभूतपुत्रजनकत्वात् पितृब्राह्मण्यसिद्धिरिति / (1) वस्तुमात्रोपलभ्भेनैव / (2) ब्राह्मणोऽयं ब्राह्मणोऽयमिति प्रत्ययः / (3) मनुष्यत्वं हि स्त्रीषु पुरुषेषु च व्याप्तम् , पुरुषत्वं तु पुरुषमात्र एव / (4) प्रत्यक्षेण / (5) ब्राह्मण्यम् / (6) "ननु किमिदमिन्द्रियसहकारित्वेनावेष्टम्-ब्राह्मणभूतस्वपितृजन्यत्वम्, पितृगोचरोऽविप्लुतत्वोपदेशः, आचारविशेषः, संस्कारविशेषः, वेदाध्ययनम् , यज्ञोपवीतादिकम् , ब्रह्मप्रभवत्वं वा ?"-स्या०र० पृ० 958 (7) तुलना-"यतः पित्रादिब्राह्मण्यज्ञानं प्रमाणमप्रमाणं वा ?"-प्रमेयक० पृ०४८३ / (8) * "तच्चानयोः ब्राह्मणभूतपितृजन्यत्वात् सिद्धयेत् तथाभूतपुत्रजनकत्वाद्वा ?"-स्या० र० पृ० 159 / 1 मनुष्यपुंस्त्वा-आ०, ब०। 2-स्त्वाद् व्यति-श्र०। 3 ब्राह्मणस्य-आ०,श्र० / 4-गत: * प्रत्य-ब०। 5-व्यक्तिषु मनुष्यत्वपुंस्त्वाव्यतिरिक्तस्य ब्राह्मणोऽयं श्र०। 6-चारी गोप्रत्य-आ०,ब०। 7महिष्यादि-श्र० / 8 स्वस्वसंघ ब०। 9-स्वाद्यतिरि-ब०, आ०। 10 जातिः प्रति-श्र० / 11-जन्मत्वं ब०। 12 तत्राद्यप-ब०। 18 ब्राह्मण्यभूत-श्र०। 14-ह्मण्यभावेपरा-श्र। 15 पुत्र. ब्राह्मण्यसिद्धिः तत्सिद्धौ च ब्राह्मण्यसिद्धिः तत्सिद्धौ च ब्राह्मण-आ०।