________________ 770 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० तथा 'ब्राह्मणेन यष्टव्यं ब्राह्मणो भोजयितव्यः" / ] इत्याद्यागमादपि ब्राह्मण्यजातिः प्रसिद्धा / तथा 'वेदेतिहासपुराणप्रसिद्धा चासौ "श्रादौ ब्रह्मा मुखतो ब्राह्मणं ससर्ज, बाहुभ्यां क्षत्रियम्, उरुभ्यां वैश्यम् पद्भ्यां शूद्रम्" [ ] इत्यादि वचसां भूयसां तत्र तत्प्रतिपादकानां श्रवणादिति / अत्र प्रतिविधीयते। यत्तावदुक्तम्-'प्रत्यक्षेणैव ब्राह्मण्यं प्रतीते' इत्यादि; तदसमीसदृशपरिणाम चीनम् ; यतः किं केवलेन्द्रियजनितेन तेन तत्प्रतीयेत, अन्यसहकृतेन्द्रियब्राह्मण्यम् , नतु जनितेन वा? प्रथमपक्षे किं निर्विकल्पकेन, सविकल्पकेन वा तजनियोनिनिबन्धनमिति तेन तेन तत्प्रतीयेत ? न तावन्निर्विकल्पकेन; तत्रे जात्यादिप्रतिभासासमर्थनम्- भावात् , भावे वा निर्विकल्पकत्वविरोधः कथमन्यथेदं शोभेत10 “अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् / बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् // ततः परं पुनर्वस्तुधमैर्जात्यादिभिर्यया / बुद्धयावसीयते सापि प्रत्यक्षत्वेन सम्मता // " मी० श्लो० प्रत्यक्ष० श्लो० 112, 120] इति / नापि सविकल्पकेन; अस्य निर्विकल्पकाविषये प्रवृत्त्यनुपपत्तेः / उपपत्तौ वाऽतिप्रसक्तेः / न च विस्फारिताक्षस्य पुरोवर्त्तिखण्डमुण्डकर्कादिव्यक्तिषु गवाश्वादिजातिवत् (1) ब्राह्मणोस्य मुखमासीद् बाह राजन्यः कृतः / ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽजायत॥"ऋग्० पुरुष० 12 / “अस्य प्रजापतेः ब्राह्मणत्वजातिविशिष्ट: पुरुषः मुखमासीत् मुखादुत्पन्न इत्यर्थः / योऽयं राजन्यः क्षत्रियत्वजातिविशिष्ट: स बाह कृतो बाहुत्वेन निष्पादितो बाहुभ्यामुत्पादित इत्यर्थः / तत्तदानीमस्य प्रजापतेर्यद्यावूरू तद्रूपो वैश्यः सम्पन्नः ऊरुभ्यामुत्पादित इत्यर्थः / तथास्य पद्भ्यां पादाभ्यां शूद्रः शुद्रत्वजातिमान् पुरुषोऽजायत। इयञ्च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजुःसंहितायां (31 / 11) सप्तमकाण्डे 'स मुखतस्त्रिवतं निरमिमीत' इत्यादौ विस्पष्टमाम्नाता।"-सायणभा०। (2) 10768 पं०१८ / (3) तुलना-"तत्र कि निर्विकल्पकात विकल्पकाद्वा ततस्तत्प्रतिपत्तिः स्यात्।"-प्रमेयक०प० 482 / स्या०र० प्र० 958 / (4) इन्द्रियजनितेन प्रत्यक्षेण / (5) निविकल्पके। (6) व्याख्या"यस्त्वपिशब्दमसहमानः सर्वमेव ज्ञानं शब्दानुविद्धत्वात् सविकल्पकमेव न किञ्चिन्निविकल्पकमस्तीति मन्यते तं प्रत्याह-अस्तीति। बालानामिव अव्युत्पन्नानामस्माकमपि चक्षुःसन्निपातानन्तरं सविकल्पकात प्रथममस्ति निर्विकल्पकं प्रतीतिसिद्धमालोचनविज्ञानं शुद्धवस्तुविषयम, तदभावे हि निनिमित्तं शब्दस्मरणं स्यात् / अस्मृतशब्दस्य च (न) शब्दानुविद्धो विकल्पः संभवतीति / शुद्धवस्तुजमित्येतद्विवृणोति-न विशेषो न सामान्यं तदानीमनुभूयते / तयोराधारभूता तु व्यक्तिरेवावसीयते / महासामान्यमन्यैस्तु द्रव्यं सदिति चोच्यते ।"-मी० श्लो० न्यायर० / उद्धृतोऽयम्-'ज्ञानमाद्यं चेन्निर्विकल्पकम्'-तत्त्वसं० 10 385 / प्रमेयक० पृ० 482 / प्रमेयर० पृ०७४ / स्या० र० पृ० 958 / स्या० मं० श्लो० 13 / 'ह्यालोचनं ज्ञानं'-षड्द० बृह० पृ० 11 / (7) ततो निर्विकल्पकादुत्तरकालं जात्यादिभिर्विकल्प्य वस्तु यया बुद्धया गृहते साऽपि प्रत्यक्षमेवेति ।"-मी० श्लो० न्यायर० / उद्धृतोऽयम्-तत्त्वसं० पृ० 385 / प्रमेयक० पृ०४८२। स्या० र० 958 / (8) मनोराज्यादिविकल्पादपि वस्तुसिद्धिप्रसङ्गात् / (9) तुलना-"विस्फारिताक्षस्य पुरोवर्तिखण्डमुण्डकर्कादिव्यक्तिषु गवाश्वादिजातिवत् मनुष्यव्यक्तिषु मनुष्यत्वपुंस्त्वाद्यतिरिक्तब्राह्मणस्य कस्यचिदप्रतिभासात् ।"-स्या० र० पृ० 958 / . 1 इति वचसांब०। 2 वचसां तत्र श्र० ।-वा तत्प्र-ब०।